हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
DevanagariHindipublished742 पृष्ठ
पृष्ठ 368, कुल 742 में से
संदर्भ में पढ़ेंपृष्ठ 368
७२ गात्ररोगाध्यायः ] हस्त्यायुर्वेदः । ३४९
वेदना गतिवैकल्यं दौर्बल्यं परिमूत्रता ।
गात्रविक्षोभणाद्वाऽपि स्तम्भस्तस्योपजायते ॥
तस्य सर्वाणि गात्राणि सर्पिषा परिषेचयेत् ।
स्निग्धगात्रस्य च †भवेत्सुखं सर्वार्थदेहजम् ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने गात्र-
रोगो नाम द्विसप्ततितमोऽध्यायः ॥ ७२ ॥
इति द्वितीयं क्षुद्ररोगस्थानं समाप्तम् ॥
† खपुस्तके तु 'भवे' इत्युत्तरमेव 'इतिश्री'—इति स्थानसमाप्तिलेख उपलभ्यते ।
कपुस्तके तु 'सुखं सर्वार्थदेहजम्' इत्युत्तरम् । पुस्तकद्वयेऽप्यध्यायसमाप्तिलेखो नोप-
लभ्यते । अतः प्रतिभाति—'कियान्ग्रन्थभागस्त्रुटितः' इति ॥