सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 369, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 369

३५० पालकाप्यमुनिविरचितो— [३ शल्यस्थाने—
अथातस्तृतीयं शल्यस्थानमारभ्यते।
'अथातो द्विव्रणीयमध्यायं व्याख्यास्यामः' इति ह स्माऽऽह भगवान्पा-
लकाप्यः ॥
तपोभिर्विपुलैः पूतमृषिं वारणबान्धवम् ॥
बान्धवो विदुषामङ्ग इमं प्रश्नमचोदयत् ॥ १ ॥
योनिर्वस्त्वन्यधिष्ठानं मर्म शल्यसमुद्भवम् ॥
श्रा(स्रा)वास्त्वाकृतयश्चैव व्रणानां कतिलक्षणाः ॥ २ ॥
व्रणानां सिद्धिजननाः कति चैषामुपक्रमाः ॥
शास्त्रतः कति बोध्यन्ते व्रणोपक्रमयोनयः ॥ ३ ॥
विसर्पन्ति च केनैषां प्रायसो(शो) दन्तिनां व्रणाः ॥
बद्धकोशाश्च जायन्ते स्वल्पमप्यनि(न)धिष्ठिताः ॥ ४ ॥
ये चैषां दुरधिष्ठाना व्रणास्ते केन हेतुना ॥
अचिराच्चोपरोहन्ति दुष्यन्ति च पुनः पुनः ॥ ५ ॥
केन चैषां न जायन्ते वने दोषोद्भवा व्रणाः ॥
रोहन्ति च विना वैद्यैः केन वै हेतुना द्विज ॥ ६ ॥
ततः प्रोवाच भगवान्पालकाप्यो महामुनिः ॥
अङ्गराजाय निखिलं विधिं व्रणविधानजम् ॥ ७ ॥
व्रणस्य त्रिविधा योनिरात्मा च त्रिविधः स्मृतः ॥
वस्तून्यष्टावधिष्ठानं द्विविधं शास्त्रनिश्चयात् ॥ ८ ॥
द्विविधा चाऽऽकृतिर्योनिः श्रा(स्रा)वश्च द्विविधः स्मृतः ॥
शल्यं च द्विविधं ज्ञेयं त्रिविधश्चाप्युपक्रमः ॥ ९ ॥
तस्य च त्रिविधा ज्ञेया ‘योनिः शास्त्रविनिश्चयात् ॥
पञ्चैव पठिता राजन्व्रणोपक्रमयोनयः ॥ १० ॥
दुःखाधिष्ठान्तरा राजन्संरूपया न(*व हस्तिनः ॥
इत्युद्दिष्टः समुद्देशस्तत्प्रविस्तर लक्षणम् ॥ ११ ॥
* धनुश्चिह्नान्तर्गतो भ्रष्टः पाठः कपुस्तके।
१ ख. ॰यं स्या॰। २ क. ॰पुलैरमृत॰। ३ क. ॰मवोचय॰। ४ क. सिद्धजनकाः।
५ क. रुहन्ति । ६ क. त्रिविधं ।