सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 373, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 373

३६४ पालकाप्यमुनिविरचितो— [३ शल्यस्थाने-
स्यात्तु वेदनया युक्तो विशेषान्मर्मजो व्रणः ॥
स्रोतांसि यानि यान्भावान्प्रस्रवन्तीह दन्तिनाम् ॥ ५४ ॥
तेषु व्रणविभिन्नेषु स एव स्रवति स्रवः ॥
द्विविधं स्यादधिष्ठानं व्रणानां प्रविभागशः ॥ ५५ ॥
विज्ञेयं दुरधिष्ठानं स्वा(स्व)धिष्ठानं तथैव च ॥
तत्र तावत्प्रवक्ष्यामि दुःखाधिष्ठानमादितः ॥ ५६ ॥
हंस्ते मर्मसु कोष्ठे च धमनीष्वथ संधिषु ॥
सिरास्नाय्वस्थिषु तथा दुरधिष्ठानजा व्रणाः ॥ ५७ ॥
स्वधिष्ठानास्तु शेषेषु विज्ञेया वस्तुषु व्रणाः ॥
दुःखाधिष्ठानहेतूंश्च प्रवक्ष्याम्यत उत्तरम् ॥ ५८ ॥
तत्रोपद्रवबाहुल्याद्दुःखो मर्माश्रितो व्रणः ॥
सतताभ्यवहारेण दुःखः स्याद्धमनीव्रणः ॥ ५९ ॥
असृक्स्रुतेः शिराजस्तु चलनात्संधिदेशजः ॥
स्वकर्मविक्रियाभावाद्दुःखः स्याद्धस्तजो व्रणः ॥ ६० ॥
स्नायुजालाकुलभयाद्दुःखः स्नाय्वाश्रयो व्रणः ॥
कोष्ठजो दुश्चिकित्स्यः स्यात्समानानलदूषणात् ॥ ६१ ॥
अस्थिजः स्नेहमांसाभ्यां रहितो नोपरोहति ॥
मज्जातिस्रवणाद्दुःखो भवेन्मज्जाश्रयो व्रणः ॥ ६२ ॥
व्रणस्य त्रिविधस्त्वात्मा शास्त्रतः संप्रवक्ष्यते ॥
सुचिकित्स्योऽचिकित्स्यश्च दुश्चिकित्स्यश्च लक्षणैः ॥ ६३ ॥
तत्र पद्मपलाशामः स्वाक्रांतैर्लजगन्धिकः ॥ •
सुचिकित्स्यः स्वधिष्ठानो व्रणोपद्रववर्जितः ॥ ६४ ॥
यस्तु वातादिभिर्दोषैर्दुषितः कठिनो महान् ॥
स शल्यविषकोशाग्निसंस्थानः स्थानदोषवान् ॥ ६५ ॥
अतिस्थूलं कृशं वाऽपि यो गजं समुपाश्रितः ॥
परुषः कठिनः कृष्णो दुश्चिकित्स्यः स उच्यते ॥ ६६ ॥
दुश्चिकित्सितरूपस्य यो लिङ्गैरन्वितो व्रणः ॥
अनिष्टैश्चाप्रशस्तैश्च गन्धैर्यरश्च समन्वितः ॥ ६७ ॥
१ क. °सि योनिजान्भा° । २ ख. हस्तम° । ३ क. ॰ष्ठेषु ध° । ४ क.
भवेत् । ५ क. °जः स्नायुमां° । ६ क. °प्रचक्षते । ७ क. °तिर्वाज° । ८ क.
॰न् । शल्यविषमको° ।