हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
१६२ पालकाप्यमुनिविरचितो— [ २ क्षुद्ररोगस्थाने—
अथातः क्षुद्ररोगस्थानं द्वितीयमारभ्यते ।
अथ वमथुरोगाध्यायं व्याख्यास्यामः ॥
अङ्गो हि राजा चम्पायां पालकाप्यं स्म पृच्छति ॥
वारणानां वमथवः संभवन्ति कथं मुने ॥ १ ॥
साध्यासाध्यं चिकित्सां च लक्षणं तद्ब्रवीहि मे ॥
एवं पृष्टोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥ २ ॥
वमथुर्द्विविधो ज्ञेयो दोषैरागन्तुरेव च ॥
भवेदामाशयस्थानात्सर्वा छर्दिर्नराधिप ॥ ३ ॥
हृदये पार्श्वयोः कुक्षौ पीडा वातेन जायते ॥
फेनिलं छर्दयत्यार्त्तो नीलं श्योवं च भूरि च ॥ ४ ॥
आदौ विरेचनं कार्यमस्य लङ्घनमेव च ॥
अधोभागीकृते दोषे छर्दिराशु निवर्तते ॥ ५ ॥
मधुना ह्यभयाचूर्णं भोजयेच्छर्दिनाशनम् ॥
सुस्निग्धैर्जाङ्गलरसैः कौलत्थैश्चैव भोजयेत् ॥ ६ ॥
अनेन विधिना राजंश्छर्दिर्नश्यति वातिकी ॥
(*अम्लमुष्णं च नीलं च हरितं पीतकं तथा ॥ ७ ॥)
पित्तात्प्रच्छर्दयत्यार्त्तो मुहुर्भवति दुर्मनाः ॥
दाहोऽस्य हृदये कण्ठे शरीरे चोपजायते ॥ ८ ॥
चेन्दनामलकानां च रसं क्षौद्रेण पाययेत् ॥
पिप्पलीचूर्णमुद्गं च मधुना सह भोजयेत् ॥ ९ ॥
जम्बूप्रवालमरिचं यष्ट्याह्वं नीलमुत्पलम् ॥
क्षोदयित्वा कषायं च शीतलं पाययेद्गजम् ॥ १० ॥
शर्कराधातकीचूर्णं तथा यष्ट्याह्वमुद्गयोः ॥
समालोड्याथ मातङ्गं पाययेत्तन्दुलाम्बुना ॥ ११ ॥
सहृल्लासं घनं श्वेतं कफाद्वमति पिच्छिलम् ॥
हृष्टरोमा सलवणं क्षौद्रेण सह भोजयेत् ॥ १२ ॥
(† सव्योषं त्रिफलाचूर्णं क्षौद्रेण सह भोजयेत् ।)
- धनुराकारमध्यस्थः पाठो नास्ति कपुस्तके । † धनुराकारमध्यस्थः पाठो नैव खपुस्तके ॥
१ क. श्यामं । २ क. नन्दना° । ३ क. °णं शीतविद्वेष्टिभोजनम् । स° ।
१ वमथुरोगाध्यायः ] हस्त्यायुर्वेदः । १६३
दधित्थं पिप्पलीं चैव मरिचं च प्रदापयेत् ॥
जम्बूप्रवालमरिचं यष्ट्याह्नं नीलमुत्पलम् ॥ १३ ॥
पिण्डोऽयं मधुना सार्धं क्षौद्रेणैव दुरालभाम् ॥
शिरीषपल्लवान्क्षुण्णान्युक्तांस्त्रिकटुकेन च ॥ १४ ॥
मधुना भोजयेन्नागं क्षिप्रं वमथुनाशनम् ॥
मदिरां मधुसंसृष्टां पाययेच्च चिरस्थिताम् ॥ १५ ॥
कषायं कटुकं तिक्तं कारयेत्पानभोजनम् ॥
संनिपातोद्भवः सर्वैस्तुल्यलक्षणसाधनः ॥ १६ ॥
कीर्तितो दोषजो ह्येष आगन्तुरथ वक्ष्यते ॥
वृश्चिकं कृकलासं वा सर्पं शतपदीमपि ॥ १७ ॥
मण्डूकं प्रेवलाकं वा कीटानथ विषान्वितान् ॥
अज्ञानात्कवलैः सार्धं यदि भक्षयति द्विपः ॥ १८ ॥
जायते वमथुस्तस्य तेन जीवति वा न वा ॥
जहाति सद्यः प्राणांस्तु भक्षयित्वोरगं द्विपः ॥ १९ ॥
वारि लोहितसंसृष्टं विशुद्धं वाऽपि लोहितम् ॥
यदि प्रच्छर्दयेन्नागो न स जीवति तादृशः ॥ २० ॥
नीलं प्रच्छर्दयेद्वारि यदि तच्च सपिच्छिलम् ॥
विषजग्धं वदन्त्येनं तस्य नास्ति चिकित्सितम् ॥ २१ ॥
पूतिकां च विवर्णां वा कृष्णां वा पूतिगन्धिकाम् ॥
अजस्रं स्रवते धारां तमसाध्यं विनिर्दिशेत् ॥ २२ ॥
उष्णां प्रस्रवते लालां यवसं यदि खादति ॥
अविवर्णामपूतिं च स तु शक्यश्चिकित्सितुम् ॥ २३ ॥
पलानि लवणात्पञ्च विंशतिं च रसाञ्जनात् ॥
लामज्जाच्च बृहत्योश्च नागरात्सिन्दुवारितात् ॥ २४ ॥
तण्डुलीयकमूलोच्च नागराद्रजनीद्वयात् ॥
तेजोवत्याश्च कुष्ठाच्च रोध्राच्चैवेलुवालुकात् ॥ २५ ॥
पिप्पल्येलाहरेणुभ्यः प्रियङ्गुभ्यः कुटन्नटात् ॥
अर्धाढकीपानभागांस्तु गृहधूमांच संहरेत् ॥ २६ ॥
सक्षौद्रं चूर्णमेतेषां नवे कुम्भे विनिक्षिपेत् ॥
सजिह्वातालु सगदं मुखमेतैः प्रलेपयेत् ॥ २७ ॥
१ क. प्रचलाकं ।
२०
१६४ पालकाप्यमुनिविरचितो— [१ क्षुद्ररोगस्थाने-
एतेनैव च चूर्णेन पिण्डमस्मै प्रदापयेत् ॥
वमथौ विषसंसृष्टे श्रेष्ठमेतद्धि भेषजम् ॥ २८ ॥
निर्विषं वमथुं चैनं योगैरेभिरुपाचरेत् ॥
शालिलोभ्ररुजानां सूक्ष्मचूर्णानि कारयेत् ॥ २९ ॥
सक्षौद्रं भोजयेत्पिण्डं युक्तं त्रिकटुकेन च ॥
नागस्य वमथुः क्षिप्रं पिण्डेनानेन शाम्यति ॥ ३० ॥
पटोलीं काचमाचीं च मुद्गैः सह विपाचयेत् ॥
सतैललवणं यूषं पाययेद्भोजयेद्धि तम् ॥ ३१ ॥
सारिवां शृङ्गवेरं च द्वे सहे रोध्रमेव तु ॥
प्रियङ्गुं चैव सक्षौद्रान्कवलान्भोजयेद्भिषक् ॥ ३२ ॥
तरुणान्याम्रपत्राणि दधित्थं दाडिमानि च ॥
नीपानि मातुलुङ्गं च ल
२ अतीसारोध्यायः ] हस्त्यायुर्वेदः । १६५
भोजितो वमथोर्नागः सह्लासात्प्रमुच्यते ॥
अरोगः सुमनाश्चैव बलं चास्योपजायते ॥
इत्यब्रवीत्पालकाप्यो राज्ञाऽङ्गेन प्रचोदितः ॥ ४३ ॥ १०८५ ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने प्रथमो
वमथुरोगाध्यायः ॥ १ ॥
अथ द्वितीयोऽध्यायः ।
अथातोऽतीसारचिकित्सितं व्याख्यास्यामः—
इति ह स्माऽऽह भगवान्पालकाप्यः । इह खलु द्विविधोऽतीसारः—पक्वाश-
यसमुत्थः, आमाशयसमुत्थश्च । वातपित्तकफानां प्रकुपितानां समस्तानां
व्यस्तानां वा धान्यपवसजलानां दुष्टानामुपयोगात्, भयात्, अध्वगमनात्,
अतिस्नेहोपयोगात्, मृत्तिकाभक्षणाच्च ॥
तत्र दोषसमुद्भवो मृत्तिकोद्भवश्च दारुणतरौ, शेषाः परे लघवः । अथाऽऽमं खरं
दुर्गन्धं पिच्छिलं श्लेष्मलं फेनिलं वार्यच्छमतिसार्यते । अतोऽन्यथा निरामं
लाघवं पवसाकाङ्क्षा वातमूत्रपुरीषाणामुत्सर्गः सुप्रवाहत्वम् । रक्ताद्रक्तमति-
सार्यते । दोषान्वयाद्दोषलक्षणान्वितम् । सस्नेहं स्नेहसमुत्थम् । मृद्भक्षणात्सम्प्र-
वृद्धं परमदुर्गन्धि कृष्णाभमतिसार्यते । वारिजो वारिव्यापदा समानशंसनं(नः)
भवेत् । तथैव धान्यतृणाभ्यां धान्यतृणव्यापत्समानः । अध्वगमनादुपरिशूनो-
ष्णगात्रवदनप्रायो द्रवोष्णभूयिष्ठमतिसार्यते । भयात्पर्यश्रुफुल्ल नयनः प्रायश-
स्त्वामान्वयमतिसार्यते । सर्वेषां परिशा(स्रा)वी, गोशकृत्, नाडीजातश्चेति
तिस्रोऽवस्थाः । स तु द्विविधः—शुद्धश्चाशुद्धश्च, सदोषश्चादोषश्च, सकृमिरकृ-
मिश्र, दुर्गन्धश्चादुर्गन्धश्च साध्यश्चासाध्यश्च ॥
तत्र वातात्—फेनिलं सशूलं सशब्दमपिच्छिलमतिसार्यते । पित्तात्—
कृष्णं कषायोदकनिभं चोष्णमतिसार्यते (※कृष्णा प्रायशं भवति । कफात्—
श्वेतं सान्द्रं पिच्छिलमतिसार्यते । संनिपातात्सर्वलिङ्गान्वितमतिसार्यते ॥
यस्तु दीनो यो विचेतनो दुर्गन्धमतिसार्यते ) पद्ममोदकगन्धिः कुणपग-
न्धिर्वा स्तब्धकर्णलाङ्गूलकरनयनः कूजन्विणमति यवसकवलकुवलपल्लवाहार-
※ धनुराकारमध्यस्थो नास्ति पाठः कपुस्तके ।
१ ख. ॰ने वृद्धपाठे. क्षु॰ । २ ख. अतो निष्पा । ३ ख. ॰मानः श्रं॰ ।
४ ख. ॰गात्रो व॰ ।
१६६ पालकाप्यमुनिविरचितो— [२ क्षुद्ररोगस्थाने-
द्वेषी निःस्तनति निरूहं प्रत्ययेहैवालमाकर्षति व्यालीं गुरुमक्षिको वाताध्मातः
प्रवेपते प्रध्यायति निमीलति मदनजग्ध इव भवति स खल्वसाध्यः ॥
यस्तु तन्दुलोदकवर्णं हरिद्रोदकवर्णं वा स्निग्धं सविदाहं गोशकृद्वर्णं वाऽति-
सार्यते, उत्साहवांश्चाऽऽहारेस्यान्न वाऽस्यारिष्टमुपलक्ष्यते तं विदितसमुत्थानं
निरुपद्रवं चिकित्सेत्तुमुपक्रमेत् ॥
तस्मै मधुरकषायं सांग्राहिकं दीपनीयगणसंस्कृतमुदकमल्पं देयम् । रौक्ष्या-
त्प्रवृत्ते युक्त्या स्नेहनम् । स्नेहाद्रूक्षणम् । भयात्सान्त्वनम् । अध्वगमनाद-
ध्वमूर्च्छाप्रोक्तैः, मृद्भक्ष्रणान्मृदानाहप्रोक्तैः, उपचारैत् । पक्वस्य सांग्राहिकं पाच-
नम्, अपक्वस्य सांग्राहिकं शीतसलिलपरिषेकः कर्दमलेपञ्च, न तु सलिलमव-
गाहयेत् । किं कारणम्—सलिलमुपयुञ्जानात्स्यादतीसारप्रवृद्धिहेतुरिति तस्मै
दूर्वामधूलिकां मेषपर्णीं च संकुट्य मधुना संयोज्य कवलान्दद्यात्प्रियङ्गुमधूकरो-
ध्रशृङ्गवेरारलुत्वग्गण्डीरबालबिल्वानि संकुट्य कवलान्पुरीषसंवर्तनार्थं भोजयेत् ।
पिप्पलीशृङ्गवेररोध्राम्बष्ठाप्रियङ्गुपद्मकसमङ्गागोधातकीपुष्पाणि च संकुट्य शर्क-
रामधुसंयुक्तानूकवलान्दद्यात् । भव्यबदरदधित्थदाडिममरिष(रुब)ककाश्मर्य-
द्राक्षाभिः सह तरुणोडुम्बराणि कवलान्प्रयोजयेत् । तिन्दुकाटरूषकपलाश-
धवासनैवारसर्जकानां क्वाथैः सिद्धं कोद्रवौदनं धातकीपुष्पचूर्णदधिसंसृष्टं भोज-
येत् । अथवा सोमवल्कारमन्तककदम्बसर्जत्वक्कषायैः सिद्धं षष्टिकौदनं मधुसं-
सृष्टं संयोज्य दध्ना जातरसेन चैनं गतोष्माणं तु शीतलं भोजयेत् । अथवा—
आढक्यौ द्वे कर्पासीकदम्बसर्ज्जार्जुनमेषशृङ्गीबिल्ववालानां त्वचः समभागं
पिण्डमग्निदीपनं संवर्तनं च दद्यात् । स्वादु कषायतव्ज्मूलपत्रभङ्गान्सांग्राहिका-
न्दीपनीयान्सुसंस्कृतान्पानार्थे यथोक्तमुदकं दद्यात् । शाद्वलानि चास्मै यवसानि
मधुरकषायाणि दापयेत् । तत्राऽऽदावसाध्यलक्षणमुपदिष्टं सामान्यं च लक्षणं
चिकित्सितं समासतः। सांप्रतमतीसाराणां पृथक्पृथग्राजन्दोषसमुत्थानां लक्षणं
चिकित्सितं व्याख्यास्यामः ॥
वातात्संशब्दमल्पालपं फेनिलं ग्रथितं बहु ।
आध्मातमामं पक्वं वा कृच्छ्रं तत्परिवर्तिकम् ॥
तस्यातिविषाहिङ्गुपव्यान्पजाजीवचाशतपुष्पाबदरसौवर्चलसैन्धवैः पिण्डं
दद्यात् । सुखोदकं चानुपानं युञ्ज्यात् । पेयं च दध्ना धूस्तूरेणोदनान्वितां वा
यवागूं सदाडिमामल्पस्नेहां युक्त्या भोजयेत् ॥
‡ 'प्रतिगृह्य' इति स्यात् ॥
१ क. ०गृह्य वा० । २ क. ०त्सितमु० । ३ क. ०रताल० । ४ क. ०नवार० ।
२ अतीसाराध्यायः ] हस्त्यायुर्वेदः । १६७
पित्तात्पीतारुणं चोष्णं तृष्णादाहार्तिवेदनम् ।
श्यावं तनु च दुर्गन्धं सारक्तं चातिसार्यते ॥
तस्य क्रिया वालकमुस्तातू(त्रि)वृन्माषपर्णीमधूलिकाप्रपौण्डरीकलोध्रबिल्व-
पथ्यामलकदूर्वार्द्रव्याण्येतानि संहरेत् ॥
समभागानि संयोज्य जलद्रोणेत्रिभिः पचेत् ।
पादावशिष्टं शीतं तु शर्करामधुमिश्रितम् ॥
पाययेत्कुशलो वैद्यो ज्ञात्वा पित्तातिसारिणम् ।
परिणामे चास्य मृगतित्तिरिकपिञ्जलमयूरमांसरसमच्छं साधयित्वा नाति-
स्निग्धेन रसेन शाल्योदनं भोजयेत् ॥
यस्तु पित्तातिसारी पित्तलान्युपसेवते, स रक्तातिसारमृच्छति, स पित्तलिङ्गी,
अधिको गुदे दाहश्वोपपद्यत इति ॥
तत्र च्छागं पयो यथालाभं वा सृ(शृ)तशीतं समधुशर्करं पानं भोजनं
हरितं मृदु चास्य यवसं शीतस्थानोपगूढं कर्दमानुलिप्तं पित्तवद्रक्तातिसारिणं
साधयेत् ॥
अथ—
कफाच्छ्वेतं घनं स्निग्धं पिच्छिलं फेनिलं गुरु ।
तन्द्रालस्यकरं शीतं पुरीषमतिसार्यते ॥
चिकित्सितमस्य—त्रिकटुपिप्पलीमूलचित्रकवचेन्द्रयवपाठातिविषाबिल्वमूल-
वृहद्विडङ्गकरञ्जाभयामलकानि क्वाथयित्वा चतुर्थागावशिष्टं सौवर्चेललवणान्वितं
पाययेत् । परिणामे चास्य दधित्थदाडिमसर्जाश्मन्तकधात्रीकषायसिद्धं कोद्र-
वौदनं युक्त्या भोजयेत् । सुरां चिरस्थितां पाययेत् ॥
भवन्ति चात्र श्लोकाः—
हेतवः पूर्वमुद्दिष्टा येषां तेषु च ते तथा ।
अविरोधेन वर्तन्ते भयोद्विग्ने तु सान्त्वनम् ॥
यथोक्ताभिरतीसारं क्रियाभिः साधयेद्भिषक् ।
संग्राहयेच्च नागानां साध्यासाध्यविचक्षणः ॥
निदानं संभवं मात्रां मत्वा कालोचितानि चै ।
प्रयोगं लक्षणं सिद्धिं क्रियामानमथापि वा ॥
१ क. ०क्तं वाऽति० । २ क. ०र्चलं ल० । ३ क. ख. परिणामि । ४ क.
ख. चिरस्थित्य । ५ क. तु ।
१६८ पालकाप्यमुनिविरचितो— [ २ क्षुद्ररोगस्थाने-
प्रयुञ्जेद्यो यथायोगं स भिषक्श्रेष्ठ उच्यते ।
इत्यब्रवीत्पालकाप्यो राज्ञाऽङ्गेन प्रचोदितः ॥
इति श्रीपालकाप्ये गजायुर्वेदमहाप्रवचने वृद्धपाठे द्वितीये क्षुद्ररोगस्थाने
द्वितीयः सर्वातीसाराध्यायः ॥ २ ॥
अथ तृतीयोऽध्यायः ।
अङ्गो हि राजा चम्पायां पालकाप्यं स्म पृच्छति ॥
कोरदूषैर्मदनकैर्मूर्च्छा किं रूपमृच्छति ॥ १ ॥
वारणः कैश्च विज्ञेयो लिङ्गैः साध्यस्तथेतरः ॥
चोदितस्त्वेवमङ्गेन पालकाप्यस्ततोऽब्रवीत् ॥ २ ॥
कोरदूषान्मदनकान्यदि भक्षयति द्विपः ॥
हरितान्भक्षयेद्वाऽपि पिबेद्वा मदनोदकम् ॥ ३ ॥
तदिदं कोपयेच्छीघ्रं रक्तपित्तकफानिलान् ॥
स समुत्कृष्टदोषस्तु मूर्छां नागो नियच्छति ॥ ४ ॥
मूर्छितो वा निषण्णो वा वेपते परिदह्यते ॥
उत्थातुकामः पतति विह्वलन्निव गच्छति ॥ ५ ॥
विन्यस्य ध्यायति करं पतन्न्योकुर्नवेति च ॥
गात्रापरपरिष्वक्तो वेदनार्तो हि वीक्षते ॥ ६ ॥
नाभिनन्दति चाऽऽहारं लाला चास्य प्रवर्तते ॥
चक्षुरस्याविलं स्तब्धं न च वालेन वीजते ॥ ७ ॥
सर्वगात्राणि सीदन्ति न च वायुः प्रपद्यते ॥
न च मूत्रं पुरीषं वा आनद्धस्य प्रवर्तते ॥ ८ ॥
पित्तं चास्य प्रवर्तैत श्लेष्मा रुधिरमेव च ॥
सारिष्टमपि तं दृष्ट्वा कर्म कुर्यादतन्द्रितः ॥ ९ ॥
एवं मदनजग्धं तु विदित्वा कुशलो भिषक् ॥
ऋतुसात्म्यं वयो देशं ज्ञात्वा कुर्यात्क्रियामिमाम् ॥ १० ॥
गोमयेन प्रदेहोऽस्य कर्तव्यः कर्दमेन वा ॥
शीतोदकावगाहश्च प्रवाते स्थापनं हितम् ॥ ११ ॥
मदनजृम्भकाध्यायः ] हस्त्यायुर्वेदः । १६९
एवं क्रियासमाक्रान्तो यंचानाहो¹ न शाम्यति ॥
दधिमण्डमुशीरं च पिष्ट्वा गौरांश्च सर्षपान् ॥ १२ ॥
तैर्नीरुहस्तु दातव्यो योऽवगाहः प्रवर्तकः ॥
शकृच्छुद्धौ निरूहेण शीतो बस्तिरनन्तरम् ॥ १३ ॥
पयो घृतं समधुकं क्षौद्रेण सह संसृजेत् ॥
ततोऽस्मै दापयेद्वस्तिं कोष्ठनिर्वापणं हितम् ॥ ॥ १४ ॥
बदराण्यथ संक्षुद्य शर्कराचूर्णसंयुतम् ॥
तमस्मै दापयेत्पिण्डमजाजीमरिचैर्युतम् ॥ १५ ॥
निर्वाणमेवं³ लभते मूर्च्छा चास्योपशाम्यति ॥
तस्मादनन्तरमिमान्कवलान्दापयेद्भिषक् ॥ १६ ॥
आम्रातकांस्तिन्तिडीकं कपित्थानां शिलाटुकम् ॥
उदूखले क्षोदयित्वा शर्कराचूर्णसंयुतान् ॥ १७ ॥
तेनास्य मूर्च्छा श्वासश्च पिपासा चोपशाम्यति ॥
हिङ्गुना सह संक्षुद्य मातुलुङ्गं सदाडिमम् ॥ १८ ॥
तस्मै प्रदापयेत्पिण्डं शर्करामधुसंयुतम् ॥
तेनाऽऽध्मानं⁴ पिपासा च वेपथुश्चोपशाम्यति ॥ १९ ॥
पियालार्जुनबीजानि द्राक्षाचूतफलानि च ॥
आम्रातकं मातुलुङ्गं लकुचं पनसानि च ॥ २० ॥
उत्तरोदकयुक्तानि संक्षुण्णानि उदूखले ॥
शर्कराचूर्णसंसृष्टं पिप्पलीमरिचैर्युतम् ॥ २१ ॥
तस्मै प्रदापयेत्पिण्डं तदा स लभते सुखम् ॥
यद्येवं स सुखी न स्यादिदमन्यत्समाचरेत् ॥ २२ ॥
खर्जूराण्यथनीपानि कुव्यांतपारावतैः सह ॥
तमस्मै दापयेत्पिण्डं शर्कराचूर्णसंयुतम् ॥ २३ ॥
सुमना भवति ह्येष² आरोग्यं च नियच्छति ।
यदा मनःस्थितः स्वस्थः कर्णवालकरो भवेत् ॥ २४ ॥
प्रसन्नचक्षुराहारं यथावदभिनन्दति ॥
ततोऽस्मै मदिरा देया तरुणा दोषवर्जिता ॥ २५ ॥
शर्कराचूर्णसंसृष्टा विधिवत्प्रतिपानिका ॥
पञ्चभिर्लवणैर्युक्ता प्रतिपानं विपश्चिताम् ॥ २६ ॥
१. क. यथाना० । २ क. शीघ्रं । ३ क. ॰मेव ल० । ४ क. ॰ध्मानपिपासे च ।
१६० पालकाप्यमुनिविरचितो— [२ क्षुद्ररोगस्थाने-
यद्येवं स सुखी न स्यादिदमन्यत्समाचरेत् ॥
शृङ्गवेरं ह्यतिविषा पिप्पली कटुरोहिणी ॥ २७ ॥
समभागानि सर्वाणि सूक्ष्मचूर्णानि कारयेत् ॥
प्रसन्नयाऽतिसंयोज्य शर्कराचूर्णसंयुतम् ॥ २८ ॥
देयमेतत्प्रतीपानं क्षिप्रमेव.सुखी भवेत् ॥
वातानुलोमनं ह्येतद्रक्तपित्तप्रसादनम् ॥ २९ ॥
श्लेष्मप्रसादनं चैव विशुद्धं तु प्रमेहति ॥
कषायं क्षीरवृक्षाणां भोजयेद्वारणं ततः ॥ ३० ॥
पिशितेन शशानां च वेसवारं प्रकल्पयेत् ॥
हस्तश्रवणवालैश्च यदा व्यजति वारणः ॥ ३१ ॥
ततोऽस्मै भोजनं दद्याद्धितं प्राणाय बृंहणम् ॥
लावतित्तिरिमांसानि साधयेत्तण्डुलोदके ॥ ३२ ॥
ततो रसमवश्वा(स्रा)व्य धूपयेद्घृतमात्रया ॥
पिप्पलीशृङ्गवेरेण प्रसन्नां मरिचैर्युताम् ॥ ३३ ॥
दाडिमीफलसारेण सौवर्चलसमन्विताम् ॥
संयुक्तं लवणं कृत्वा रसमस्मै प्रदापयेत् ॥ ३४ ॥
शालीनां च पुराणानां षष्टिकानामथौदनम् ॥
भोजयेत्तं यथाकालं तथा स लभते सुखम् ॥ ३५ ॥
अथाऽऽसवादिमद्यं च तद्विपं प्रतिपाययेत् ॥
इत्यब्रवीत्पालकाप्यो राज्ञाऽङ्गेन प्रचोदितः ॥ ३६ ॥ ११२१ ॥
'इति श्रीपालकाप्ये गजायुर्वेदे वृद्धपाठे द्वितीये क्षुद्ररोगस्थाने
मदनजग्धको नाम तृतीयोऽध्यायः ॥ ३ ॥
अथ चतुर्थोऽध्यायः ।
अथाङ्गाधिपतिरभिवाद्योवाच भगवन्तं पालकाप्यम्—'भगवन्यः प्राक्संग्रहे
दृष्टस्तृणशोषी नाम व्याधिः, स कथं भवति, कथं स साध्यते ॥
ततः प्रोवाच भगवान्पालकाप्यः—इह खलु भो(स्) तृणशोषी नाम
संभवति रूक्षस्य मन्दाग्नेर्गर्हितयवसोपयोगात्, वाहितानामतिमात्रोपयोगात् ।
१ क. प्रतिपादयेत् ।
५ कर्मातिनीतचिकित्सिताध्यायः ] हस्त्यायुर्वेदः । १६१
तद्यथा—काकादनानीलीशिपीलुककालालाङ्गूलकीथुकनासानां भक्षणात्, भल्ला-
तकफलानां सविषकवलकुवलपल्लवोपयोगात्, सविषवल्लीतृणगुल्मपत्रलताप्रतां-
नभक्षणाद्वा, अथवा सविषोरगकीटसंस्पर्शनात्, तल्लालाश्वासमूत्रपुरीषोप-
हत(*तृणानां परिचारकाज्ञानेन भोजनाद्वा, नानाविधकीटसंस्पर्शदोषोपहत)-
संस्थानविधिभिः परिचारकाज्ञानाद्भोजनाद्वा ॥
स विवर्णः प्रक्षीयमाणबलजवशरीरः श्वासी विजृम्भते, आध्मायते, शूल्यते,
च विह्वलति स्तब्धगूनपक्कजिह्वोष्ठस्रुकताम्राक्षः परिग्लानन्तनयनः श्लेष्मप्रसेक-
वान्, तस्य प्राक्छर्देःप्रवर्तनात्प्रजायते शोकश्च । स दुश्चिकित्स्यो भवति ।
कोऽस्य हेतुः—शोषच्छर्दिषौ मृदू चिकित्स्ये भवतः । विपरीते अन्यथा ॥
अतः संस्निग्धमधुरकषायैः कवलकुवलयवसोपचारैरुपचरेद्भिषक् । अपि च—
पिप्पलीशृङ्गवेररोध्राम्बष्ठाम्रियङ्गुपद्मकसमङ्गाधातकीपुष्पाशोकरोहिणीकसेरुकाश्च-
क्षोदयित्वा मधुना संयोज्य (+कवलान्भोजयेत् । तण्डुलीकमूलाधारग्वधशिरी-
षोरुबूकजीवन्तिकानि च क्षोदयित्वा मधुना संयोज्य) कवलान्दद्यात् । श्लेष्मा-
न्तकारग्वधत्वङ्मूलफलपुष्पपत्राणि तण्डुलीयकमूलारग्वधोदुम्बराणां निष्क्वाथं
तण्डुलोदकसंयुक्तं पाययेत् । सल्लकी च मुस्ताशनोशीरचन्दनैर्गोमयसंयुक्तैः
प्रलेपः, गोमयेन च । कुटजफलहरिद्रानक्तमालसप्तपर्णीपिप्पलीसर्षपसुगन्धार्थ-
भागयुक्तानि चूर्णं कृत्वा मुखं संमार्जयेत् । प्लक्षन्यग्रोधाश्वत्थकर्णिकारशङ्ख-
कीनां पल्लवानि भोजयेत् । अनुक्तानामप्येवं प्रकाराणां वृक्षपत्रभङ्गान्मोजयेत् ।
तृणशोषिप्रशमनार्थं भोजनं शाल्योदनं मुद्गयूषेण घृतस्निग्धेन रसेन वा दद्यात् ॥
तत्र श्लोकः—
उत्पद्यमानमेवाऽऽदौ तृणशोषिणमुद्धरेत् ।
सोपद्रवोऽतिवृद्धो हि दुश्चिकित्स्यतमो भवेत् ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने चतुर्थ-
स्तृणशोषी नामाध्यायः ॥ ४ ॥
————
अथ पञ्चमोऽध्यायः ।
————
अथातः कर्मातिनीतचिकित्सितमध्यायं व्याख्यास्यामः ।
- धनुराकारमध्यस्थः पाठो नैव कपुस्तके ।
† धनुराकारमध्यस्थो नास्ति पाठः खपुस्तके ।
१ क. °दनीनीलासिपालु° । २ क. °तापभं° । ३ ख. मृदुचि° ।
२१
१६२ पालकाप्यमुनिविरचितो— [ १ क्षुद्ररोगस्थाने-
इति ह स्माऽऽह भगवान्पालकाप्यः । अथ यदा संयोनोपस्थानवर्तनवधब-
न्धहस्तियुद्धनागरायणसांग्रामिककर्मयोगान्मूर्खमहामात्रापचाराद्दारुणोऽतिमात्रं
वाह्यते, सान्त्वनप्रतिलम्भनानि यदा योक्ता त्वरया कर्मलोभात्प्रमादाद्वा न प्रय-
च्छेत्; तदा वारणः कर्मातिनीतशोषेणाभिभूयते ॥
स विवर्णच्छविर्विच्छिन्नभिन्नपुरीषमभीक्ष्णं च मूत्रं रक्ताभं समुत्सृजति, उत्सा-
हतेजोबलवर्णोपहतशरीरो भोजनयवसकवलपल्लवाभिनन्दी च न भवति ॥
तस्यैवं कर्मातिनीतव्याधिजुष्टस्याऽऽदौ सर्वकर्मप्रतिषेधं कुर्यात् । यथाकालं
चैनं कूलहरणं पांशुप्रमथनकर्दमहरणादिष्टत्सृजेत् । ततश्चैनं प्रफुल्लकुमुदोत्पल-
पद्मवानीरकन्दलीकदलीवालुकोपशोभितपर्यन्तेषु हंसचक्रवाककुररकारण्डवब-
ककलहंससारसानुनादिततीरेषु सूर्याशुभिः संतप्तसलिलेषु सरःसु करेणु-
परिवृतं यथाकाममवगाहयेत् । ततश्च *वृक्षगुल्मलतावगूढेषु वातसहितभूमिभाग-
वनप्रदेशेषु मदवशाभिर्वारणं यथोत्साहं प्रचारयेत् । मनःप्रसादनार्थं स्नेहदान-
विधिवद्दिष्टेन चास्य विधिना स्नेहदानं कारयेत् । सुरां च सफाणितां दद्यात् ।
षष्टिकौदनं च ससर्पिष्कं भोजयेत् । यथाकालं यवसानि च मधुररसवीर्यविपा-
कान्यार्जवानि मत्स्यण्डिकागर्भाणि भोजयेत् । अभिनयप्रतिनये चास्य यथा-
कालं कारयेत् ॥
तत्र श्लोकः—
पयोऽनुपानै रसभोजनैश्च साध्यं तदा वृक्षगणप्रदानैः ॥
उपक्रमेत क्रमशः प्रयत्नात्कर्मातिनीतं विधिवद्गजेन्द्रम् ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदे वृद्धपाठे द्वितीये क्षुद्ररोगस्थाने कर्मा-
तिनीतो नाम पञ्चमोऽध्यायः ॥ ५ ॥
अथ षष्ठोऽध्यायः ।
आश्रमस्थमुपासीनं हस्तिशास्त्रविशारदम् ॥
हुताग्निमृषिश्रेष्ठं पालकाप्यं स्म पृच्छति ॥ १ ॥
- 'वृक्षगुल्मलताप्रतानगूढे प्रवातातपरहिते शोभनप्रदेशे सहसा वारणं' प्रत्य-
न्तरे वा पाठः—इति क.पुस्तके टिप्पणी ॥
१ क. ०यातोप० । २ क. ०नीतिशो० । ३ क. ०कुसुमोत्प० । ४ क.
०मिषु भाव० । ५ क. अत्र । ६ क. ख. ०र्भाभिणी० । ७ क. ख. ०र्भाभिणी० ।
उदके यवसे चैव प्रतिपाने च भोजने ॥
स्नेहे क्षीरे शरीरे च लक्षणं विषदूषिते ॥ २ ॥
चिकित्सां चानुपूर्वेण भगवेन्वक्तुमर्हसि ॥
एवं पृष्टोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥ ३ ॥
नाज्ञातः प्रविशेच्छालां बालो वृद्धोऽथ भिक्षुकः ॥
पाषण्डोन्मत्तबधिरा मत्तच्छन्दाश्च ये नराः ॥ ४ ॥
व्याधितः क्षुद्रकर्मा वा पैशून्यः स्यात्तथाविधः ॥
सर्वे ते प्रतिषेध्याः स्युर्हस्तिशालाप्रवेशने ॥ ५ ॥
शत्रुभिः संप्रयुक्तास्ते योजयेयुर्विषं द्विपान् ॥
क्रोधाद्द्रपाच्च लोभाद्वा संप्रदानैश्च योजिताः ॥ ६ ॥
विषं प्रदद्युस्ते पापा गजानां देहनाशनम् ॥
भक्ष्यभोज्यान्नपानेषु धूपने व्यञ्जनेषु च ॥ ७ ॥
माल्यचूर्णांश्च विविधान्विषदग्धानुवासितान् ॥
अतः परं प्रवक्ष्यामि नरं पापं विषप्रदम् ॥ ८ ॥
स्विद्यन्ति यस्य गात्राणि वेपथुश्चोपजायते ॥
मुखं संशुष्यते चापि कृच्छ्राद्वाचं प्रपद्यते ॥ ९ ॥
पृच्छद्यमानस्तृणं काष्ठं नखैर्दन्तैश्छिनत्त्यति ॥
भूमिं विलिखते चापि स्रूक्वणी लेढि चासकृत् ॥ १० ॥
एतैर्लिङ्गैर्विजानीयान्नरं पापं विषप्रदम् ॥
तस्माद्वक्ताञ्जितक्रोधालुब्धांश्चान्नस्यूपकान् ॥ ११ ॥
अनीकस्थान्महामात्रान्वैद्यांश्चापि नियोजयेत् ॥
विधाय रसपानान्नस्थानानि च विशां पते ॥ १२ ॥
शयनानि च नागानां तस्माद्गुप्तानि कारयेत् ॥
सर्वतो ग्रासमुद्धृत्य बलिकर्म च कारयेत् ॥ १३ ॥
परीक्षेत विधां चैव ततः शास्त्रविशारदः ॥
मार्जारवायसश्वभ्यः पिण्डं पूर्वं प्रदापयेत् ॥ १४ ॥
तत्र पश्येत्स्वरूपाणि यानि कुर्वन्ति दूषिताः ॥
भग्नस्कन्धाः परवशा रक्तनेत्रा विचेतसः ॥ १५ ॥
लालाफेनाविलमुखास्तान्र्विद्युर्विषदूषितान् ॥
विष्किरैः पिशितैर्दृष्टा ते न हृष्यन्ति बर्हिणः ॥ १६ ॥
१ क. ॰गवान्वक्तुमर्हति ॥ ए॰ । २ क. यथाऽन्यः । ३ क. ख. प्रतिषेधाः ।
४ क. सृकिणी ।
१६४ पालकाप्यमुनिविरचितो— [२. क्षुद्ररोगस्थाने-
मुखेन नकुलो हन्ति तथैव मृगपक्षिणः ॥
काककङ्कबकानां च न रुचिः स्यात्पिके नृप ॥ १७ ॥
भोजनं स्याद्विवर्णं च मक्षिकाश्चापि मारयेत् ॥
काकः क्षामस्वरं कुर्याच्चकोरोऽक्षि विरक्षयेत् ॥ १८ ॥
दीप्ते हुताशने चापि पिण्डं वैद्यो विनिक्षिपेत् ॥
तत्र पश्येत्स्वरूपाणि यानि कुर्यात्तु दूषितः ॥ १९ ॥
कृच्छ्रेण प्रज्वलत्यग्निः स्फुटं चिटचिटायते ॥
अनिष्टधूमगन्धोऽग्निर्वामावर्तश्च जायते ॥ २० ॥
मञ्जिष्ठाभोऽथ कृष्णो वा धूमपातोऽपि वा भवेत् ॥
विषोपसृष्टमित्येवं धीरः समुपलक्षयेत् ॥ २१ ॥
उक्तमग्निगतं रूपं विषार्तानां च देहिनाम् ॥
अथ तोयगतं रूपं दूषिते संप्रवक्ष्यते ॥ २२ ॥
काली तु यदि गौरस्य च्छाया श्यामाऽथवा भवेत् ॥
गौरी कालस्य वा छाया तज्जलं विषदूषितम् ॥ २३ ॥
जन्तवो मत्स्यमण्डूका ये चान्ये जलचारिणः ॥
तीरेषूद्धर्तिता यत्र तच्च तोयं प्रदूषितम् ॥ २४ ॥
स्नेहे दुग्धे च पाने च विषयुक्ते नराधिप ॥
यानि रूपाणि दृश्यन्ते तानि वक्ष्यामि तत्त्वतः ॥ २५ ॥
स्नेहः कालस्तु भवति हरिता दृश्यते सुरा ॥
श्यावं च जायते दुग्धं विवर्णं च जलं भवेत् ॥ २६ ॥
उपनीतं यदा तोयं नीलं पश्येन्नराधिप ॥
विषोपसृष्टमित्येवं धीरस्तदुपलक्षयेत् ॥ २७ ॥
उक्तं जले च पाने च स्नेहे क्षीरे च दूषिते ॥
यवसस्यापि राजेन्द्र रूपाणीमानि लक्षयेत् ॥ २८ ॥
श्यावं दग्घनिभं चैव यवसं यत्तु पार्थिव ॥
विवर्णमथ दुष्टं वा क्लिन्नं वाऽपि तथा क्रमात् ॥ २९ ॥
एवंलक्षणसंयुक्तं यवसं न प्रदापयेत् ॥
निश्वासघ्राणनयनैः सर्पाणां दूषिते द्विपे ॥ ३० ॥
यानि रूपाणि दृश्यन्ते तानि वक्ष्याम्यतः परम् ॥
शक्रगोपकसंस्थानाः काकाण्डकसप्रभाः ॥ ३१ ॥
१ क. संप्रचक्षते । २ क. दृश्यते । ३ क. दुग्धनिभं । ४ क. ०त् ॥ विश्वा०।
[ १ विषसर्पाध्यायः ] हस्त्यायुर्वेदः । १६९
स्फोटा भवन्ति शीर्यन्ते वारणस्य समन्ततः ॥
श्यावपिच्छिलदुर्गन्धा नीलस्रावाः सुदारुणाः ॥ ३२ ॥
छविर्विशीर्यते चैव रोमाणि च नखानि च ॥
प्रवेपते च कोपेन दृष्टिञ्च परिहीयते ॥ ३३ ॥
दह्यते च मुहुर्नागो निद्रा चैनं प्रबाधते ॥
२विकर्णे हस्तमोहाभ्यां १तथा भूमौ निषीदति ॥ ३४ ॥
लिङ्गैरितैर्विजानीयाद्विषातं वारणं बुधः ॥
ततश्चैनां क्रियां कुर्याद्गजस्य विषनाशिनीम् ॥ ३५ ॥
कपित्थमूलं कुष्ठं च सरलं सारिवा मधु ॥
३एतदालेपनं श्रेष्ठं चूर्णं च विषदूषिते ॥ ३६ ॥
अथ प्रक्षालनं चास्य व्रणानामपि वक्ष्यते ॥
अर्जुनं वेणुपत्राणि शिरीषं ४कुकुभं धवम् ॥ ३७ ॥
करञ्जं करवीरं च सैन्धवं ५सिन्दुवारितम् ॥
क्षौद्रेण सह संसृज्य जलमिश्रेण युक्तितः ॥ ३८ ॥
तेन शीतकषायेण क्षालयेद्दन्तिनो व्रणान् ॥
बिल्वमध्यं ६शैलाटुं च कपित्थं शिग्रुपाटलम् ॥ ३९ ॥
सरलं चैव कुष्ठं च हरितालं पुनर्भवम् ॥
शिरीषस्य च पुष्पाणि मालतीतरुणानि च ॥ ४० ॥
एष *७सर्वोत्तमः श्रेष्ठो वारणांस्त्रायते विषात् ॥
वत्सनाभं सुनाभं च ईश्वरां गन्धनाकुलीम् ॥ ४१ ॥
पिप्पलीं शृङ्गवेरं च दद्यात्पोटगलं तथा ॥
कालाभ्यां सह सर्वाणि समभागानि पेषयेत् ॥ ४२ ॥
एष श्रेष्ठो भवेद्योगो वारणानां विषापहः ॥
अविषं सविषं कुर्यात्सविषं चापि निर्विषम् ॥ ४३ ॥
मारिच मधुकं लोध्रं पिप्पल्यः कुष्ठमेव च ॥
अजाक्षीरेण संयुक्तं मृदा चैव समन्वितम् ॥ ४४ ॥
वृद्धानामथ दुष्टानामुपभुक्तविषाश्च ये ॥
एषां योगोत्तमं दद्याद्वारिपिष्टं पृथक्पृथक् ॥ ४५ ॥
- 'सर्वागदश्रेष्ठो' इति पाठो भवेत् ।
१ क. कायेन । २ क. विकीर्णह० । ३ क. ऐतैराले० । ४ क. कुङ्कुमं ।
५ क. सिन्धुवा०। ६ ख. शिलाटुं । ७ क. सर्वो मदः ।
= enemy; द्विषन् नृपः = enemy king!).
Wait! An enemy king!
In Sanskrit, द्विष् means enemy! An enemy king administers poison to elephants!
Remember poison in elephant warfare: an enemy king poisons the elephants of his rival!
That's why it says:
पूर्वोक्तैः कारणैर्नागो यदा युञ्जे... द्विषे नृपः (or द्विषा नृपः / द्विषता नृप?)
Wait, if द्विषे is enemy, or द्विष्टे?
Look at that word: द्वि then षे!
Wait, what is inside the parentheses?
( ङ्गा )?
Wait, if it's enemy: नागो यदा युञ्जे...
Wait! Look at the letter inside the parentheses again:
Could it be ( ङ्गा )?
Wait, what if it is: यदा युङ्क्ते with a typo in the original manuscript?
Let's look at:
युञ्जे( ङ्गा )द्विषे नृपः ॥
Wait, let's look at character 4 in parentheses:
Is it ङ्गा?
Wait, could it be रूपा? No.
Could it be ङ्का?
Look at
६ विषपरीक्षाध्यायः ] हस्त्यायुर्वेदः । १६७
यदा स्तम्भश्च जिह्वायाः शून्यत्वक्चोपजायते ॥
बहुश्लेष्मप्रसेकश्च सघोषश्च प्रवर्तते ॥ ६१ ॥
विष्टम्भयति हस्तं च स्पन्देते चाक्षिणी तथा ॥
गच्छन्मुहुः प्रस्खलते क्रिया तस्य प्रवर्तते ॥ ६२ ॥
मेषशृङ्गीशलाटूनि व्याधिघातमुदुम्बरम् ॥
तण्डुलीयकमूलं च श्लेष्मान्तकांश्च दापयेत् ॥ ६३ ॥
क्षुण्णान्येतानि सर्वाणि संसृजेत्तन्दुलोदके ॥
( *तं रसं मधुसंयुक्तं दापयेत्सुखशीतलम् ॥ ६४ ॥
कुटन्नटं तथोशीरं सरलं सैलवालुकम् ॥ )
चन्दनं कटभीमूलमञ्जनं सितपर्वकम् ॥ ६५ ॥
गोमूत्रे गोमये चैनं वासयेदसकृन्नृप ॥
तेन प्रलेपं नागस्य विषदग्धस्य कारयेत् ॥ ६६ ॥
श्यामाकं केन्दलीमूलं हरिद्रे द्वे च पेषयेत् ॥
पाययेद्दधिसंयुक्तमुपयुक्तविषं द्विपम् ॥ ६७ ॥
तगरं बदरीमूलं प्रियङ्गुं खदिरस्त्वचम् ॥
तालीसपत्रं स्थूलैलां तथा द्वे तण्डुलीproperty -> तण्डुलीयके ॥ ६८ ॥
बीजं ब्राह्मणिकायाश्च गुडं मच्छवसं हरेत् ॥
सर्पिषा चैव दध्ना च क्षुण्णान्येतानि संसृजेत् ॥ ६९ ॥
सक्तुभिः सह संयोज्य पिण्डं नागाय दापयेत् ॥
श्रा( स्रा )वयेत्तिन्दुकीक्षीरं निर्गुण्ड्याः क्षीरयोस्तथा ॥ ७० ॥
क्षीरं समधुसर्पिष्कं तं द्विपं प्रति पाययेत् ॥
पलाशबीजं श्वेतां च गृहधूमं पूनर्नवाम् ॥ ७१ ॥
अरिष्टकं प्रियङ्गुं च हरिद्रां शतकर्णिकाम् ॥
शिरीषस्य च बीजानि तण्डुलीयकमेव च ॥ ७२ ॥
गोमूत्रपिष्टान्येतानि पाययेत्सह सर्पिषा ॥
संयुक्तं सक्तुभिः पिण्डं विषातं भोजयेद्गजम् ॥ ७३ ॥
अनेन सर्पिषा चास्य नस्यकर्म विधीयते ॥
द्वे हरिद्रे समञ्जिष्ठे तरुणानन्तपल्लवान् ॥ ७४ ॥
*धनुराकारमध्यस्थः पाठो भ्रष्टः कपुस्तकात् ।
१ क. कदली° ।
१६८ पालकाप्यमुनिविरचितो— [ २ क्षुद्ररोगस्थाने-
कवलस्तु प्रदातव्यो मधुगोपित्तसंयुतः ॥
पृषतैणमयूराणां कुक्कुटानां च संस्कृतैः ॥ ७५ ॥
रसैस्तं भोजयेद्भागं ससौवर्चलदाडिमैः ॥
पित्तेः सशोणितैश्चैषां पिप्पलीमधुसंयुतैः ॥ ७६ ॥
सविडङ्गैर्भवेत्कार्यमञ्जनं विषशान्तये ॥
प्रादुर्भावो विषस्यैष त्रिविधस्य विशां पते ॥ ७७ ॥
मूलजं दंष्ट्रजं चैव कृत्रिमं चेति पद्यते ॥
संस्कार्यस्य क्रिया ( : ) सम्यङ्मूलजस्य च कीर्तिताः ॥ ७८ ॥
दंष्ट्रजस्य प्रवक्ष्यामि चिकित्सां लक्षणं तथा ॥
सर्पदष्टे नरश्रेष्ठ यथावत्प्रविभागशः ॥ ७९ ॥ १२०० ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने
विषपरीक्षाऽध्यायः षष्ठः ॥ ६ ॥
————————
अथ सप्तमोऽध्यायः ।
————————
जीर्णं विषघ्नैरोषधिभिर्हतं वा दावाग्निवातातपशोषितं वा ॥
स्वभावतो वा गुणविप्रहीणं विषं हि दूषीविषतामुपैति ॥ १ ॥
अपकृष्टं गुणं पश्चात्स्वभावाद्धेतु ( तु ) तोऽपि वा ॥
तद्विषं विषतत्त्वज्ञैर्दूषीविषमिति स्मृतम् ॥ २ ॥
दूषितं देशकालान्नदिवास्वप्नातिभोजनैः ॥
यस्माद्दूषयते धातुं तस्माद्दूषीविषं स्मृतम् ॥ ३ ॥ १२०३ ॥
दूषीविषार्तं इति* .... .... .... .... .... .... .... ....
.... .... .... .... .... .... .... .... .... .... .... ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने
सप्तमो दूषीविषनामाध्यायः ॥ ७ ॥
————————
- क-खपुस्तकयोरेतावानेवेदृगेव पाठ उपलक्ष्यते । तत्र न निश्चितम्—पाठ-
त्रुटितः, 'इति दूषीविषार्तः' इतिपाठा वा—इति ॥
————————
१ क. प्रादुर्भावं । २ क. विषस्यैव ।
८ अध्यायः] हस्त्यायुर्वेदः । १६९
अथाष्टमोऽध्यायः ।
यथा यथा हि देशस्थं विषं भवति दन्तिनः ॥
तथा तथा भवत्येष दुश्चिकित्सो विशेषतः ॥ १ ॥
न सुखं त्वग्गते वीर्ये विषं भवति दन्तिनः ॥
सिरास्नाव्यस्थिमांसैषु संधी चातिबलं भवेत् ॥ २ ॥
तस्मान्नातिप्रविसृते विषे कुर्याच्चिकित्सितम् ॥
तेषां विषेण दुष्टानां धातूनां लक्षणं शृणु ॥ ३ ॥
कठिना भिन्नरोमा च त्वक्प्राप्ते लक्ष्यते छविः ॥
काये तु शोफः कठिनो मांसप्राप्ते सवेदनः ॥ ४ ॥
सिरागते ग्रन्थयः स्युः संस्पर्शेन सुखायते ॥
स्नायुप्राप्ते विषे स्तम्भो गात्राणामुपजायते ॥ ५ ॥
पतेत्यस्थीनि संप्राप्ते मज्जस्थे तु सुदुर्मनाः ॥
विवृताः संधयश्च स्युः सर्वसंधिगते विषे ॥ ६ ॥
शिरः प्राप्तं गच्छेत्कोष्ठं कोष्ठाद्गात्राणि गच्छति ॥
एवं तदनुपूर्वेण सर्वान्धातूनवाप्नुयात् ॥ ७ ॥
तस्मोद्दशस्थानगतं विषं मारयति द्विपम् ॥
विस्मितस्तु ततो भूयो नृपतिः पृष्टवान्द्विजम् ॥ ८ ॥
यथा विषं मारयति यथा चैव निवर्तते ॥
स्थाने स्थाने यथा रूपं भगवान्व्याकरोतु मे ॥ ९ ॥
पालकाप्यस्ततो भूपमङ्गराजं दयान्वितः ॥
उपद्रवांस्तु ये तेषां शृणु वेगान्तराणि च ॥ १० ॥
तथैव देहमासाद्य प्राणान्हरति दन्तिनः ॥
विषं पीतं तथा लीढं भक्ते स्नेहे तथाऽक्षते ॥ ११ ॥
तथा सर्वेषु गात्रेषु प्रयुक्तं स्पर्शकर्मणि ॥
क्षणेन क्षतमासाद्य देहे विकुरुते विषम् ॥ १२ ॥
तन्मारयति भूतानि पश्यतामेव भूमिप ॥
※सप्तवेगमहाराज काश्यपेन प्रकीर्तितः ॥ १३ ॥
- 'सप्त वेगा महाराज काश्यपेन प्रकीर्तिताः' इति पाठो भवेत् ।
१ क. °तन्त्यस्थी° । २ क. °स्मादंश° । ३ क. °न्द्विपम् ।
२२
१७० पालकाप्यमुनिविरचितो— [२ क्षुद्ररोगस्थाने-
वारणेषु तु दृश्यन्ते त्रय एव हि केवलम् ॥
अन्तःस्वेदा निसर्गेण तैजसोश्च यतस्ततः ॥ १४ ॥
त्रिष्वेव विनिपात्यन्ते चतुर्थं नाऽऽप्नुवन्ति च ॥
तस्मात्तेषां त्रयो वेगाश्चतुर्थो नोपपद्यते ॥ १५ ॥
स्वेदक्लिन्नानथो दृष्ट्वा सेन्द्रान्देवगणान्पुरा ॥
अन्तःस्वेदः कृतश्चापि वारुणेन महात्मना ॥ १६ ॥
तेषां विषेण दुष्टानां वेगानां लक्षणं शृणु ॥
प्रथमे विषवेगे तु वारणे लक्षणं भवेत् ॥ १७ ॥
निद्रा प्रबाधतेऽत्यर्थं मुखेन निपतत्यपि ॥
द्वितीयं विषवेगं तु जानीयाल्लक्षणैरतः ॥ १८ ॥
निषीदत्यपराभ्यां तु मोहाभ्यां प्रपतत्यपि ॥
तृतीयस्य प्रवक्ष्यामि वेगस्य नृप लक्षणम् ॥ १९ ॥
विह्वलीभूतसर्वाङ्गो वारणः प्रपतेद्भुवि ॥
पक्षात्पक्षमजस्रं तु मेघवद्बृंहते द्विपः ॥ २० ॥
एभिर्लिङ्गैर्विजानीयाद्विपदष्टं मतङ्गजम् ॥
एवं खलु महाराज ये ये वेगाः प्रकीर्तिताः ॥ २१ ॥
तेषां विषेण दुष्टानां साध्यानां साधनं शृणु ॥
खद्योतानिन्द्रगोपांश्च गजातारवितारकैः ॥ २२ ॥
कपिलायाश्च गोः पित्तं गोविषाणे निपातयेत् ॥
तेन भेरीपताकाश्च ध्वजाग्राणि च लेपयेत् ॥ २३ ॥
वाद्यान्यन्यान्यपि क्षिप्रं प्रलिप्तान्यथ घातयेत् ॥
दष्टाश्च विषपीताश्च विषविद्धाश्च वारणाः ॥ २४ ॥
निशम्य वादनं चैषां दृष्ट्वा *तां स्वस्थनिर्विषाः( ? ) ॥
शिरःस्नातो भिषग्वाऽपि स्वस्ति वाच्य द्विजोत्तमान् ॥ २५ ॥
दर्भाञ्छुष्कान्हरितकान्निःस्वाग्रांश्च चिकित्सकः ॥
तान्दक्षिणेन हस्तेन गृहीत्वा सुसमाहितः ॥ २६ ॥
इमं हि सुमनास्तूष्णीं कृत्वा ब्राह्मणवाचनम् ॥
प्रोदाहरेन्मन्त्रवरं पूर्वोद्दिष्टं स्वयंभुवा ॥ २७ ॥
- 'दृष्ट्वा तांश्च स्युर्निर्विषाः' इति पाठो यथाकथंचिद्भवेत् ॥
१ क. वारुणेषु । २ क. ॰सा स्वय॰ । ३ क. च । ४ क. ॰न्यानि हि क्षि॰।
८ अध्यायः ] हस्तिआयुर्वेदः । १७१
वासुकिस्तक्षकश्चैव विषमुग्रं हरन्तु ते ॥
अनन्तश्चैव भगवान्विषं हरतु ते स्वाहा ॥ २८ ॥
जले रुद्रो जले ब्रह्मा जले ब्रह्म सनातनम्¹ ॥
जले वायुश्च सोमश्च निर्विषो भव कुञ्जर स्वाहा ॥ २९ ॥
मन्त्रैर्हृत्वा विषं तस्य वारणस्य चिकित्सकः ॥
एतेषां तु यथालाभं पशूनां कारयेद्रसम् ॥ ३० ॥
नकुलानां वराहाणां पृषतानां च युक्तितः ॥
भक्षयित्वाऽथ मांसानि विषिणो भक्षयन्ति ये ॥ ३१ ॥
औषधानि भिषक्तेषु शीघ्रमेवातिसंहरेत् ॥
पिप्पल्यो मरिचाश्चैव कल्पमेद्य ( ? ) घृतं मधु ॥ ३२ ॥
गोमयस्य रसेनैव भावयेन्मतिमान्भिषक् ॥
सुस्निग्धमेतद्रसकं विषदुष्टं मतङ्गजम् ॥ ३३ ॥
कटूष्णं पाययेदेनं तेन संपद्यते सुखी² ॥
अनेनैव च मांसेन भोजयेद्वार गं भिषक् ॥ ३४ ॥
पीत्वा तुं³ रसकं नागस्तेजस्वी बलवान्भवेत् ॥
न विषान्मरणं तस्य यदि जुष्टो महाविषैः ॥ ३५ ॥
सर्वं विषं विषहते पीते तद्रसके गजः ॥
विषेण दूषितं नागं तैलं दूराद्विवर्जयेत् ॥ ३६ ॥
पानेऽभ्यङ्गे तथा नस्ये घृतमेव प्रशस्यते ॥
अत ऊर्ध्वं क्रिया यस्य निखिलेन प्रशस्यते ॥ ३७ ॥ .
शीते पद्मह्रदे नागं दष्टं क्षिप्रं विगाहयेत् ॥
अयं विषघ्नो दातव्यः पिण्डस्तस्मै चिकित्सकैः ॥ ३८ ॥
द्वे हरिद्रे वचा चैव पिप्पली मरिचानि च ॥
द्वौ करञ्जौ सठी चैव बलामतिबलामपि ॥ ३९ ॥
एतत्संहृत्य संभारं गव्यं श्रेष्ठं च यद्धृतम् ॥
बस्तमूत्रेण तत्सर्वं क्षोदपित्वा विचक्षणः ॥ ४० ॥
अजानामथवाऽवीनां रक्तं क्षिप्रमुपार्जयेत् ॥
रक्तद्वयेन तं पिण्डं भोजयेद्वार गं भिषक् ॥ ४१ ॥
१ क. ख. सनातनः । २ क. सुखम् । ३ क. तु । ४ ख. नु । ५ क. ॰म् ॥
बत्समू॰ ।