हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 182, कुल 742 में से
संदर्भ में पढ़ेंउदके यवसे चैव प्रतिपाने च भोजने ॥
स्नेहे क्षीरे शरीरे च लक्षणं विषदूषिते ॥ २ ॥
चिकित्सां चानुपूर्वेण भगवेन्वक्तुमर्हसि ॥
एवं पृष्टोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥ ३ ॥
नाज्ञातः प्रविशेच्छालां बालो वृद्धोऽथ भिक्षुकः ॥
पाषण्डोन्मत्तबधिरा मत्तच्छन्दाश्च ये नराः ॥ ४ ॥
व्याधितः क्षुद्रकर्मा वा पैशून्यः स्यात्तथाविधः ॥
सर्वे ते प्रतिषेध्याः स्युर्हस्तिशालाप्रवेशने ॥ ५ ॥
शत्रुभिः संप्रयुक्तास्ते योजयेयुर्विषं द्विपान् ॥
क्रोधाद्द्रपाच्च लोभाद्वा संप्रदानैश्च योजिताः ॥ ६ ॥
विषं प्रदद्युस्ते पापा गजानां देहनाशनम् ॥
भक्ष्यभोज्यान्नपानेषु धूपने व्यञ्जनेषु च ॥ ७ ॥
माल्यचूर्णांश्च विविधान्विषदग्धानुवासितान् ॥
अतः परं प्रवक्ष्यामि नरं पापं विषप्रदम् ॥ ८ ॥
स्विद्यन्ति यस्य गात्राणि वेपथुश्चोपजायते ॥
मुखं संशुष्यते चापि कृच्छ्राद्वाचं प्रपद्यते ॥ ९ ॥
पृच्छद्यमानस्तृणं काष्ठं नखैर्दन्तैश्छिनत्त्यति ॥
भूमिं विलिखते चापि स्रूक्वणी लेढि चासकृत् ॥ १० ॥
एतैर्लिङ्गैर्विजानीयान्नरं पापं विषप्रदम् ॥
तस्माद्वक्ताञ्जितक्रोधालुब्धांश्चान्नस्यूपकान् ॥ ११ ॥
अनीकस्थान्महामात्रान्वैद्यांश्चापि नियोजयेत् ॥
विधाय रसपानान्नस्थानानि च विशां पते ॥ १२ ॥
शयनानि च नागानां तस्माद्गुप्तानि कारयेत् ॥
सर्वतो ग्रासमुद्धृत्य बलिकर्म च कारयेत् ॥ १३ ॥
परीक्षेत विधां चैव ततः शास्त्रविशारदः ॥
मार्जारवायसश्वभ्यः पिण्डं पूर्वं प्रदापयेत् ॥ १४ ॥
तत्र पश्येत्स्वरूपाणि यानि कुर्वन्ति दूषिताः ॥
भग्नस्कन्धाः परवशा रक्तनेत्रा विचेतसः ॥ १५ ॥
लालाफेनाविलमुखास्तान्र्विद्युर्विषदूषितान् ॥
विष्किरैः पिशितैर्दृष्टा ते न हृष्यन्ति बर्हिणः ॥ १६ ॥
१ क. ॰गवान्वक्तुमर्हति ॥ ए॰ । २ क. यथाऽन्यः । ३ क. ख. प्रतिषेधाः ।
४ क. सृकिणी ।