हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 184, कुल 742 में से
संदर्भ में पढ़ें[ १ विषसर्पाध्यायः ] हस्त्यायुर्वेदः । १६९
स्फोटा भवन्ति शीर्यन्ते वारणस्य समन्ततः ॥
श्यावपिच्छिलदुर्गन्धा नीलस्रावाः सुदारुणाः ॥ ३२ ॥
छविर्विशीर्यते चैव रोमाणि च नखानि च ॥
प्रवेपते च कोपेन दृष्टिञ्च परिहीयते ॥ ३३ ॥
दह्यते च मुहुर्नागो निद्रा चैनं प्रबाधते ॥
२विकर्णे हस्तमोहाभ्यां १तथा भूमौ निषीदति ॥ ३४ ॥
लिङ्गैरितैर्विजानीयाद्विषातं वारणं बुधः ॥
ततश्चैनां क्रियां कुर्याद्गजस्य विषनाशिनीम् ॥ ३५ ॥
कपित्थमूलं कुष्ठं च सरलं सारिवा मधु ॥
३एतदालेपनं श्रेष्ठं चूर्णं च विषदूषिते ॥ ३६ ॥
अथ प्रक्षालनं चास्य व्रणानामपि वक्ष्यते ॥
अर्जुनं वेणुपत्राणि शिरीषं ४कुकुभं धवम् ॥ ३७ ॥
करञ्जं करवीरं च सैन्धवं ५सिन्दुवारितम् ॥
क्षौद्रेण सह संसृज्य जलमिश्रेण युक्तितः ॥ ३८ ॥
तेन शीतकषायेण क्षालयेद्दन्तिनो व्रणान् ॥
बिल्वमध्यं ६शैलाटुं च कपित्थं शिग्रुपाटलम् ॥ ३९ ॥
सरलं चैव कुष्ठं च हरितालं पुनर्भवम् ॥
शिरीषस्य च पुष्पाणि मालतीतरुणानि च ॥ ४० ॥
एष *७सर्वोत्तमः श्रेष्ठो वारणांस्त्रायते विषात् ॥
वत्सनाभं सुनाभं च ईश्वरां गन्धनाकुलीम् ॥ ४१ ॥
पिप्पलीं शृङ्गवेरं च दद्यात्पोटगलं तथा ॥
कालाभ्यां सह सर्वाणि समभागानि पेषयेत् ॥ ४२ ॥
एष श्रेष्ठो भवेद्योगो वारणानां विषापहः ॥
अविषं सविषं कुर्यात्सविषं चापि निर्विषम् ॥ ४३ ॥
मारिच मधुकं लोध्रं पिप्पल्यः कुष्ठमेव च ॥
अजाक्षीरेण संयुक्तं मृदा चैव समन्वितम् ॥ ४४ ॥
वृद्धानामथ दुष्टानामुपभुक्तविषाश्च ये ॥
एषां योगोत्तमं दद्याद्वारिपिष्टं पृथक्पृथक् ॥ ४५ ॥
- 'सर्वागदश्रेष्ठो' इति पाठो भवेत् ।
१ क. कायेन । २ क. विकीर्णह० । ३ क. ऐतैराले० । ४ क. कुङ्कुमं ।
५ क. सिन्धुवा०। ६ ख. शिलाटुं । ७ क. सर्वो मदः ।