हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 171, कुल 742 में से
संदर्भ में पढ़ें१६२ पालकाप्यमुनिविरचितो— [ २ क्षुद्ररोगस्थाने—
अथातः क्षुद्ररोगस्थानं द्वितीयमारभ्यते ।
अथ वमथुरोगाध्यायं व्याख्यास्यामः ॥
अङ्गो हि राजा चम्पायां पालकाप्यं स्म पृच्छति ॥
वारणानां वमथवः संभवन्ति कथं मुने ॥ १ ॥
साध्यासाध्यं चिकित्सां च लक्षणं तद्ब्रवीहि मे ॥
एवं पृष्टोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥ २ ॥
वमथुर्द्विविधो ज्ञेयो दोषैरागन्तुरेव च ॥
भवेदामाशयस्थानात्सर्वा छर्दिर्नराधिप ॥ ३ ॥
हृदये पार्श्वयोः कुक्षौ पीडा वातेन जायते ॥
फेनिलं छर्दयत्यार्त्तो नीलं श्योवं च भूरि च ॥ ४ ॥
आदौ विरेचनं कार्यमस्य लङ्घनमेव च ॥
अधोभागीकृते दोषे छर्दिराशु निवर्तते ॥ ५ ॥
मधुना ह्यभयाचूर्णं भोजयेच्छर्दिनाशनम् ॥
सुस्निग्धैर्जाङ्गलरसैः कौलत्थैश्चैव भोजयेत् ॥ ६ ॥
अनेन विधिना राजंश्छर्दिर्नश्यति वातिकी ॥
(*अम्लमुष्णं च नीलं च हरितं पीतकं तथा ॥ ७ ॥)
पित्तात्प्रच्छर्दयत्यार्त्तो मुहुर्भवति दुर्मनाः ॥
दाहोऽस्य हृदये कण्ठे शरीरे चोपजायते ॥ ८ ॥
चेन्दनामलकानां च रसं क्षौद्रेण पाययेत् ॥
पिप्पलीचूर्णमुद्गं च मधुना सह भोजयेत् ॥ ९ ॥
जम्बूप्रवालमरिचं यष्ट्याह्वं नीलमुत्पलम् ॥
क्षोदयित्वा कषायं च शीतलं पाययेद्गजम् ॥ १० ॥
शर्कराधातकीचूर्णं तथा यष्ट्याह्वमुद्गयोः ॥
समालोड्याथ मातङ्गं पाययेत्तन्दुलाम्बुना ॥ ११ ॥
सहृल्लासं घनं श्वेतं कफाद्वमति पिच्छिलम् ॥
हृष्टरोमा सलवणं क्षौद्रेण सह भोजयेत् ॥ १२ ॥
(† सव्योषं त्रिफलाचूर्णं क्षौद्रेण सह भोजयेत् ।)
- धनुराकारमध्यस्थः पाठो नास्ति कपुस्तके । † धनुराकारमध्यस्थः पाठो नैव खपुस्तके ॥
१ क. श्यामं । २ क. नन्दना° । ३ क. °णं शीतविद्वेष्टिभोजनम् । स° ।