हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 187, कुल 742 में से
संदर्भ में पढ़ें१६८ पालकाप्यमुनिविरचितो— [ २ क्षुद्ररोगस्थाने-
कवलस्तु प्रदातव्यो मधुगोपित्तसंयुतः ॥
पृषतैणमयूराणां कुक्कुटानां च संस्कृतैः ॥ ७५ ॥
रसैस्तं भोजयेद्भागं ससौवर्चलदाडिमैः ॥
पित्तेः सशोणितैश्चैषां पिप्पलीमधुसंयुतैः ॥ ७६ ॥
सविडङ्गैर्भवेत्कार्यमञ्जनं विषशान्तये ॥
प्रादुर्भावो विषस्यैष त्रिविधस्य विशां पते ॥ ७७ ॥
मूलजं दंष्ट्रजं चैव कृत्रिमं चेति पद्यते ॥
संस्कार्यस्य क्रिया ( : ) सम्यङ्मूलजस्य च कीर्तिताः ॥ ७८ ॥
दंष्ट्रजस्य प्रवक्ष्यामि चिकित्सां लक्षणं तथा ॥
सर्पदष्टे नरश्रेष्ठ यथावत्प्रविभागशः ॥ ७९ ॥ १२०० ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने
विषपरीक्षाऽध्यायः षष्ठः ॥ ६ ॥
————————
अथ सप्तमोऽध्यायः ।
————————
जीर्णं विषघ्नैरोषधिभिर्हतं वा दावाग्निवातातपशोषितं वा ॥
स्वभावतो वा गुणविप्रहीणं विषं हि दूषीविषतामुपैति ॥ १ ॥
अपकृष्टं गुणं पश्चात्स्वभावाद्धेतु ( तु ) तोऽपि वा ॥
तद्विषं विषतत्त्वज्ञैर्दूषीविषमिति स्मृतम् ॥ २ ॥
दूषितं देशकालान्नदिवास्वप्नातिभोजनैः ॥
यस्माद्दूषयते धातुं तस्माद्दूषीविषं स्मृतम् ॥ ३ ॥ १२०३ ॥
दूषीविषार्तं इति* .... .... .... .... .... .... .... ....
.... .... .... .... .... .... .... .... .... .... .... ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने
सप्तमो दूषीविषनामाध्यायः ॥ ७ ॥
————————
- क-खपुस्तकयोरेतावानेवेदृगेव पाठ उपलक्ष्यते । तत्र न निश्चितम्—पाठ-
त्रुटितः, 'इति दूषीविषार्तः' इतिपाठा वा—इति ॥
————————
१ क. प्रादुर्भावं । २ क. विषस्यैव ।