हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
DevanagariHindipublished742 पृष्ठ
पृष्ठ 173, कुल 742 में से
संदर्भ में पढ़ेंपृष्ठ 173
१६४ पालकाप्यमुनिविरचितो— [१ क्षुद्ररोगस्थाने-
एतेनैव च चूर्णेन पिण्डमस्मै प्रदापयेत् ॥
वमथौ विषसंसृष्टे श्रेष्ठमेतद्धि भेषजम् ॥ २८ ॥
निर्विषं वमथुं चैनं योगैरेभिरुपाचरेत् ॥
शालिलोभ्ररुजानां सूक्ष्मचूर्णानि कारयेत् ॥ २९ ॥
सक्षौद्रं भोजयेत्पिण्डं युक्तं त्रिकटुकेन च ॥
नागस्य वमथुः क्षिप्रं पिण्डेनानेन शाम्यति ॥ ३० ॥
पटोलीं काचमाचीं च मुद्गैः सह विपाचयेत् ॥
सतैललवणं यूषं पाययेद्भोजयेद्धि तम् ॥ ३१ ॥
सारिवां शृङ्गवेरं च द्वे सहे रोध्रमेव तु ॥
प्रियङ्गुं चैव सक्षौद्रान्कवलान्भोजयेद्भिषक् ॥ ३२ ॥
तरुणान्याम्रपत्राणि दधित्थं दाडिमानि च ॥
नीपानि मातुलुङ्गं च ल