हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 175, कुल 742 में से
संदर्भ में पढ़ें१६६ पालकाप्यमुनिविरचितो— [२ क्षुद्ररोगस्थाने-
द्वेषी निःस्तनति निरूहं प्रत्ययेहैवालमाकर्षति व्यालीं गुरुमक्षिको वाताध्मातः
प्रवेपते प्रध्यायति निमीलति मदनजग्ध इव भवति स खल्वसाध्यः ॥
यस्तु तन्दुलोदकवर्णं हरिद्रोदकवर्णं वा स्निग्धं सविदाहं गोशकृद्वर्णं वाऽति-
सार्यते, उत्साहवांश्चाऽऽहारेस्यान्न वाऽस्यारिष्टमुपलक्ष्यते तं विदितसमुत्थानं
निरुपद्रवं चिकित्सेत्तुमुपक्रमेत् ॥
तस्मै मधुरकषायं सांग्राहिकं दीपनीयगणसंस्कृतमुदकमल्पं देयम् । रौक्ष्या-
त्प्रवृत्ते युक्त्या स्नेहनम् । स्नेहाद्रूक्षणम् । भयात्सान्त्वनम् । अध्वगमनाद-
ध्वमूर्च्छाप्रोक्तैः, मृद्भक्ष्रणान्मृदानाहप्रोक्तैः, उपचारैत् । पक्वस्य सांग्राहिकं पाच-
नम्, अपक्वस्य सांग्राहिकं शीतसलिलपरिषेकः कर्दमलेपञ्च, न तु सलिलमव-
गाहयेत् । किं कारणम्—सलिलमुपयुञ्जानात्स्यादतीसारप्रवृद्धिहेतुरिति तस्मै
दूर्वामधूलिकां मेषपर्णीं च संकुट्य मधुना संयोज्य कवलान्दद्यात्प्रियङ्गुमधूकरो-
ध्रशृङ्गवेरारलुत्वग्गण्डीरबालबिल्वानि संकुट्य कवलान्पुरीषसंवर्तनार्थं भोजयेत् ।
पिप्पलीशृङ्गवेररोध्राम्बष्ठाप्रियङ्गुपद्मकसमङ्गागोधातकीपुष्पाणि च संकुट्य शर्क-
रामधुसंयुक्तानूकवलान्दद्यात् । भव्यबदरदधित्थदाडिममरिष(रुब)ककाश्मर्य-
द्राक्षाभिः सह तरुणोडुम्बराणि कवलान्प्रयोजयेत् । तिन्दुकाटरूषकपलाश-
धवासनैवारसर्जकानां क्वाथैः सिद्धं कोद्रवौदनं धातकीपुष्पचूर्णदधिसंसृष्टं भोज-
येत् । अथवा सोमवल्कारमन्तककदम्बसर्जत्वक्कषायैः सिद्धं षष्टिकौदनं मधुसं-
सृष्टं संयोज्य दध्ना जातरसेन चैनं गतोष्माणं तु शीतलं भोजयेत् । अथवा—
आढक्यौ द्वे कर्पासीकदम्बसर्ज्जार्जुनमेषशृङ्गीबिल्ववालानां त्वचः समभागं
पिण्डमग्निदीपनं संवर्तनं च दद्यात् । स्वादु कषायतव्ज्मूलपत्रभङ्गान्सांग्राहिका-
न्दीपनीयान्सुसंस्कृतान्पानार्थे यथोक्तमुदकं दद्यात् । शाद्वलानि चास्मै यवसानि
मधुरकषायाणि दापयेत् । तत्राऽऽदावसाध्यलक्षणमुपदिष्टं सामान्यं च लक्षणं
चिकित्सितं समासतः। सांप्रतमतीसाराणां पृथक्पृथग्राजन्दोषसमुत्थानां लक्षणं
चिकित्सितं व्याख्यास्यामः ॥
वातात्संशब्दमल्पालपं फेनिलं ग्रथितं बहु ।
आध्मातमामं पक्वं वा कृच्छ्रं तत्परिवर्तिकम् ॥
तस्यातिविषाहिङ्गुपव्यान्पजाजीवचाशतपुष्पाबदरसौवर्चलसैन्धवैः पिण्डं
दद्यात् । सुखोदकं चानुपानं युञ्ज्यात् । पेयं च दध्ना धूस्तूरेणोदनान्वितां वा
यवागूं सदाडिमामल्पस्नेहां युक्त्या भोजयेत् ॥
‡ 'प्रतिगृह्य' इति स्यात् ॥
१ क. ०गृह्य वा० । २ क. ०त्सितमु० । ३ क. ०रताल० । ४ क. ०नवार० ।