हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 190, कुल 742 में से
संदर्भ में पढ़ें८ अध्यायः ] हस्तिआयुर्वेदः । १७१
वासुकिस्तक्षकश्चैव विषमुग्रं हरन्तु ते ॥
अनन्तश्चैव भगवान्विषं हरतु ते स्वाहा ॥ २८ ॥
जले रुद्रो जले ब्रह्मा जले ब्रह्म सनातनम्¹ ॥
जले वायुश्च सोमश्च निर्विषो भव कुञ्जर स्वाहा ॥ २९ ॥
मन्त्रैर्हृत्वा विषं तस्य वारणस्य चिकित्सकः ॥
एतेषां तु यथालाभं पशूनां कारयेद्रसम् ॥ ३० ॥
नकुलानां वराहाणां पृषतानां च युक्तितः ॥
भक्षयित्वाऽथ मांसानि विषिणो भक्षयन्ति ये ॥ ३१ ॥
औषधानि भिषक्तेषु शीघ्रमेवातिसंहरेत् ॥
पिप्पल्यो मरिचाश्चैव कल्पमेद्य ( ? ) घृतं मधु ॥ ३२ ॥
गोमयस्य रसेनैव भावयेन्मतिमान्भिषक् ॥
सुस्निग्धमेतद्रसकं विषदुष्टं मतङ्गजम् ॥ ३३ ॥
कटूष्णं पाययेदेनं तेन संपद्यते सुखी² ॥
अनेनैव च मांसेन भोजयेद्वार गं भिषक् ॥ ३४ ॥
पीत्वा तुं³ रसकं नागस्तेजस्वी बलवान्भवेत् ॥
न विषान्मरणं तस्य यदि जुष्टो महाविषैः ॥ ३५ ॥
सर्वं विषं विषहते पीते तद्रसके गजः ॥
विषेण दूषितं नागं तैलं दूराद्विवर्जयेत् ॥ ३६ ॥
पानेऽभ्यङ्गे तथा नस्ये घृतमेव प्रशस्यते ॥
अत ऊर्ध्वं क्रिया यस्य निखिलेन प्रशस्यते ॥ ३७ ॥ .
शीते पद्मह्रदे नागं दष्टं क्षिप्रं विगाहयेत् ॥
अयं विषघ्नो दातव्यः पिण्डस्तस्मै चिकित्सकैः ॥ ३८ ॥
द्वे हरिद्रे वचा चैव पिप्पली मरिचानि च ॥
द्वौ करञ्जौ सठी चैव बलामतिबलामपि ॥ ३९ ॥
एतत्संहृत्य संभारं गव्यं श्रेष्ठं च यद्धृतम् ॥
बस्तमूत्रेण तत्सर्वं क्षोदपित्वा विचक्षणः ॥ ४० ॥
अजानामथवाऽवीनां रक्तं क्षिप्रमुपार्जयेत् ॥
रक्तद्वयेन तं पिण्डं भोजयेद्वार गं भिषक् ॥ ४१ ॥
१ क. ख. सनातनः । २ क. सुखम् । ३ क. तु । ४ ख. नु । ५ क. ॰म् ॥
बत्समू॰ ।