सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 181, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 181

१६२ पालकाप्यमुनिविरचितो— [ १ क्षुद्ररोगस्थाने-
इति ह स्माऽऽह भगवान्पालकाप्यः । अथ यदा संयोनोपस्थानवर्तनवधब-
न्धहस्तियुद्धनागरायणसांग्रामिककर्मयोगान्मूर्खमहामात्रापचाराद्दारुणोऽतिमात्रं
वाह्यते, सान्त्वनप्रतिलम्भनानि यदा योक्ता त्वरया कर्मलोभात्प्रमादाद्वा न प्रय-
च्छेत्; तदा वारणः कर्मातिनीतशोषेणाभिभूयते ॥
स विवर्णच्छविर्विच्छिन्नभिन्नपुरीषमभीक्ष्णं च मूत्रं रक्ताभं समुत्सृजति, उत्सा-
हतेजोबलवर्णोपहतशरीरो भोजनयवसकवलपल्लवाभिनन्दी च न भवति ॥
तस्यैवं कर्मातिनीतव्याधिजुष्टस्याऽऽदौ सर्वकर्मप्रतिषेधं कुर्यात् । यथाकालं
चैनं कूलहरणं पांशुप्रमथनकर्दमहरणादिष्टत्सृजेत् । ततश्चैनं प्रफुल्लकुमुदोत्पल-
पद्मवानीरकन्दलीकदलीवालुकोपशोभितपर्यन्तेषु हंसचक्रवाककुररकारण्डवब-
ककलहंससारसानुनादिततीरेषु सूर्याशुभिः संतप्तसलिलेषु सरःसु करेणु-
परिवृतं यथाकाममवगाहयेत् । ततश्च *वृक्षगुल्मलतावगूढेषु वातसहितभूमिभाग-
वनप्रदेशेषु मदवशाभिर्वारणं यथोत्साहं प्रचारयेत् । मनःप्रसादनार्थं स्नेहदान-
विधिवद्दिष्टेन चास्य विधिना स्नेहदानं कारयेत् । सुरां च सफाणितां दद्यात् ।
षष्टिकौदनं च ससर्पिष्कं भोजयेत् । यथाकालं यवसानि च मधुररसवीर्यविपा-
कान्यार्जवानि मत्स्यण्डिकागर्भाणि भोजयेत् । अभिनयप्रतिनये चास्य यथा-
कालं कारयेत् ॥
तत्र श्लोकः—
पयोऽनुपानै रसभोजनैश्च साध्यं तदा वृक्षगणप्रदानैः ॥
उपक्रमेत क्रमशः प्रयत्नात्कर्मातिनीतं विधिवद्गजेन्द्रम् ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदे वृद्धपाठे द्वितीये क्षुद्ररोगस्थाने कर्मा-
तिनीतो नाम पञ्चमोऽध्यायः ॥ ५ ॥
अथ षष्ठोऽध्यायः ।
आश्रमस्थमुपासीनं हस्तिशास्त्रविशारदम् ॥
हुताग्निमृषिश्रेष्ठं पालकाप्यं स्म पृच्छति ॥ १ ॥

  • 'वृक्षगुल्मलताप्रतानगूढे प्रवातातपरहिते शोभनप्रदेशे सहसा वारणं' प्रत्य-
    न्तरे वा पाठः—इति क.पुस्तके टिप्पणी ॥
    १ क. ०यातोप० । २ क. ०नीतिशो० । ३ क. ०कुसुमोत्प० । ४ क.
    ०मिषु भाव० । ५ क. अत्र । ६ क. ख. ०र्भाभिणी० । ७ क. ख. ०र्भाभिणी० ।