हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 177, कुल 742 में से
संदर्भ में पढ़ें१६८ पालकाप्यमुनिविरचितो— [ २ क्षुद्ररोगस्थाने-
प्रयुञ्जेद्यो यथायोगं स भिषक्श्रेष्ठ उच्यते ।
इत्यब्रवीत्पालकाप्यो राज्ञाऽङ्गेन प्रचोदितः ॥
इति श्रीपालकाप्ये गजायुर्वेदमहाप्रवचने वृद्धपाठे द्वितीये क्षुद्ररोगस्थाने
द्वितीयः सर्वातीसाराध्यायः ॥ २ ॥
अथ तृतीयोऽध्यायः ।
अङ्गो हि राजा चम्पायां पालकाप्यं स्म पृच्छति ॥
कोरदूषैर्मदनकैर्मूर्च्छा किं रूपमृच्छति ॥ १ ॥
वारणः कैश्च विज्ञेयो लिङ्गैः साध्यस्तथेतरः ॥
चोदितस्त्वेवमङ्गेन पालकाप्यस्ततोऽब्रवीत् ॥ २ ॥
कोरदूषान्मदनकान्यदि भक्षयति द्विपः ॥
हरितान्भक्षयेद्वाऽपि पिबेद्वा मदनोदकम् ॥ ३ ॥
तदिदं कोपयेच्छीघ्रं रक्तपित्तकफानिलान् ॥
स समुत्कृष्टदोषस्तु मूर्छां नागो नियच्छति ॥ ४ ॥
मूर्छितो वा निषण्णो वा वेपते परिदह्यते ॥
उत्थातुकामः पतति विह्वलन्निव गच्छति ॥ ५ ॥
विन्यस्य ध्यायति करं पतन्न्योकुर्नवेति च ॥
गात्रापरपरिष्वक्तो वेदनार्तो हि वीक्षते ॥ ६ ॥
नाभिनन्दति चाऽऽहारं लाला चास्य प्रवर्तते ॥
चक्षुरस्याविलं स्तब्धं न च वालेन वीजते ॥ ७ ॥
सर्वगात्राणि सीदन्ति न च वायुः प्रपद्यते ॥
न च मूत्रं पुरीषं वा आनद्धस्य प्रवर्तते ॥ ८ ॥
पित्तं चास्य प्रवर्तैत श्लेष्मा रुधिरमेव च ॥
सारिष्टमपि तं दृष्ट्वा कर्म कुर्यादतन्द्रितः ॥ ९ ॥
एवं मदनजग्धं तु विदित्वा कुशलो भिषक् ॥
ऋतुसात्म्यं वयो देशं ज्ञात्वा कुर्यात्क्रियामिमाम् ॥ १० ॥
गोमयेन प्रदेहोऽस्य कर्तव्यः कर्दमेन वा ॥
शीतोदकावगाहश्च प्रवाते स्थापनं हितम् ॥ ११ ॥