सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 179, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 179

१६० पालकाप्यमुनिविरचितो— [२ क्षुद्ररोगस्थाने-
यद्येवं स सुखी न स्यादिदमन्यत्समाचरेत् ॥
शृङ्गवेरं ह्यतिविषा पिप्पली कटुरोहिणी ॥ २७ ॥
समभागानि सर्वाणि सूक्ष्मचूर्णानि कारयेत् ॥
प्रसन्नयाऽतिसंयोज्य शर्कराचूर्णसंयुतम् ॥ २८ ॥
देयमेतत्प्रतीपानं क्षिप्रमेव.सुखी भवेत् ॥
वातानुलोमनं ह्येतद्रक्तपित्तप्रसादनम् ॥ २९ ॥
श्लेष्मप्रसादनं चैव विशुद्धं तु प्रमेहति ॥
कषायं क्षीरवृक्षाणां भोजयेद्वारणं ततः ॥ ३० ॥
पिशितेन शशानां च वेसवारं प्रकल्पयेत् ॥
हस्तश्रवणवालैश्च यदा व्यजति वारणः ॥ ३१ ॥
ततोऽस्मै भोजनं दद्याद्धितं प्राणाय बृंहणम् ॥
लावतित्तिरिमांसानि साधयेत्तण्डुलोदके ॥ ३२ ॥
ततो रसमवश्वा(स्रा)व्य धूपयेद्घृतमात्रया ॥
पिप्पलीशृङ्गवेरेण प्रसन्नां मरिचैर्युताम् ॥ ३३ ॥
दाडिमीफलसारेण सौवर्चलसमन्विताम् ॥
संयुक्तं लवणं कृत्वा रसमस्मै प्रदापयेत् ॥ ३४ ॥
शालीनां च पुराणानां षष्टिकानामथौदनम् ॥
भोजयेत्तं यथाकालं तथा स लभते सुखम् ॥ ३५ ॥
अथाऽऽसवादिमद्यं च तद्विपं प्रतिपाययेत् ॥
इत्यब्रवीत्पालकाप्यो राज्ञाऽङ्गेन प्रचोदितः ॥ ३६ ॥ ११२१ ॥
'इति श्रीपालकाप्ये गजायुर्वेदे वृद्धपाठे द्वितीये क्षुद्ररोगस्थाने
मदनजग्धको नाम तृतीयोऽध्यायः ॥ ३ ॥
अथ चतुर्थोऽध्यायः ।
अथाङ्गाधिपतिरभिवाद्योवाच भगवन्तं पालकाप्यम्—'भगवन्यः प्राक्संग्रहे
दृष्टस्तृणशोषी नाम व्याधिः, स कथं भवति, कथं स साध्यते ॥
ततः प्रोवाच भगवान्पालकाप्यः—इह खलु भो(स्) तृणशोषी नाम
संभवति रूक्षस्य मन्दाग्नेर्गर्हितयवसोपयोगात्, वाहितानामतिमात्रोपयोगात् ।
१ क. प्रतिपादयेत् ।