सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 180, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 180

५ कर्मातिनीतचिकित्सिताध्यायः ] हस्त्यायुर्वेदः । १६१
तद्यथा—काकादनानीलीशिपीलुककालालाङ्गूलकीथुकनासानां भक्षणात्, भल्ला-
तकफलानां सविषकवलकुवलपल्लवोपयोगात्, सविषवल्लीतृणगुल्मपत्रलताप्रतां-
नभक्षणाद्वा, अथवा सविषोरगकीटसंस्पर्शनात्, तल्लालाश्वासमूत्रपुरीषोप-
हत(*तृणानां परिचारकाज्ञानेन भोजनाद्वा, नानाविधकीटसंस्पर्शदोषोपहत)-
संस्थानविधिभिः परिचारकाज्ञानाद्भोजनाद्वा ॥
स विवर्णः प्रक्षीयमाणबलजवशरीरः श्वासी विजृम्भते, आध्मायते, शूल्यते,
च विह्वलति स्तब्धगूनपक्कजिह्वोष्ठस्रुकताम्राक्षः परिग्लानन्तनयनः श्लेष्मप्रसेक-
वान्, तस्य प्राक्छर्देःप्रवर्तनात्प्रजायते शोकश्च । स दुश्चिकित्स्यो भवति ।
कोऽस्य हेतुः—शोषच्छर्दिषौ मृदू चिकित्स्ये भवतः । विपरीते अन्यथा ॥
अतः संस्निग्धमधुरकषायैः कवलकुवलयवसोपचारैरुपचरेद्भिषक् । अपि च—
पिप्पलीशृङ्गवेररोध्राम्बष्ठाम्रियङ्गुपद्मकसमङ्गाधातकीपुष्पाशोकरोहिणीकसेरुकाश्च-
क्षोदयित्वा मधुना संयोज्य (+कवलान्भोजयेत् । तण्डुलीकमूलाधारग्वधशिरी-
षोरुबूकजीवन्तिकानि च क्षोदयित्वा मधुना संयोज्य) कवलान्दद्यात् । श्लेष्मा-
न्तकारग्वधत्वङ्मूलफलपुष्पपत्राणि तण्डुलीयकमूलारग्वधोदुम्बराणां निष्क्वाथं
तण्डुलोदकसंयुक्तं पाययेत् । सल्लकी च मुस्ताशनोशीरचन्दनैर्गोमयसंयुक्तैः
प्रलेपः, गोमयेन च । कुटजफलहरिद्रानक्तमालसप्तपर्णीपिप्पलीसर्षपसुगन्धार्थ-
भागयुक्तानि चूर्णं कृत्वा मुखं संमार्जयेत् । प्लक्षन्यग्रोधाश्वत्थकर्णिकारशङ्ख-
कीनां पल्लवानि भोजयेत् । अनुक्तानामप्येवं प्रकाराणां वृक्षपत्रभङ्गान्मोजयेत् ।
तृणशोषिप्रशमनार्थं भोजनं शाल्योदनं मुद्गयूषेण घृतस्निग्धेन रसेन वा दद्यात् ॥
तत्र श्लोकः—
उत्पद्यमानमेवाऽऽदौ तृणशोषिणमुद्धरेत् ।
सोपद्रवोऽतिवृद्धो हि दुश्चिकित्स्यतमो भवेत् ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने चतुर्थ-
स्तृणशोषी नामाध्यायः ॥ ४ ॥
————
अथ पञ्चमोऽध्यायः ।
————
अथातः कर्मातिनीतचिकित्सितमध्यायं व्याख्यास्यामः ।

  • धनुराकारमध्यस्थः पाठो नैव कपुस्तके ।
    † धनुराकारमध्यस्थो नास्ति पाठः खपुस्तके ।
    १ क. °दनीनीलासिपालु° । २ क. °तापभं° । ३ ख. मृदुचि° ।
    २१