हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
१०२ पालकाप्यमुनिविरचितो— [ १ महारोगस्थाने-
मूले छिन्ने हताः शाखा भवन्ति हि तदाश्रयाः ॥
तस्माद्द्रोतप्रतीकारः सदा कार्यश्चिकित्सकैः ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने महारोगस्थाने शिरो-
रोगाध्यायः पञ्चदशः ( चतुर्दशः ) ॥ १४ ॥
अथ पञ्चदशाध्यायः ।
रोमपादो महातेजा दृष्ट्वा पादातुरान्गजान् ॥
हस्तिशालासमासीनं पालकाप्यं स्म पृच्छति ॥ १ ॥
भगवन्केन जायन्ते पादरोगाः पृथग्विधाः ॥
संख्यया कति ते प्रोक्ताः किंच तेषां चिकित्सितम् ॥ २ ॥
स्वशरीरसमुत्थानाः केन वा वनचारिणाम् ॥
पादरोगा न जायन्ते तस्मादाचक्ष्व पृच्छतः ॥ ३ ॥
स एवमङ्गराजेन पृष्टो मधुरया गिरा ॥
वचनं प्रत्युवाचेदं पालकाप्यो महामुनिः ॥ ४ ॥
प्रमाणं पादरोगाणां सनिदानं चिकित्सितम् ॥
केचिदेषां दशोच्छन्ति केचिदिच्छन्ति विंशतिम् ॥ ५ ॥
इह त्रिंशतमिच्छन्ति पादरोगांश्चिकित्सकाः ॥
नामतस्तान्प्रवक्ष्यामि सलिङ्गांन्सचिकित्सकान् ॥ ६ ॥
तत्रोत्कारकी प्रथमः कारकी तदनन्तरम् ॥
नाडीजातस्तृतीयः स्यात्ततः संराष्ट्रकेशकम् ॥ ७ ॥
नखभेदं ततो विद्यात्पूयकेशस्ततः परम् ॥
विप्लावकेस्ततस्त्वन्यः केशग्रन्थिः †सविलुकः ॥ ८ ॥
समन्तकेशश्च भवेत्कचकैशश्च कीर्त्यते ॥
कदम्बपुष्पो विज्ञेयः संफुल्लोऽथ कुठारकः ॥ ९ ॥
फुल्लपादस्तैथा ज्ञेयस्ततो भिन्ननखोऽपरः ॥
स्फुटितश्चानुवृद्धतश्च तथाऽन्योऽपि नखो भवेत् ॥ १० ॥
- 'चिकित्सितान्' इति तूचितम् । † 'सविलुतः' इत्येव पाठः साधुः, अग्नि-
मग्रन्थानुरोधात् ॥
१ क. छिन्नो हतः शा° । २ क. °द्वाते प्र° । ३ क. °कस्त्वत° । ४ क.
सुफुल्लो° । ५ क. °स्ततो ज्ञे° । ६ क. °नुवृद्धश्च ।
१९ पादरोगोध्यायः ] हस्त्यायुर्वेदः । १०३
शरनद्धोऽथ विज्ञेयो दर्दुकेशश्च¹ दन्तिनः ॥
प्रगुल्मिकेशो गम्भीरस्तथा चर्मतलोऽपरः ॥ ११ ॥
क्षतो निर्मूलितश्चैव तथा केशः सलोहितः ॥
स्थाण्वाहतः क्षीणतलस्तथा *चाभ्यन्तरीकृतः ॥ १२ ॥
निष्पिष्टो मांसकेशश्च तथा स्थानरतोऽपरः ॥
इति रोगसमुद्देशः कीर्तितः पृथिवीपते ॥ १३ ॥
तत्र तावत्प्रवक्ष्यामि गजानां वनवासिनाम् ॥
पादरोगा न जायन्ते स्वशरीरोत्थिता यथा ॥ १४ ॥
प्रकृतिः परिसर्या हि वनेषु वनचारिणाम् ॥
न तिष्ठति ततस्तेषां शोणितं तलसंधिषु ॥ १५ ॥
पवनः प्रकृतिं याति श्लेष्मा चैषां विशुध्यति ॥
पित्तं प्रसन्नतां याति ततो गच्छति भूमिप ॥ १६ ॥
पादरोगा न जायन्ते तेनेह वनचारिणाम् ॥
ग्राम्याणां पारवश्यत्वादालानष्वेव तिष्ठताम् ॥ १७ ॥
प्रायः पादा विनश्यन्ति सततं स्थानसेवया ॥
सप्तमीं तु दशां प्राप्तान्वयोतीतांस्तु वारणान् ॥ १८ ॥
पादरोगाः प्रबाधन्ते विशेषेणे²ह पार्थिव ॥
व्याप्य सर्वशरीरं हि शिराः सर्वाः समन्ततः ॥ १९ ॥
सहिताः स्नायुजालेन चरणेषु प्रतिष्ठिताः ॥
गुलिकास्थिसमूहश्च यस्मात्पादेषु दन्तिनाम् ॥ २० ॥
रोगा ये तत्र जायन्ते तस्मात्ते दारुणाः स्मृताः ॥
इति त्रिंशदिमे प्रोक्ता द्विविधा रोगसंख्यया ॥ २१ ॥
स्वशरीरसमुत्थाश्च भवन्त्यागन्तवस्तथा ॥
तेषामपि विभागं तु क्रमयोगात्प्रचक्षते ॥ २२ ॥
तत्र निर्मूलितनखः क्षत (:) क्षीणतलस्तथा ॥
स्थाणुनाऽभिहतश्चैव शरनद्धश्च यो भवेत् ॥ २३ ॥
उत्कारकी स्थानरतो विनिष्पिष्टतलस्तथा ॥
अनुद्धतनखश्चैव स्युरेते शास्त्रनिश्चयात् ॥ २४ ॥
* 'चान्यः क्षरीकृतः' इति पाठ उचितः, अग्रिमग्रन्थानुरोधात् ।
१ क. ख. दर्दुकै° । २ क. षणेण च पा° । ३ ग. °णनखस्त° ।
नवैवाऽऽगन्तवो रोगाः शेषाः स्युर्दोषसंभवाः ॥
अत ऊर्ध्वं चिकित्सां च लक्षणं च प्रवक्ष्यते ॥ २५ ॥
तत्र चोत्कारकीलिङ्गं वारणस्य प्रवक्ष्यते ॥
यथानिमित्तं मातङ्गः पादव्याधिं नियच्छति ॥ २६ ॥
तृणमूत्रपुरीषाणां पांसूनां कर्दमस्य च ॥
उत्करे तिष्ठति यदा सततं क्वथिते गजः ॥ २७ ॥
तेनास्य पलिपादेषु पवनः परिकुप्यति ॥
दारुणं लभते तेन पादरोगं मतङ्गजः ॥ २८ ॥
नाड्यो वातेन जायन्ते केशा वा भृशदारुणाः ॥
दुःखितस्तेन मातङ्गः स्थाने न लभते सुखम् ॥ २९ ॥
दन्तिनो नखमूलेषु यदा कुप्यति मारुतः ॥
श्लेष्मणा सहितस्तेन कण्डूस्तस्योपजायते ॥ ३० ॥
(*ततः कण्डूयतेऽत्यर्थं करेण सततं करी ॥
तेनावच्छेदनात्केशकारकी नाम जायते ॥ ३१ ॥ )
स्वशरीरसमुत्थानाः काष्ठलोष्ठक्षतादपि ॥
न साध्यन्ते यदा वैद्यैर्व्रणाः पादेषु दन्तिनाम् ॥ ३२ ॥
विसर्पन्ति ततस्तेषां गतपस्तलसंधिषु ॥
नाडीजात इति प्राहुः पादरोगं गजस्य तम् ॥ ३३ ॥
कदम्बपुष्पसंस्थानैः कुठारसदृशैस्तथा ॥
दद्रुभिः कचगुल्मैश्च यदा पादाः समन्ततः ॥ ३४ ॥
द्विरदस्य प्रभिद्यन्ते समन्ताद्गाढवेदनैः ॥
संराष्ट्रकेशं पवनाज्जानीयात्तं नरेश्वरः ॥ ३५ ॥
श्लेष्मशोणितपित्तानां दोषमन्यतमं यदा ॥
संगृह्य पवनो दुष्टो नखमध्येषु तिष्ठति ॥ ३६ ॥
तदा भित्त्वा नखान्केशा जायन्ते भृशदारुणाः ॥
इत्युक्तं नखभेदस्य शास्त्रयोगेन लक्षणम् ॥ ३७ ॥
यदा प्रदुष्टः पवनः पित्तमादाय तिष्ठति ॥ ३८ ॥
नखान्तरेषु सर्वेषु विक्कान्नखशिखासु च ॥
यदा संजायते केशो जापमानश्च पच्यते ॥ ३९ ॥
*धनुराकारमध्यस्थपाठो 'ग' पुस्तके त्रुटितः ॥
१ क. ख. दद्भिः । २ क. यवनो । ३ क. °पु भित्त्वा न°।
१९ पादरोगोध्यायः ] हस्त्यायुर्वेदः । २०६
अजस्रश्र(स्र)वणाच्चास्य पूयकेशत्वमिष्यते ॥
इत्येतल्लक्षणं प्रोक्तं पूयकेशस्य दन्तिनः ॥ ४० ॥
नखान्तराणि सर्वाणि तलाः सतलसंधयः ॥
पच्यन्ते सहसा यस्य विसर्पन्ति च सर्वशः ॥ ४१ ॥
पुनश्चैवोपरोहन्ति भिद्यन्ते च पुनः पुनः ॥
केशो विप्लावकश्चैष पित्तासृग्वातसंभवः ॥ ४२ ॥
विप्लुता यस्य लक्ष्यन्ते केशैश्च तलसंधयः ॥
(*सग्रन्थिभिर्वातरक्तोत्केशग्रन्थिः सविप्लुतः ॥ ४३ ॥
कुपितः पित्तमादाय यदा तिष्ठति मारुतः ॥
तलसंधिषु नागस्य तेन केशोऽस्य जायते ॥ ४४ ॥
सरुजः सपरीदाहः क्षिप्रपाकी विसर्पकः ॥
पच्यन्ते सहसा तस्य समन्तात्तलसंधयः ) १॥ ४५ ॥
समन्तकेशं जानी
२ क. ख. ॰दः सर० ।
Wait, look at footnote 3: ३ क. ॰भिजाता० । (for line 17: जायन्ते -> संजाताः or अभिजाताः).
So footnote 2 is between line 7 and line 17!
Where could footnote 2 belong?
Options between line 7 and line 17:
- line 8:
पादरोगो विनिश्चितः - line 10:
सोऽनुद्धतनखो भवेत् - line 12:
शर... तदा नागः पादव्याधिं नियच्छति - line 16:
दद्रुकेशः स विज्ञेयस्तेन लिङ्गेन दन्तिनः
Wait! What about line 12:पादव्याधिं नियच्छति? No, what about line 2? No, line 2 is verse 54, too early.
Wait, look at footnote 2:॰दः सर०!
Could it beपादव्याधिं->पादः सरुक्?
What about line 12 first word:शरनद्धं? Look at it:
श-र-न-द्धं
Wait! Is thatनद्धं
[अ० ५ पादरोगोध्यायः ] हस्त्यायुर्वेदः । १०७
दन्तिनां मोहदेशेषु विकानखशिखासु च ॥
तेन केशा विवर्धन्ते तत्र शोणितसंभवः ॥ ६९ ॥
शोणितक्षरणाच्चैषां रक्तकेशत्वमिष्यते ॥
वनपर्वतदुर्गेषु चरतां दन्तिनां यथा ॥ ७० ॥
स्थाणुना भिद्यते पादः स तु स्थाणवाहतो भवेत् ॥
लोष्टाश्मकण्टकाकीर्णां यदा संचार्यते महीम् ॥ ७१ ॥
शराधानवतीं वाऽतितप्तं वा बहुशो गजः ॥
तस्य तेनोपतापेन दुष्यन्ति तलसंधयः ॥ ७२ ॥
क्षीयन्ते च तला गाढं स तु क्षीणतलो भवेत् ॥
प्रतिघ्नतो यदा यातुस्तिष्ठत्याक्रम्य शर्कराः ॥ ७३ ॥
मन्दं गच्छति पर्यश्रुः पथि क्षीणतलो गजः ॥
तस्य क्षीणतलस्येह तलेभ्यः पूपशोणिते ॥ ७४ ॥
क्षरतः स तु विज्ञेयः पादरोगः क्षरीकृतः ॥
• विनिष्पिनष्टि यः क्रुद्धो मुहुः पादतलं गजः ॥ ७५ ॥
शर्कराशरधानेषु लोष्टाश्मगहनेषु च ॥
तस्य पार्ष्णिप्रदेशेषु शोणितं संप्रदुष्यति ॥ ७६ ॥
प्रदुष्टं जनयेद्व्याधिं गजस्य भृशदारुणम् ॥
निष्पिष्टतलमित्याहुः पादरोगं चिकित्सकाः ॥ ७७ ॥
अत ऊर्ध्वं प्रवक्ष्यामि मांसकेशस्य लक्षणम् ॥
नखान्तरेषु सर्वेषु विकानखशिखासु च ॥ ७८ ॥
यदा संजायते केशो मांसं प्राप्तः सुदारुणः ॥
गम्भीरमूलकठिनो बहुलो गुरुवेदनः ॥ ७९ ॥
मांसकेशः स विज्ञेयः पादरोगश्चिकित्सकैः ॥
क्रोधाद्भयाद्धा मातङ्गं यदा तु परिचारकाः ॥ ८० ॥
न नयन्त्यवगाहं च शय्यायां नापि नाध्वनि ॥
स्थान एव निबद्धस्य कवलं पल्लवं जलम् ॥ ८१ ॥
तृणं चैव प्रयच्छन्ति विधां च लवणानि च ॥
तस्य कुप्यति पादेषु चिरस्थानेन मारुतः ॥ ८२ ॥
स्फेटन्ति सर्वतश्चास्य तलाः सतलसंधयः ॥
नखान्तराणि भिद्यन्ते मोहौ निर्भुजतस्तथा ॥ ८३ ॥
१ क. ०पि नोऽध्व० । २ क. स्फुटन्ति ।
१०८ पालकाप्यमुनिविरचितो— [ १ महारोगस्थाने—
तं स्थान¹रतमित्याहुः सततं स्थानसेवया ॥
इति त्रिंशदिमे प्रोक्ताः पादरोगाः सलक्षणाः ॥ ८४ ॥
चिकित्सितं² यथा येषां विस्तरेण प्रवक्ष्यते³ ॥
शस्त्राग्निक्षारचूर्णानि धावनालेपनानि च ॥ ८५ ॥
स्नेहनं चान्ववेक्षा⁴ च क्रियाविधानमष्टधा ॥
कुठारपादः स्थानरतः केशग्रन्थिः सविप्लुतः ॥ ८६ ॥
समन्तकेशः संराष्ट्रकेशो विप्लुवकश्च यः ॥
असाध्याः पादरोगाः स्युः षडेते शास्त्रनिश्चयात् ॥ ८७ ॥
अत ऊर्ध्वं तु याप्यांश्च साध्यांश्च शृणु पार्थिव ॥
कदम्बपुष्पः संकचः⁵ प्रफुल्लः फुल्ल एव च ॥ ८८ ॥
चत्वार एते याप्याः स्युः पादरोगा नरेश्वर ॥
नखभेदो भिन्ननखो निर्मूलितनखस्तथा ॥ ८९ ॥
स्खलितश्चानुद्वतश्च⁶ कृच्छ्रसाध्यास्तु ते स्मृताः ॥
पूयकेशः प्रगुल्मी च रक्तकेशश्च पार्थिव ॥ ९० ॥
एतेऽपि दुश्चिकित्स्यास्तु मांसकेशश्च यः स्मृतः ॥
स्खलितो नखभेदश्च केशो भिन्ननखश्च यः ॥ ९१ ॥
उत्कारकी सगम्भीरः साध्याः पञ्चाग्निकर्मणा ॥
कारकी दद्रुकेशश्च मांसकेशश्च पार्थिव ॥ ९२ ॥
प्रगुल्मी चेति चत्वारः क्षारसाध्याश्चिकित्सकैः ॥
क्षतो निर्मूलितश्चैव पूयकेशः सलोहितः ॥ ९३ ॥
नाडीजातश्च विज्ञेयः शरनद्धश्च यो भवेत् ॥
स्थाण्वाहृतश्च सप्तैते साध्याः स्युः शस्त्रकर्मणा ॥ ९४ ॥
क्षरीकृतः क्षीणतलस्तथा चर्मतलश्च यः ॥
निष्पिष्टतल इत्येते चत्वारः पृथिवीपते ॥ ९५ ॥
अप्रमत्तेन भिषजा साध्याः स्युर्मूलकर्मणा ॥
असाध्याश्चैव याप्याश्च साध्याश्चैव यथा यथा ॥ ९६ ॥
कीर्तिताः पृथिवीपाल चिकित्सितमतः शृणु ॥
द्वावेतौ सहजौ रोगौ सुफुल्लः फुल्ल एव च ॥ ९७ ॥
१ क. ॰नतरमि॰ । २ ख. ग. ॰तं तथाऽप्येषां । ३ क. प्रचक्षते । ४ क.
चान्त्र वक्ष्या च । ५ क. सवचः । ६ क. ॰नुवृत्तश्च । ग. ॰नुद्धृत॰ ।
११ पादरोगोध्यायः ] हस्त्यायुर्वेदः । १०९
एतयोः स्वेदनं कार्यमभ्यङ्गश्चैव नित्यशः ॥
कदम्बपुष्पकेशश्च कचकेशश्च यो भवेत् ॥ ९८ ॥
घृतं लवणसंयुक्तं नित्यमभ्यञ्जनं हितम् ॥
गोमूत्रं वाऽश्वमूत्रं च खरमूत्रं तथैव च ॥ ९९ ॥
त्रिफलासोमवल्कानां निष्क्वाथः पादधावनम् ॥
भल्लातकानां तैलं च तिलतैलं घृतं वसा ॥ १०० ॥
पादरोगेषु नागानां स्नेहनं हितमुत्तमम् ॥
प्रियङ्गुतगरं कुष्ठं तेजोह्वा रजनीद्वयम् ॥ १०१ ॥
वचासैन्धवसंयुक्तं घृततैलसमन्वितम् ॥
सर्वेषां पादरोगाणां केशशातनमुत्तमम् ॥ १०२ ॥
(*सर्षपाश्चित्रको दन्ती श्वेता कटुकरोहिणी ॥
महावृक्षार्कयोर्मूलं भल्लातकफलानि च ॥ १०३॥
लवणानि हरिद्रे च कोशातक्याः फलानि च ॥
पिचुमन्दपलाशानि त्रिवृता श्वेतसर्षपाः ॥ १०४ ॥
कल्कपिष्टानि सर्वाणि केशशातनमुत्तमम् ॥ >
गुग्गुलं निम्बपत्रं च त्र्यूषणं च तिलैः सह ॥ १०५ ॥
कल्कपिष्टानि सर्वाणि केशशोधनमुत्तमम् ॥
विषघ्नाऽतिविषा कुष्ठं सर्षपाः सुरदारु च ॥ १०६ ॥
त्रिवृद्दन्त्यर्कभल्लातमूलानि च शणं तिलाः ॥
अतसी च पटोलं च प्रत्येकं केशशोधनम् ॥ १०७ ॥
अतसी ( * किण्वमेरण्डसुरा क्षारतिलात्वचम् ॥
महावृक्षार्कयोर्मूलं पिष्ट्वा भल्लातकानि च ॥ १०८ ॥
मधुशिग्रुफलैः सार्धं पादरोगेषु शोधनम् ॥
कासीसं ) सैन्धवं कांस्यं तथा नीली रसाञ्जनम् ॥ १०९ ॥
सौराष्ट्रा मधुकं चैव पादरोगेषु रोपणम् ॥
घोण्टाफलानि त्रिफला निचुलानं फलानि च ॥ ११० ॥
तलरोगेषु नागानां स्थिरीकरणमुत्तमम् ॥
गोजीत्वचोऽश्वकर्णश्च सोमवल्कधनंजयौ ॥ १११ ॥
- धनुराकारचिह्नद्वयान्तर्गतपाठः कपुस्तके नास्ति ॥
१ क. ख. ॰नि तृवृ॰ । २ क. ॰कं कोश॰ । ३ ख. ॰तसीकिं॰ । ४ क.
॰राष्ट्रम्॰ । ५ क. ख. घोटाफ॰ ।
११० पालकाप्यमुनिविरचितो— [१ महारोगस्थाने—
कल्कपिष्टानि सर्वाणि तलस्तम्भनमुत्तमम् ॥
सोमवल्कस्य सर्जस्य ककुभाश्मन्तकस्य च॑ ॥ ११२ ॥
( * भल्लातकोदुम्बरपोस्तथाऽश्वत्थकदम्बयोः ॥
आम्रातकाश्वकर्णं च कुम्भीं च क्वाथयेज्जले ॥ ११३ ॥)
पादावशिष्टं कथितं पुनरेवाप्यधिश्रयेत् ॥
किरातमूलं कासीसं हरितालं रसाञ्जनम् ॥ ११४ ॥
तथा सर्जरसं दद्याद्रोहिणीचूर्णमेव च ॥
अपहृत्य च निर्दग्धमपः कुम्भे निधापयेत् ॥ ११५ ॥
ततस्तेन कषायेण व्रणं नागस्य क्षालयेत् ॥
───
अतः परं प्रवक्ष्यामि क्षारकर्मविधिं शुभम् ॥ ११६ ॥
पालाशं क्षारमादाय मुष्ककस्य धवस्य च ॥
कुटजेङ्गुदचाराणां क्षारमारग्वधस्य च ॥ ११७ ॥
कालशुकं ससप्तपर्णं क्षारं सौगन्धिकस्य च ॥
रोध्रकं चिरबिल्वं च शैरीषं कतकं तथा ॥ ११८ ॥
एतान्क्षारान्समाहृत्य हस्तिमूत्रेण संसृजेत् ॥
संसृजेच्चाश्वमूत्रेण गवां मूत्रेण चैकशः ॥ ११९ ॥
पुनः पुनः समासिञ्चेद्यथा स्यात्सुपरिश्रु(स्रु)तम् ॥
परिश्रु(स्रु)तं तु तं क्षारं सुप्रसन्नं ततो भिषक् ॥ १२० ॥
अपः कुम्भे दृढे धीरः शनैर्मेन्दाग्निना पचेत् ॥
सुप्रसन्नं ततो वैद्यः समन्तात्परिघट्टयेत् ॥ १२१ ॥
अनामं चाप्यदग्धं च दर्वीलेपमथोद्धरेत् ॥
अयोमये सापिधाने कलशौ रजतप्रभे ॥ १२२ ॥
तस्मिन्क्षारं समावाप्य स्वनुगुप्तं निधापयेत् ॥
पूर्वोक्तेन कषायेण सुखोष्णेनाथ धावनम् ॥ १२३ ॥
तं कपालिकया गाढं तीक्ष्णया परिघट्टयेत् ॥
सम्यक्प्रक्षालितं केशं कृत्वा निरुदकं ततः ॥ १२४ ॥
───────────────────────────
- धनुराकारचिह्नान्तर्गतपाठः कपुस्तके न ॥
───────────────────────────
१ क. अपहृत्य । २ ग. शृणु । ३ क. °दवारा° । ४ क. कालंभुकं ।
५ क. रौध्रकं । ६ क. °सिन्चीरं ।
क्षीरागदेन योग्यङ्गस्तेनैव प्रतिसारयेत् ॥
(*पक्वजाम्बवसंकाशममिश्रा(स्रा)वि यदा भवेत् ॥ १२५ ॥
सम्यग्दग्धतलं विद्यादन्यथा तु विगर्हितम् ॥
कौतकं पञ्चलवणं यवक्षारस्तथैव च ॥ १२६ ॥^१
एतानि दग्ध्वा क्षारं तु पूर्वकल्पेन साधयेत् ॥)
तगरं पञ्चलवणं हरितालं मनःशिला ॥ १२७ ॥
एतत्समुद्धतं सर्वं हस्तिमूत्रेण संसृजेत् ॥
पूर्वोक्तेन विधानेन क्षारयोगः प्रशस्यते ॥ १२८ ॥
शुष्काक्षं काञ्चनक्षीरीं दन्तीं लाङ्गलकीं तथा ॥
साधयेत्पूर्ववत्क्षारं ततः सम्यग्विचक्षणः ॥ १२९ ॥
हरितालं सुधाचूर्णं तथैव कटशर्कराम् ॥
व्रणानालेपयेदेभिः पूर्वक्षारेण साधितान् ॥ १३० ॥
रोहत्येवं व्रणो लिप्तो न च रूढः प्रभिद्यते ॥
(*कासीसं हरितालं च कांस्यनीलीसुराष्ट्रजम् ॥ १३१ ॥
मनःशिलां च संभृत्य समभागानि पेषयेत् ॥•
तं कल्कं निपुणं पिष्ट्वा व्रणं तेनोपलेपयेत् ॥ १३२ ॥
रोहत्येवं व्रणो लिप्तो न च रूढः प्रभिद्यते) ॥
तु(त्रि)वृल्लाङ्गलकी दन्ती मधुकं केसरं तथा ॥ १३३ ॥
कृष्णकन्दां तालपत्रीं समभागानि पेषयेत् ॥
कल्कपिष्टैः सुतैः सम्यग्घृतं धीरो विपाचयेत् ॥ १३४ ॥
एतेन सर्पिषाऽभ्यक्तः पादः स्थैर्यं नियच्छति ॥
अत ऊर्ध्वं तु नागानामग्निकर्म प्रवक्ष्यते ॥ १३५ ॥
तच्चाग्निकर्म शास्त्रज्ञैश्चतुर्विधमिहोच्यते ॥
स्नेहस्तथेष्टिका लोहं चतुर्थी प्रोच्यते शिला ॥ १३६ ॥
योजयेत्तु यथायोगं बलाबलमवेक्ष्य च ॥
मृद्वग्निसोध्या ये रोगास्तेषु स्नेहः प्रशस्यते ॥ १३७ ॥
मध्याग्निसोध्या ये तांस्तु इष्टकाभिः प्रसाधयेत् ॥
तीक्ष्णाग्निसोध्या ये केशास्तांल्लोहेन प्रसाधयेत् ॥ १३८ ॥
- धनुराकारमध्यस्थपाटो गपुस्तके त्रुटितः ।
१ क. क्षीरागदेन । २ ख. शुकाख्यां । ३ क. ॰ञ्चनं क्षी॰ । ४ ख. ॰पिष्टैस्तु तैः ।
३१२ पालकाप्यमुनिविरचितो— [१ महारोगस्थाने-
अतितीक्ष्णाग्निसाध्यांस्तु शिलाभिः साधयेद्भिषक् ॥
( *एतेन कर्मयोगेन यथाव्याधि प्रयोजयेत् ॥ १३९ ॥
ईष्टकां चैव लोहं च तप्तां चैव शिलां भिषक् ) ॥
प्रयोजयेद्यथायोगं वयो बलमवेक्ष्य च ॥ १४० ॥
मासात्तु कार्तिकादूर्ध्वं निवृत्ते शुष्ककर्दमे ॥
हेमन्तस्याऽऽगमे कुर्यात्तत्कर्म विचक्षणः ॥ १४१ ॥
उद्धृतं चोवधूतं च मृत्तिकानुगतं च यत् ॥
स्फुटितं दुष्टमांसं च शस्त्रैस्तीक्ष्णैर्विशोधयेत् ॥ १४२ ॥
रक्तस्रावं न कुर्वीत न चातिक्षणुयात्तलम् ॥
शनैः शनैस्तलः शोध्यो यावत्तु मृदुतां व्रजेत् ॥ १४३ ॥
अग्निकर्मविधिः कृत्स्नो यथावदुपदेक्ष्यते ॥
तप्तैरयोभिरुत्तानं तलं सम्यक्शनैर्दहेत् ॥ १४४ ॥
फालैर्जम्बोष्ठदर्वीभिर्यथादोषमुपक्रमेत् ॥
जम्बोष्ठैरेव गम्भीरान्दाहयेदग्निकर्मवित् ॥ १४५ ॥
ईष्टकाभिस्ततः स्वेदः कार्यः केशेषु हस्तिनाम् ॥
वातिकेषु च रोगेषु श्लेष्मणा कठिनेषु च ॥ १४६ ॥
रत्निमात्रां चतुरस्रां शिलां भूमौ निखात(न)येत् ॥
उत्सेधेनाङ्गुलान्यष्टावग्निवर्णां च कारयेत् ॥ १४७ ॥
मृदा पालीं समन्ताच्च शिलायां कारयेद्भिषक् ॥
शिलां तां खादिरैः काष्ठैः सुतप्तां कारयेत्ततः ॥ १४८ ॥
अपनीयाऽऽशु तत्राग्निमौषधानि समावपेत् ॥
गुडं तैलं वसां माषाञ्श्रीवेष्टं च सगुग्गुलम् ॥ १४९ ॥
तिष्ठेत्पुरा प्रकथितं रोधं मधुहरीतकीम् ॥
गैङ्गालिकां महागुन्द्रां सूक्ष्मचूर्णानि कारयेत् ॥ १५० ॥
एकीभूते तु संभारे तस्मिन्प्रकथिते भिषक् ॥
स्थापयेत्पादमेकैकं यथावत्सुप्रतिष्ठितम् ॥ १५१ ॥
- धनुराकारमध्यस्थपाठः कपुस्तके न ।
१ ख. इष्टिकां । २ क. चामधूमं । ३ क. ख. रक्तभावं । ४ क. ॰लृञ्ज-
म्बोष्ठ° । ग. ॰लजङ्घोष्ट° । ५ क. जृम्बोष्टै° । ग. जङ्घ्योष्टै° । ६ ख. इष्टिका° ।
७ क. ख. चतुरश्रां । ८ क. ॰ङ्गुलिन्य° । ९ क. समां । १० ख. ग. शृगालिकां ।
[ पादरोगाध्यायः ] हस्त्यायुर्वेदः । ११३
मात्राप्रमाणं कालं वा ह्रस्वाक्षरमथापि वा ॥
एष मात्राविधिः प्रोक्तस्त्वग्निदाहे नृपोत्तम ॥ १५२ ॥
अक्लिन्नं वाऽप्यपोढं च ताम्रबिल्वसमप्रभम् ॥
सम्यग्दग्धतलं विद्यादन्यथा तु विगर्हितम् ॥ १५३ ॥
गोमेदकसवर्णायश्च मधुवर्णाश्च ये तलाः ॥
पक्वतालु(ल)सवर्णाश्च समरक्तास्त्ववेदनाः ॥ १५४ ॥
अनुन्नतास्त्वकुल्माषा गम्भीराः कठिनाः स्थिराः ॥
भवन्ति सुखसंस्पर्शाः सम्यग्दग्धा यदा तलाः ॥ १५५ ॥
सुप्ररूढास्तलाः सम्यगुत्तिष्ठन्ति समन्ततः ॥
देहन्त्यपि च निःशङ्कं समेषु विषमेषु च ॥ १५६ ॥
इति सम्यक्प्रदग्धानां कीर्तितं लक्षणं मया ॥
तलानामामदग्धानामुत्तमं शृणु लक्षणम् ॥ १५७ ॥
आमदग्धेषु पादेषु विकारो नोपशाम्यति ॥
स्रैवन्ति सततं रक्तं पाँण्डुरा मृदवस्तलाः ॥ १५८ ॥
आमदग्धं विदित्वैवं पुनः कर्म विधीयते ॥ •
अतिदग्धस्य विज्ञानमतः शृणु महीपते ॥ १५९ ॥
अतिदग्धास्तु मुच्यन्ते संधिभ्यः सहसा तलाः ॥
नखाश्चापि विशीर्यन्ते स्फुटन्ति च समन्ततः ॥ १६० ॥
आश्रा(स्रा)वः पिच्छिलो रक्तस्तलेभ्यस्तस्य गच्छति ॥
स्थातुं न शक्नोति गजो रक्तमूत्री च जायते ॥ १६१ ॥
वमत्यभीक्ष्णं वमथुं सततं च प्रमेहति ॥
प्राणांस्त्यजति वा नागो न स कर्मणि कल्पते ॥ १६२ ॥
नातिदग्धं तलं कुर्यान्नाऽऽमदग्धं च कारयेत् ॥
निर्वापणं प्रवक्ष्यामि दग्धानां हितमुत्तमम् ॥ १६३ ॥
सुरा सौवीरकं तक्रमम्लं दधि पयस्तथा ॥
क्षीरवृक्षकषायो वा देयः शीतो घृतान्वितः ॥ १६४ ॥
अग्निकर्मसु सर्वेषु शीतीकरणमिष्यते ॥
वर्गः कषायमधुरः सर्पिषा शीतलो हितः ॥ १६५ ॥
प्रपौण्डरीकं मधुकं मरिचं रक्तचन्दनम् ॥
उशीरं पद्मकं लोध्रं मञ्जिष्ठा सुनिषण्णकम् ॥ १६६ ॥
१ ख. ग. वहन्त्यपि । २ क. ख. स्रवन्ति । ३ क. पाण्डवा । ख. पण्डुरा ।
१५
११४ पालकाप्यमुनिविरचितो— [ १ महारोगस्थाने-
मधुकं क्षीरवृक्षाश्च सोमवल्कार्जुनावुभौ ॥
नलवञ्जुलमूलानि पयस्या चोत्पलानि च ॥ १६७ ॥
पयसा कल्कपिष्टानि घृतेन सह योजयेत् ॥
अग्निकर्मक्षतान्पादान्गजस्याऽऽलेपयेद्भिषक् ॥ १६८ ॥
नलिकानलमूलानि शालूकानि विशानि च ॥
प्रपौण्डरीकं मधुकं लोध्रमुत्पलमेव च ॥ १६९ ॥
समभागानि सर्वाणि सलिले परिवासयेत् ॥
एतैः शीतकषायैस्तु पादनिर्वापणं भवेत् ॥ १७० ॥
वारकुम्भीकवृक्षाणां त्वचमारग्वधस्य च ॥
नदीजम्ब्वोश्च मूलानि नलिकाया नलस्य च ॥ १७१ ॥
समभागानि सर्वाणि सलिले परिवासयेत् ॥
एते शीतकषायाः स्युर्दाहनिर्वापणाः स्मृताः ॥ १७२ ॥
उपरूढेषु पादेषु स्थिरता जायते यथा ॥
तथा वक्ष्यामि राजेन्द्र तलानां हितमुत्तमम् ॥ १७३ ॥
धावने त्रिफला कार्या चूर्णं वाऽस्या महीपते ॥
तिलतैलसमायुक्तं स्थिरीकरणमुत्तमम् ॥ १७४ ॥
पिण्डीतकस्य बीजानि चूर्णीकृत्य त्वचा सह ॥
लेपस्तैलेन संयुक्तस्तेनास्य कठिनास्तलाः ॥
शर्करा काष्ठदी(ही)नायां वीथ्या(थ्यां)नागं विचारयेत् ॥ १७५ ॥
तत्र श्लोकौ—
धावनैः स्नेहनैश्चूर्णैश्चर्मकोशैश्च तांस्तलान् ॥
पादरोगप्रशान्त्यर्थं सदा रक्षेत्त बुद्धिमान् ॥ ७६ ॥
क्रियामष्टविधामेनां सम्यक्शास्त्राणि निश्चितम् ॥
प्रयुङ्क्ते यो यथायोगं स भिषक्श्रेष्ठ उच्यते ॥
इत्यब्रवीत्पालकाप्यो राज्ञाऽङ्गेन प्रचोदितः ॥ ७७ ॥ ९९४ ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने महारोगस्थाने
पादरोगोध्यायः षोडशः (पञ्चदशः) ॥ १५ ॥
१ ख. ॰त् ॥ चारुकु॰ । २ क. उपगूढेषु । ३ क. शर्करां । ४ क. मार्गनागं ।
१६ व्यापद्रोगाध्यायः ] हस्त्यायुर्वेदः । ११५
अथ षोडशोऽध्यायः ।
अथातोऽष्टव्यापच्चिकित्सितं व्याख्यास्यामः, इति ह स्माऽऽह भगवान्पाल-
काप्यः । इह खल्वष्टौ व्यापदोऽस्य भवन्ति । तद्यथा—तैलघृतवसाक्षीर-
सुराधान्योदकोपधाभ्यः पक्वामाभ्यां च व्यापद्यते ग्रहणयोगात्तियोगवियो-
गेभ्यः ॥
तत्र विरुद्धरसवीर्यविपाकगुणभेषजानां प्रदानमयोगः । अतिमात्रं प्रदानम-
तियोगः । कफपवनरुधिरपित्तानां प्रकुपितानां वृद्धिकरणं वियोगः । यथा-
वयःप्रकृतिवष्मंसत्त्वसात्म्यदेशकालर्तुमात्राप्रदानं योगः ॥
एवमयोगातियोगवियोगैर्व्यापदामुत्पत्तिं निदानं चिकित्सितं वक्ष्यामः ॥
तत्र रूक्षोऽत्यर्थमजीर्णे कृशोऽतिव्यायामकशितः पित्तप्रकोपि वा तैलं
पायितः सहसा तैलव्यापदमृच्छति । तस्य दुर्बलाग्नेरुदरस्थः स्नेहः शरीरमनु-
सृत्य व्याधिं जनयति ॥
कष्टां हृदयपीडां वेपथुं शूलमाध्मानं मुखशोषं प्राणहानिमुदावर्तं च जनयति ।
ततः शूनान्तनयनः, सस्थूलोच्छ्वासो वालमूर्ध्वमुदस्यति कृच्छ्रेण रुधिरमल्पालपं
च बहुशः पुरीषमुत्सृजति कूजति परिहृष्यति म्लानपेचकश्च भवति ॥
तस्यैवं तैलव्यापन्नस्य चिकित्सितमुपदेक्ष्यामः—पयस्तृ(स्त्रि)वृद्विडङ्गचित्र-
कविल्वैः सह सृ(शृ)तं सुखोष्णमेनं पाययेत् । अथवा—पलाशभस्म परिश्चा-
(स्रा)व्य पिप्पलीचित्रकहिङ्गुभिः सूक्ष्मचूर्णीकृतैः पाकादर्धोदकां सुरां पाययेत् ।
अथवा—अर्कपलाशानां मूलरसं मस्तुना सुरया वा पाययेत् । त्रिफलाविड-
ङ्गानि वा क्वाथं वा सफाणितं पञ्चलवणं पाययेत् । बृहत्योर्वा फलानि मदन-
लशुनकुटजमरिचे लवणपिप्पलीभिर्गोमूत्रपित्ताभ्यां सम्यक्कपाले पाचयित्वा प्रस-
नया सह पाययेत् । मदनबृहतीनां फलानि लवणलशुनानि च पिष्ट्वा क्षौमवस्त्रं
प्रलिप्य वर्ति गुदे प्रणिदध्यात् । ततो निरूहच्युतदोषैः सुविशुद्धहृदयः सुख-
कोष्ठो भवति । एषा चतसृष्वपि स्नेहव्यापत्सु निरूहवर्तिरिष्टा पुरीषसंवर्तना-
र्थम् । अश्वत्थसोमवल्कोदुम्बरप्लक्ष्णाणां त्वचं संक्षुद्य द्रवन्तीपिप्पलीमधुसंयुक्ता-
न्कवलान्दद्यात् । क्रमेणाभ्यङ्गं लघुगमनं च सर्वव्यापत्सु कारयेत् । 'उष्णो-
१ ख. ०त्सितमध्यायं व्या० । २ क. ०त्पत्तिनि० । ३ क. शूलाध्मानं ।
४ क. ०वा प० । ५ ग. ०म्यक्पाच० । ६ क. ०षः स वि० । ७ ख. पुरुष० ।
११६ पालकाप्यमुनिविरचितो— [ १ महारोगस्थाने-
दकं च स्नानपानार्थे दद्यात् । जीर्णावस्थितपुरीषं चावगाहयेत् । *जूर्णपादक-
दम्बशिरीषकरीरजम्बूशल्लक्यरिमेदकसेरुककुरुविन्दानामन्यतमं भोजयेत् ।
सपञ्चलवणं प्रसन्नां पाययेत् । क्रमशश्च शालीनामोदनं मुद्गयूषेण सह
भोजयेत् ।
इति श्रीपालकाप्ये तैल्व्यापत् ॥
कफोचितदेहंः समुपचितमांसमेदाः सर्पिः पायितः सर्पिर्व्यापदमुच्छति । स
कोष्ठसंलीनं विष्टभ्य शैीनसर्पिरवसीदति कफं प्रकोपयति ॥
ततोऽस्य हृदयं पीड्यते । न शक्नोति स्थातुम्, नाभिलषति यवसकवलकुव-
लैपल्लवभोजनानि । स उपदिग्धकरनयनपेचकः संसृजति गात्रं गात्रेण, जलप-
लवच्चातिसार्यते, स्थूलाश्चरप्रगल्भश्च भवति ॥
तस्मै निम्बपत्रत्वक्पटोलानि मधुककरञ्जमधुशिग्रुपूतीकाटारूषकान्, क्षोद-
यित्वा सपञ्चलवणाङ्कवलान्दद्यात् । ततः सपुरीषं सर्पिर्निरूहति । अथवा—
अरलुशिग्रुकरञ्जकरघाटापाटला निम्बदन्तीं द्रवन्तीं च संक्षुण्णान्सपञ्चलवणा-
न्कवलान्दद्यात् । यवमुद्गकुलत्थमाषबदरशणाढकीनां बीजानि निम्बबदरका-
श्मर्यकाणि च द्विपञ्चमूलाभ्यां सह क्वाथयित्वा सपञ्चलवणं क्वाथं पाययेत् ॥
इति सर्पिर्व्यापत् ॥
वसाव्यापदमदानीं वक्ष्यामः । गात्रस्तैम्भव्यायामव्यवायकृते मदबलक्षये
भग्नविहितानां क्षये वा विच्युतोरस्के वातप्रकोपे वा वसा नागेभ्यो दीयते गोम-
हिषवराहाजमत्स्यानामन्यतमस्य । चेन्मांसस्नेहौर्वरहितस्यायोगात्तियोगविपो-
गैर्र्दीयते, ततोऽस्य व्यापदं जनयति ॥
स भवति निमीलिताक्षः, उपदिग्धपेचककरनयनः, पर्यश्रुः, भिन्नपुरीषः,
स्थातुं न शक्नोति, अवसीदति ॥
तस्यैवं वसाव्यापन्नस्य पूतिकाकंकरवीरदन्तीवृ(त्रि) वृत्तचित्रकान्क्षोदयित्वा
निष्क्वाथं सपञ्चलवणं पाययेत् । अथवा—अर्ककटुरोहिणीविश्वभेषजपिप्पली-
मूलदेवदारुहस्तिपिप्पलीविडङ्गदन्तीचित्रकान्निष्क्वाथं सपञ्चलवणं पाययेत् ।
त्रिफलांविडङ्गैः सह संक्षुद्य सक्षौद्रान्कवलान्पुरीषसंवर्तनार्थं दद्यात् । अथवा क्षीर-
वृक्षाणां मधुकारिमेदयोस्त्वचः संक्षुद्य मधुसंयुक्तान्कवलान्दापयेत् । जीर्णे
- 'क' पुस्तके तु 'जूर्ष्णपाद' इति, गपुस्तके तु 'उष्णपाद' इति पाठः। द्वयो-
रपि पुस्तकयोरग्रे तु 'जीर्णपाद' इत्युपलभ्यते ।
१ क. ॰हः सर्पिः । २ क. कोष्ठे सं॰ । ३ क. ख. शीतस॰ । ४ क.
॰लभो॰ । ५ ख. ॰धुसिग्रु॰ । ६ क. ॰स्तम्भे व्या॰।
१६ व्यापद्रोगाध्यायः ] हस्त्यायुर्वेदः । ११७
संक्षौद्रपिप्पलीकेन मुद्गयूषेण भोजयेत् । यवसानि यथोक्तानि दद्यात् । ततः
स्वस्थो भवति ।
इति वसाव्यापत् ॥
अथ यदा वातशोणितपित्तानां विकारैः पीड्यमानस्य दन्तिनः क्षीरपानम-
नुविधेयं भवति तदा, जीर्णे कफप्रकोपे वा पयः पीत्वा क्षीरव्यापदमृच्छति ।
ततः कुष्ठकिटिभदद्रूकिलासपिटकोद्गमाः प्रादुर्भवन्ति, कण्डूश्च परिहृष्टरोमा
न संवीजति विरिच्यते मुखप्रसेकश्चास्य भवति ॥
तस्मै वरुणतिन्दूकोदुम्बरान्मधुसंयुक्तान्कवलान्दद्यात् । अथवा द्राक्षाय-
ष्टीमधुसंयुक्तान्कवलान्दापयेत् । पद्मकमोचरससमङ्गानां वा मधुसंयुक्तान्कवला-
न्भोजयेत् । प्रसन्नां प्रतिपाने च भोजनं मुद्गयूषोदनं दद्यात् । जीर्णपादं शिरी-
षपल्लवांश्च यवसं दद्यात् । एतेन प्रतीकारेण क्षीरव्यापदो मुच्यते द्विपः प्रकृ-
तिस्थशरीरस्तेजस्वी बलवांश्च भवति ॥
इति क्षीरव्यापत् ॥
स्वस्थवृत्तेर्विकारोपशमनार्थं वा यदा सुरा वारणाय प्रदीयते, द्राक्षागुडतैल-
लवणसंयुक्तां केवलां वा प्रसन्नाम्, अथवाऽपि सुरामैजातां तरुणीं स्थानदोषा-
न्वितां विपन्नां वा पीतवतो व्यापदुद्भवंति ॥
ततः प्रेमीलयति, उन्मीलयति, अवलीयते, अत्यर्थं दह्यते, प्रमेहति, संवी-
जति वेपते वमति कूजति परिहृष्यति, अवसीदति च वारणः ॥
गजमवेक्ष्य च्छायास्थं तमेवंगतं विश(?)मृणालोत्पलचन्दननलेतसमूलैर्ज-
म्बूकिशलयैश्च कर्दमोशीरपद्मकशतपुष्पामञ्जिष्ठाभिः श्लक्ष्णपिष्टाभिः प्रलेपयेत् ।
शरीरं सशिरस्कमानखेभ्यो जलार्द्रैर्वस्त्रैः प्रतिच्छाद्य व्यजनैर्वीजयेच्छायास्थितम् ।
ततः स्वस्थो भवति । दाहस्य चास्योपशमो भवति । पारावताम्रदधित्थदाडिमा-
म्रातकबदरपरूषकभव्यलकुचमृद्वीकामातुलुङ्गानि घटेषु सलिलप्लुतानि वासयेद्रा-
त्रिम् । ततः परिश्रा(स्रा)व्य सशर्करासौवर्चलजीरकं प्रतिपानं पाययेत् ।
अम्लवेतसवेत्रफलानि तिन्तिडीकफलानि गुडबदररसैरन्यैर्वाऽप्येवंप्रकारैर्वृक्ष-
भङ्गवल्लीकडंगरैर्भोजयेत् । अम्लां वा यवांगूं रसमांससंस्कृतां सपञ्चलवणां
पाययेत् । सुरां वा सपञ्चलवणामर्धोदकां वा पाययेत् । पिप्पलीमरिचलव-
१ ख. ग. ॰सक्षारपि० । २ क. संजिवति । ३ क. वा समधुयु० । ४ क.
प्रतिपानं । ५ क. ॰मराजतां । ६ प्रलीयतेऽत्यर्थमुन्मी० । ७ क. संजीवत । ८ क.
गतविशं । ९ क. सर्वेश० । १० ख. ॰वागूर० ।
११८ पालकप्यमुनिविरचितो— [ १ महारोगस्थाने-
णान्वितेन ताम्रचूडबर्हिणरसेन भोजयेत् । एतेनोपक्रमेण सुराव्यापदो मुच्यते
द्विरदः ॥
इति मद्यव्यापत् ॥
धान्यव्यापदमिदानीं वक्ष्यामः । पक्वं चाऽऽमं चातिमात्रमजीर्णाध्यंस(श)न-
समशनेषु भोजितो धान्यव्यापदमृच्छति ॥
तस्यातिसारः प्रवर्ततेऽतिमात्रं दुर्गन्धिरामाशयादामः, पक्वाशयाद्विदग्धः ॥
तस्यैवमुत्पन्नव्यापदः सर्वधान्यानि प्रतिषेधयेत् । कवलं यवसैरेव वर्तयेत् ।
(*ततोऽस्याऽऽरग्वधत्रिकटुकचित्रकबिल्वगण्डीराटरूषकदन्तीसर्षपांश्च क्षोद-
यित्वा गोमयसंयुक्तानप्रयच्छेत्कवलान्सक्तुभिर्वा । ततः संपद्यते सुखी ॥
इति धान्यव्यापत् ॥
अथ वारिव्यापदं वक्ष्यामः । अश्रान्तः सहसा पिपासितोऽतिमात्रं सदोषं
शास्त्रार्थमयोगतः पीतं पानीयं व्यापदमृच्छति ॥
तस्यातिसारोऽतिमात्रमुदकयन्त्रवत्प्रवर्तते । जठरमाध्मायते वातबस्तिरिव
सर्वतः पूर्णम् ॥
तस्मै कटुकनिम्बपत्रामलककरञ्जफलत्रयदाडिमाजमोदाविडङ्गप्रियङ्गुहरिद्रा-
तेजोवती) पाठासूक्ष्मसर्षपतगरकुष्ठैलाचव्यांशुमतीदन्तीगण्डीरचित्रकदेवदार्विन्द्र-
यवाजाजिगजपिप्पलासर्जश्रीवेष्टकहिङ्गुवचासैन्धवसुवर्चिकायवक्षारविडसौवर्चले-
रोमकाणि सपिप्पलीमरिचशृङ्गवेरचव्याजमोदानि सूक्ष्मचूर्णीकृतानि प्रसन्नया
पाययेत् । तृणैरेव प्राणं ग्रहणीं च वर्धयेत् । ततः संपद्यते सुखी ॥
इति वारिव्यापत् ॥
परिचारकैरज्ञानाद्वाऽतिलोभादतिसिद्धमसिद्धं वा पर्युषितं वा भोजितवतः
संवत्सरस्थितं सदोषं स्थानदोषान्वितं वा यवसं भक्षितवत उपधाभिर्वा, अवि-
धिप्रयुक्ताभिरयोगतो मध्यमकाले त्वरया पीतवतोऽस्नेहलवणां विधिविहितां वा
विधां प्रयोगातिंयोगवियोगैरुपयुक्तवतो दुःसंप्रयुक्तैरौषधैरतिप्रसक्तिवन्तै(द्वि)र्वा
व्याधिरप्रतिक्रियया वैचापराधाद्वा मदेप्रकृत्याऽवस्थाप्रमाणानुचितपानपिण्डप्र-
योगाद्वा शास्त्रप्रयोगस्योपरोधाद्वा भवत्युपधाव्यापत् ॥
तस्यानाहोऽत्यर्थं भवति । तृष्णा चातिमात्रम्, मुखपरिशोषः, पुरीषभेदः,
* धनुराकारचिह्नमध्यस्थः पाठः कपुस्तके त्रुटितः ॥
१ क. ॰ध्यमन॰ । २ क. ॰लराम॰ । ३ क. ख. ॰कृत्यानिप्र॰ । ४ क.
॰योगातियोगै॰ । ५ क. ॰दनप्र॰ । ६ क. पुरुषभेदः ।
१७ शोफाध्यायः ] हस्त्यायुर्वेदः । ११९
न चाऽऽहारमभिलषति यादृशमुपयुङ्क्ते तादृशं निरूहति तद्वर्णगन्धपुरीषमुत्सृजति
परिमूत्री च भवति । लालाश्रा(स्रा)वी भ्रमति कुप्यति मुह्यति, अवसीदति ॥
तस्यैवंरूपस्य सर्वमाहारं प्रतिषेधयेत्, ऋते च यवसाद्यथोक्तात् । तं त्रिक-
टुकसंयुक्तां सपंचलवणां प्रसन्नां पाययेत् । त्रिफलोबदरपाठाचित्रकक्षणबीजशो-
भाञ्जनकहरिद्राद्वयहिङ्गुसर्षपपत्रिकटुकेन्द्रयवविदारीकरञ्जकटुकमत्स्योम्लिकापि-
चुमन्दाटरूषकसैन्धवसौवर्चलकटुकरोहिणीन्द्रयवकुस्तुम्बरीणुदूखले संक्षुद्य
गोमयसंयुक्तन्कवलान्दद्यात् । क्रमशश्चास्य तृणैरेव प्राणं ग्रहणीं च वर्धयेत् ।
प्रतिषेधयेत्सर्वमन्यत् ॥
इत्युपधाव्यापत् ॥
तत्र श्लोकाः—
युक्तः सदा परीक्षेत वारणे कुशलो भिषक् ।
जीर्णाजीर्णं प्रहर्षं च दौर्मनस्यं बलाबलम् ॥
निदानैः शास्त्रविहितैः सम्यग्व्याधिं परीक्ष्य च ।
यथोक्तेन विधानेन (*चिकित्सितुमपक्रमेत् ॥
इत्यष्टौ व्यापदः सम्यग्वारणानां हितैषिणा ।•
ससंभवा मया प्रोक्ताः सुनिदान)चिकित्सिताः ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने महारोगस्थाने (अष्टौ)
व्यापदध्यापः सप्तदशः ( षोडशः ) ॥ १६ ॥
अथ सप्तदशाध्यायः ।
अथ भगवन्तं महर्षिमभिवाद्य रोमपादः प्रपच्छ पालकाप्यम्—'भगवन्ये
त्वया व्याधिसंख्यायां सप्त (+शोफा उद्दिष्टाः, तेषां के साध्याः, केऽसाध्याः,
कथं वा संभवन्ति, किं वा चिकित्सितम्' इति ॥
पालकाप्य उवाच—'इह खलु भो गजानां सप्त)' शोफाः संभवन्ति ।
तद्यथा—मन्याशोफः, सगदाशोफः, द्रोणीकशोफः, अवच्छिन्नशोफः, शाल्म-
लीस्कन्धशोफः, कदलीस्कन्धशोफः, ⁺गात्रशोफः, शुद्धशोफश्चेति ॥
- धनुराकारमध्यगः पाठः कपुस्तके न ॥ + धनुराकारमध्यगतपाठः खपुस्तके न ।
⁺ अस्य गात्रशोफस्यैव शुद्धशोफता भवेत् । अत एव सप्तसंख्योद्दिष्टा संग्रहाध्याये
गात्रशोफस्यानुल्लेखश्च संगच्छते ॥
१ क. ॰लापद॰ । २ क. ॰त्याक्षीका॰ ।
१२० पालकाप्यमुनिविरचितो— [ १ महारोगस्थाने-
तत्र—मन्याशोफो मन्ययोर्भवति । सगदाशोफः सगदयोर्भवति । द्रोणीक-
शोफ उरोद्रोण्या(म् भवति ।) अवच्छिन्नशोफोऽण्डकोशे (*पायौ नाभ्यां च
भवति । गात्रशोफो गात्रापरयोर्भवति । शाल्मलीस्कन्धशोफो बाह्वन्तरे भवति ।
कदलीस्कन्धशोफः स्कन्धे भवति ॥
तत्र यौ कदलीशाल्मलीस्कन्धशोफौ, स्वनामसंस्थानौ भवतः । केचित्
'कण्ठबाह्वोश्च' इति ब्रुवते । तावसाध्यौ । शुद्धशोफो ग्रीवायामंसयोर्वंशे च सर्व-
का)ये वा भवति । द्वावसाध्यौ मन्यावच्छिन्नशोफौ भवतः, द्रोणीकः प्रायशः ।
एवमेते त्रयो मन्यावच्छिन्नद्रोणीकशोफाः प्रायश एकाकारा भवन्त्युपक्रमतः ।
अभिषङ्ग(ण्ण)स्य च्छवीमाध्मापयन्ति कण्डूं च विविधां जनयन्ति ॥
स एष मन्याशोफः सलिलमिवाभिवर्धते मृदुश्लक्ष्णश्च भवति । तद्यथा मनुष्या-
णामिन्द्रियसंविरोधात्, क्षीरेक्षुगुडदधितिलपललमत्स्याानूपमांसरसभोजना-
द्व्यायामशीलानां कण्ठाश्रया गलगण्डका नाम प्रादुर्भवन्ति, एवमेव खलु
नागानां स्नायुमज्जाभिषन्ना(ण्णा)नां छवीमोध्मापयन्ति । तदेवं स्नायुमज्जा-
ध्माने कण्डूभूते द्विविधा प्रतिक्रिया चैषां भवति—अन्तःप्रतिक्रिया, बाह्यप्र-
तिक्रिया चेति ॥
तत्र श्लोकः—
महांश्चा(प्य)व्यभिचारी च प्राणांश्चापि रुणद्धि वै ।
तस्माद्यत्नेन कुशलस्तस्य कुर्याच्चिकित्सितम् ॥
यस्तत्र शुद्धशोफः स षड्विधो भवति ॥
यः सर्वश्वयथुभूतस्तं निरीक्ष्य यथाविधि ।
शुद्धशोफं तु विज्ञाय भिषकर्म समाचरेत् ॥
तस्य भेदा वातपित्तकफशोणितसंनिपातेभ्य आगन्तवश्चेति । एषामुत्पत्ति-
निदानं चिकित्सितं च पृथक्पृथग्विभागेन वक्ष्यामः ॥
तत्रातिप्ररोधदौर्बल्यादुःस्थानशयनात्कटुकषायरूक्षभोजनादतिकर्मसेवनाच्च
प्रकुप्यति पवनः । स कुपितो मृदु चञ्चलं च शोफं जनयति हस्तिनः । स
सर्वाङ्गसंचारी स्थानात्स्थानविसर्पी शीतस्पर्शी शीते विवर्धते, उष्णे विलीयते,
रूक्षाभ्रश्च भवति ॥
- धनुराकारमध्यगपाठः कपुस्तके न ।
१ क. °द्व्यवायानां शी° । २ क. °माध्याप° । ३ ग. कण्डूते । ४ क.
अतः । ५ क. °कित्सकम् । ६ क. सर्वाङ्गचारी ।
१७ शोफाध्यायः ] हस्त्यायुर्वेदः । १२१
तेन मुह्यति भ्रमति, व्याददाति मुखं गजः, स्तब्धगात्रो गाढमूत्रपुरीषो
भोजनकवलकुवलद्वेषी च भवति ॥
तस्मै तैलपानमभ्यङ्गं च दद्यात् । (*ततः शृङ्गवेरश्योनाकसोमवल्कपिप्प-
लीचित्रककुटजकरवीरार्कखदिरकुष्ठतालीशपत्रैश्चैनं कल्कपिष्टैर्बहलमनुलेप-
येत् । ) अथवा—तिलपिष्टलवणतन्दुलकिण्वेस्तक्रदध्यम्लसिद्धै रात्रिपर्य्युषितैः
प्रलेपयेत् । अथवा—जलचरसत्त्वानां मांसमेदःकदम्बवल्लीबदरमण्डैस्तक्रद-
ध्यम्लसिद्धैः सुखोष्णैरानख्येभ्यः प्रलेपयेत् । अथवा—श्योनाकतालपत्रीमेषशृ-
ङ्गीवंशपत्रिकाकाश्मर्य्यकुलिङ्गाक्षीपाटलीबिल्वारग्वधशोभाञ्जनकक्षुद्रसर्षपैश्चूर्णी-
कृतैस्तक्रदध्यम्लोत्क्वाथितैः प्रलेपयेत् । शुकनासाकाकादनीवरुणकसुवहातिल-
पिष्टाबलातिबलाशोभाञ्जनकबीजक्षुद्रसर्षपैश्चूर्णीकृतैस्तक्रदध्यम्लसिद्धैः सुखो-
ष्णैः प्रलेपयेत् । सामुद्रलवणबदरशतपुष्पाहरिद्राद्वयपुनर्नवाधत्तूरकपत्रचित्रक-
गृहधूपगोमांसैः पञ्चमूलक्वाथतक्रदध्यम्लसिद्धैः सुखोष्णैर्बहुुलमनुलेपयेत् ।
सलवणवालुकया वा श्लेष्मान्तकसंस्पृष्ट्या प्रलेपयेत् । कृशरां वा युक्तस्नेहलवणां
कृत्वा तयैन्न सुखोष्णया प्रलेपयेत् । पूर्वाह्णे चैनं पिप्पलीमरिचशृङ्गवेरचूर्णव्या-
मिश्रितां चिरस्थितां सप्रञ्चलवणां पाययेत्सुराम् । अश्वमूत्रं वा विडङ्गचूर्णसं-
युक्तं पाययेत् । कोद्रवौदनं चैनं सर्षपकल्कव्यामिश्रेण सौवीरकेण भोजयेत् ।
अथवा पिप्पलीमरिचशृङ्गवेरकल्कसंमृष्टेन कुलत्थरसेन भोजयेत् । पार्वतीयं
चास्य यवसमुपहरेत् ॥
तत्र श्लोकौ—
क्रमेणानेन राजेन्द्र यस्तु कुर्यात्क्रियाविधिम् ।
शोफं तस्यापनयति भिषकर्मविशारदः ॥
प्रदेहः स्वेदनाभ्यङ्गैः प्रयत्नः पानभोजनैः ।
यस्तु कुर्याद्द्विपर्पस्तं स हंन्याद्विरदं नृप ॥
इति शुद्धशोफसामान्यप्रतिक्रियापर्यायः ॥
अथ शोफे वातिके स्वेदर्दूर्ध्वं वक्ष्यामः । घटी मृत्तिकानांडीतापिकाफलपिण्ड-
सल्लिललवणपाषाणैः स्वेदयेत् । यथायोगं सुरसासुमनानिर्र्गुण्डीमधुकाको॑रूबूक-
वंशतर्कारीकुलिङ्गाक्षीपत्रभङ्गैस्तिलपिष्टलवणसंयुक्तैर्महास्थाल्यां क्वाथयित्वा
निवाते देशे तैलाभ्यक्तशरीरं नाडीस्वेदेन स्वेदयेत् । एतेनैव च कल्केन मूत्रैः
खरकरभतुरगमहिषाश्वतरवराहाणां स्वेदः कार्यः । अथैषामन्यतमस्य मांसे-
* धनुराकारमध्यस्थपाठः कपुस्तके न ॥
१ क. ०श्र्णितै० ।
१६