सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 123, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 123

नवैवाऽऽगन्तवो रोगाः शेषाः स्युर्दोषसंभवाः ॥
अत ऊर्ध्वं चिकित्सां च लक्षणं च प्रवक्ष्यते ॥ २५ ॥
तत्र चोत्कारकीलिङ्गं वारणस्य प्रवक्ष्यते ॥
यथानिमित्तं मातङ्गः पादव्याधिं नियच्छति ॥ २६ ॥
तृणमूत्रपुरीषाणां पांसूनां कर्दमस्य च ॥
उत्करे तिष्ठति यदा सततं क्वथिते गजः ॥ २७ ॥
तेनास्य पलिपादेषु पवनः परिकुप्यति ॥
दारुणं लभते तेन पादरोगं मतङ्गजः ॥ २८ ॥
नाड्यो वातेन जायन्ते केशा वा भृशदारुणाः ॥
दुःखितस्तेन मातङ्गः स्थाने न लभते सुखम् ॥ २९ ॥
दन्तिनो नखमूलेषु यदा कुप्यति मारुतः ॥
श्लेष्मणा सहितस्तेन कण्डूस्तस्योपजायते ॥ ३० ॥
(*ततः कण्डूयतेऽत्यर्थं करेण सततं करी ॥
तेनावच्छेदनात्केशकारकी नाम जायते ॥ ३१ ॥ )
स्वशरीरसमुत्थानाः काष्ठलोष्ठक्षतादपि ॥
न साध्यन्ते यदा वैद्यैर्व्रणाः पादेषु दन्तिनाम् ॥ ३२ ॥
विसर्पन्ति ततस्तेषां गतपस्तलसंधिषु ॥
नाडीजात इति प्राहुः पादरोगं गजस्य तम् ॥ ३३ ॥
कदम्बपुष्पसंस्थानैः कुठारसदृशैस्तथा ॥
दद्रुभिः कचगुल्मैश्च यदा पादाः समन्ततः ॥ ३४ ॥
द्विरदस्य प्रभिद्यन्ते समन्ताद्गाढवेदनैः ॥
संराष्ट्रकेशं पवनाज्जानीयात्तं नरेश्वरः ॥ ३५ ॥
श्लेष्मशोणितपित्तानां दोषमन्यतमं यदा ॥
संगृह्य पवनो दुष्टो नखमध्येषु तिष्ठति ॥ ३६ ॥
तदा भित्त्वा नखान्केशा जायन्ते भृशदारुणाः ॥
इत्युक्तं नखभेदस्य शास्त्रयोगेन लक्षणम् ॥ ३७ ॥
यदा प्रदुष्टः पवनः पित्तमादाय तिष्ठति ॥ ३८ ॥
नखान्तरेषु सर्वेषु विक्कान्नखशिखासु च ॥
यदा संजायते केशो जापमानश्च पच्यते ॥ ३९ ॥
*धनुराकारमध्यस्थपाठो 'ग' पुस्तके त्रुटितः ॥
१ क. ख. दद्भिः । २ क. यवनो । ३ क. °पु भित्त्वा न°।