सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 129, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 129

११० पालकाप्यमुनिविरचितो— [१ महारोगस्थाने—
कल्कपिष्टानि सर्वाणि तलस्तम्भनमुत्तमम् ॥
सोमवल्कस्य सर्जस्य ककुभाश्मन्तकस्य च॑ ॥ ११२ ॥
( * भल्लातकोदुम्बरपोस्तथाऽश्वत्थकदम्बयोः ॥
आम्रातकाश्वकर्णं च कुम्भीं च क्वाथयेज्जले ॥ ११३ ॥)
पादावशिष्टं कथितं पुनरेवाप्यधिश्रयेत् ॥
किरातमूलं कासीसं हरितालं रसाञ्जनम् ॥ ११४ ॥
तथा सर्जरसं दद्याद्रोहिणीचूर्णमेव च ॥
अपहृत्य च निर्दग्धमपः कुम्भे निधापयेत् ॥ ११५ ॥
ततस्तेन कषायेण व्रणं नागस्य क्षालयेत् ॥
───
अतः परं प्रवक्ष्यामि क्षारकर्मविधिं शुभम् ॥ ११६ ॥
पालाशं क्षारमादाय मुष्ककस्य धवस्य च ॥
कुटजेङ्गुदचाराणां क्षारमारग्वधस्य च ॥ ११७ ॥
कालशुकं ससप्तपर्णं क्षारं सौगन्धिकस्य च ॥
रोध्रकं चिरबिल्वं च शैरीषं कतकं तथा ॥ ११८ ॥
एतान्क्षारान्समाहृत्य हस्तिमूत्रेण संसृजेत् ॥
संसृजेच्चाश्वमूत्रेण गवां मूत्रेण चैकशः ॥ ११९ ॥
पुनः पुनः समासिञ्चेद्यथा स्यात्सुपरिश्रु(स्रु)तम् ॥
परिश्रु(स्रु)तं तु तं क्षारं सुप्रसन्नं ततो भिषक् ॥ १२० ॥
अपः कुम्भे दृढे धीरः शनैर्मेन्दाग्निना पचेत् ॥
सुप्रसन्नं ततो वैद्यः समन्तात्परिघट्टयेत् ॥ १२१ ॥
अनामं चाप्यदग्धं च दर्वीलेपमथोद्धरेत् ॥
अयोमये सापिधाने कलशौ रजतप्रभे ॥ १२२ ॥
तस्मिन्क्षारं समावाप्य स्वनुगुप्तं निधापयेत् ॥
पूर्वोक्तेन कषायेण सुखोष्णेनाथ धावनम् ॥ १२३ ॥
तं कपालिकया गाढं तीक्ष्णया परिघट्टयेत् ॥
सम्यक्प्रक्षालितं केशं कृत्वा निरुदकं ततः ॥ १२४ ॥
───────────────────────────

  • धनुराकारचिह्नान्तर्गतपाठः कपुस्तके न ॥
    ───────────────────────────
    १ क. अपहृत्य । २ ग. शृणु । ३ क. °दवारा° । ४ क. कालंभुकं ।
    ५ क. रौध्रकं । ६ क. °सिन्चीरं ।