हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 140, कुल 742 में से
संदर्भ में पढ़ें१७ शोफाध्यायः ] हस्त्यायुर्वेदः । १२१
तेन मुह्यति भ्रमति, व्याददाति मुखं गजः, स्तब्धगात्रो गाढमूत्रपुरीषो
भोजनकवलकुवलद्वेषी च भवति ॥
तस्मै तैलपानमभ्यङ्गं च दद्यात् । (*ततः शृङ्गवेरश्योनाकसोमवल्कपिप्प-
लीचित्रककुटजकरवीरार्कखदिरकुष्ठतालीशपत्रैश्चैनं कल्कपिष्टैर्बहलमनुलेप-
येत् । ) अथवा—तिलपिष्टलवणतन्दुलकिण्वेस्तक्रदध्यम्लसिद्धै रात्रिपर्य्युषितैः
प्रलेपयेत् । अथवा—जलचरसत्त्वानां मांसमेदःकदम्बवल्लीबदरमण्डैस्तक्रद-
ध्यम्लसिद्धैः सुखोष्णैरानख्येभ्यः प्रलेपयेत् । अथवा—श्योनाकतालपत्रीमेषशृ-
ङ्गीवंशपत्रिकाकाश्मर्य्यकुलिङ्गाक्षीपाटलीबिल्वारग्वधशोभाञ्जनकक्षुद्रसर्षपैश्चूर्णी-
कृतैस्तक्रदध्यम्लोत्क्वाथितैः प्रलेपयेत् । शुकनासाकाकादनीवरुणकसुवहातिल-
पिष्टाबलातिबलाशोभाञ्जनकबीजक्षुद्रसर्षपैश्चूर्णीकृतैस्तक्रदध्यम्लसिद्धैः सुखो-
ष्णैः प्रलेपयेत् । सामुद्रलवणबदरशतपुष्पाहरिद्राद्वयपुनर्नवाधत्तूरकपत्रचित्रक-
गृहधूपगोमांसैः पञ्चमूलक्वाथतक्रदध्यम्लसिद्धैः सुखोष्णैर्बहुुलमनुलेपयेत् ।
सलवणवालुकया वा श्लेष्मान्तकसंस्पृष्ट्या प्रलेपयेत् । कृशरां वा युक्तस्नेहलवणां
कृत्वा तयैन्न सुखोष्णया प्रलेपयेत् । पूर्वाह्णे चैनं पिप्पलीमरिचशृङ्गवेरचूर्णव्या-
मिश्रितां चिरस्थितां सप्रञ्चलवणां पाययेत्सुराम् । अश्वमूत्रं वा विडङ्गचूर्णसं-
युक्तं पाययेत् । कोद्रवौदनं चैनं सर्षपकल्कव्यामिश्रेण सौवीरकेण भोजयेत् ।
अथवा पिप्पलीमरिचशृङ्गवेरकल्कसंमृष्टेन कुलत्थरसेन भोजयेत् । पार्वतीयं
चास्य यवसमुपहरेत् ॥
तत्र श्लोकौ—
क्रमेणानेन राजेन्द्र यस्तु कुर्यात्क्रियाविधिम् ।
शोफं तस्यापनयति भिषकर्मविशारदः ॥
प्रदेहः स्वेदनाभ्यङ्गैः प्रयत्नः पानभोजनैः ।
यस्तु कुर्याद्द्विपर्पस्तं स हंन्याद्विरदं नृप ॥
इति शुद्धशोफसामान्यप्रतिक्रियापर्यायः ॥
अथ शोफे वातिके स्वेदर्दूर्ध्वं वक्ष्यामः । घटी मृत्तिकानांडीतापिकाफलपिण्ड-
सल्लिललवणपाषाणैः स्वेदयेत् । यथायोगं सुरसासुमनानिर्र्गुण्डीमधुकाको॑रूबूक-
वंशतर्कारीकुलिङ्गाक्षीपत्रभङ्गैस्तिलपिष्टलवणसंयुक्तैर्महास्थाल्यां क्वाथयित्वा
निवाते देशे तैलाभ्यक्तशरीरं नाडीस्वेदेन स्वेदयेत् । एतेनैव च कल्केन मूत्रैः
खरकरभतुरगमहिषाश्वतरवराहाणां स्वेदः कार्यः । अथैषामन्यतमस्य मांसे-
* धनुराकारमध्यस्थपाठः कपुस्तके न ॥
१ क. ०श्र्णितै० ।
१६