हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 134, कुल 742 में से
संदर्भ में पढ़ें१६ व्यापद्रोगाध्यायः ] हस्त्यायुर्वेदः । ११५
अथ षोडशोऽध्यायः ।
अथातोऽष्टव्यापच्चिकित्सितं व्याख्यास्यामः, इति ह स्माऽऽह भगवान्पाल-
काप्यः । इह खल्वष्टौ व्यापदोऽस्य भवन्ति । तद्यथा—तैलघृतवसाक्षीर-
सुराधान्योदकोपधाभ्यः पक्वामाभ्यां च व्यापद्यते ग्रहणयोगात्तियोगवियो-
गेभ्यः ॥
तत्र विरुद्धरसवीर्यविपाकगुणभेषजानां प्रदानमयोगः । अतिमात्रं प्रदानम-
तियोगः । कफपवनरुधिरपित्तानां प्रकुपितानां वृद्धिकरणं वियोगः । यथा-
वयःप्रकृतिवष्मंसत्त्वसात्म्यदेशकालर्तुमात्राप्रदानं योगः ॥
एवमयोगातियोगवियोगैर्व्यापदामुत्पत्तिं निदानं चिकित्सितं वक्ष्यामः ॥
तत्र रूक्षोऽत्यर्थमजीर्णे कृशोऽतिव्यायामकशितः पित्तप्रकोपि वा तैलं
पायितः सहसा तैलव्यापदमृच्छति । तस्य दुर्बलाग्नेरुदरस्थः स्नेहः शरीरमनु-
सृत्य व्याधिं जनयति ॥
कष्टां हृदयपीडां वेपथुं शूलमाध्मानं मुखशोषं प्राणहानिमुदावर्तं च जनयति ।
ततः शूनान्तनयनः, सस्थूलोच्छ्वासो वालमूर्ध्वमुदस्यति कृच्छ्रेण रुधिरमल्पालपं
च बहुशः पुरीषमुत्सृजति कूजति परिहृष्यति म्लानपेचकश्च भवति ॥
तस्यैवं तैलव्यापन्नस्य चिकित्सितमुपदेक्ष्यामः—पयस्तृ(स्त्रि)वृद्विडङ्गचित्र-
कविल्वैः सह सृ(शृ)तं सुखोष्णमेनं पाययेत् । अथवा—पलाशभस्म परिश्चा-
(स्रा)व्य पिप्पलीचित्रकहिङ्गुभिः सूक्ष्मचूर्णीकृतैः पाकादर्धोदकां सुरां पाययेत् ।
अथवा—अर्कपलाशानां मूलरसं मस्तुना सुरया वा पाययेत् । त्रिफलाविड-
ङ्गानि वा क्वाथं वा सफाणितं पञ्चलवणं पाययेत् । बृहत्योर्वा फलानि मदन-
लशुनकुटजमरिचे लवणपिप्पलीभिर्गोमूत्रपित्ताभ्यां सम्यक्कपाले पाचयित्वा प्रस-
नया सह पाययेत् । मदनबृहतीनां फलानि लवणलशुनानि च पिष्ट्वा क्षौमवस्त्रं
प्रलिप्य वर्ति गुदे प्रणिदध्यात् । ततो निरूहच्युतदोषैः सुविशुद्धहृदयः सुख-
कोष्ठो भवति । एषा चतसृष्वपि स्नेहव्यापत्सु निरूहवर्तिरिष्टा पुरीषसंवर्तना-
र्थम् । अश्वत्थसोमवल्कोदुम्बरप्लक्ष्णाणां त्वचं संक्षुद्य द्रवन्तीपिप्पलीमधुसंयुक्ता-
न्कवलान्दद्यात् । क्रमेणाभ्यङ्गं लघुगमनं च सर्वव्यापत्सु कारयेत् । 'उष्णो-
१ ख. ०त्सितमध्यायं व्या० । २ क. ०त्पत्तिनि० । ३ क. शूलाध्मानं ।
४ क. ०वा प० । ५ ग. ०म्यक्पाच० । ६ क. ०षः स वि० । ७ ख. पुरुष० ।