सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 139, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 139

१२० पालकाप्यमुनिविरचितो— [ १ महारोगस्थाने-
तत्र—मन्याशोफो मन्ययोर्भवति । सगदाशोफः सगदयोर्भवति । द्रोणीक-
शोफ उरोद्रोण्या(म् भवति ।) अवच्छिन्नशोफोऽण्डकोशे (*पायौ नाभ्यां च
भवति । गात्रशोफो गात्रापरयोर्भवति । शाल्मलीस्कन्धशोफो बाह्वन्तरे भवति ।
कदलीस्कन्धशोफः स्कन्धे भवति ॥
तत्र यौ कदलीशाल्मलीस्कन्धशोफौ, स्वनामसंस्थानौ भवतः । केचित्
'कण्ठबाह्वोश्च' इति ब्रुवते । तावसाध्यौ । शुद्धशोफो ग्रीवायामंसयोर्वंशे च सर्व-
का)ये वा भवति । द्वावसाध्यौ मन्यावच्छिन्नशोफौ भवतः, द्रोणीकः प्रायशः ।
एवमेते त्रयो मन्यावच्छिन्नद्रोणीकशोफाः प्रायश एकाकारा भवन्त्युपक्रमतः ।
अभिषङ्ग(ण्ण)स्य च्छवीमाध्मापयन्ति कण्डूं च विविधां जनयन्ति ॥
स एष मन्याशोफः सलिलमिवाभिवर्धते मृदुश्लक्ष्णश्च भवति । तद्यथा मनुष्या-
णामिन्द्रियसंविरोधात्, क्षीरेक्षुगुडदधितिलपललमत्स्याानूपमांसरसभोजना-
द्व्यायामशीलानां कण्ठाश्रया गलगण्डका नाम प्रादुर्भवन्ति, एवमेव खलु
नागानां स्नायुमज्जाभिषन्ना(ण्णा)नां छवीमोध्मापयन्ति । तदेवं स्नायुमज्जा-
ध्माने कण्डूभूते द्विविधा प्रतिक्रिया चैषां भवति—अन्तःप्रतिक्रिया, बाह्यप्र-
तिक्रिया चेति ॥
तत्र श्लोकः—
महांश्चा(प्य)व्यभिचारी च प्राणांश्चापि रुणद्धि वै ।
तस्माद्यत्नेन कुशलस्तस्य कुर्याच्चिकित्सितम् ॥
यस्तत्र शुद्धशोफः स षड्विधो भवति ॥
यः सर्वश्वयथुभूतस्तं निरीक्ष्य यथाविधि ।
शुद्धशोफं तु विज्ञाय भिषकर्म समाचरेत् ॥
तस्य भेदा वातपित्तकफशोणितसंनिपातेभ्य आगन्तवश्चेति । एषामुत्पत्ति-
निदानं चिकित्सितं च पृथक्पृथग्विभागेन वक्ष्यामः ॥
तत्रातिप्ररोधदौर्बल्यादुःस्थानशयनात्कटुकषायरूक्षभोजनादतिकर्मसेवनाच्च
प्रकुप्यति पवनः । स कुपितो मृदु चञ्चलं च शोफं जनयति हस्तिनः । स
सर्वाङ्गसंचारी स्थानात्स्थानविसर्पी शीतस्पर्शी शीते विवर्धते, उष्णे विलीयते,
रूक्षाभ्रश्च भवति ॥

  • धनुराकारमध्यगपाठः कपुस्तके न ।
    १ क. °द्व्यवायानां शी° । २ क. °माध्याप° । ३ ग. कण्डूते । ४ क.
    अतः । ५ क. °कित्सकम् । ६ क. सर्वाङ्गचारी ।