हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 121, कुल 742 में से
संदर्भ में पढ़ें१०२ पालकाप्यमुनिविरचितो— [ १ महारोगस्थाने-
मूले छिन्ने हताः शाखा भवन्ति हि तदाश्रयाः ॥
तस्माद्द्रोतप्रतीकारः सदा कार्यश्चिकित्सकैः ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने महारोगस्थाने शिरो-
रोगाध्यायः पञ्चदशः ( चतुर्दशः ) ॥ १४ ॥
अथ पञ्चदशाध्यायः ।
रोमपादो महातेजा दृष्ट्वा पादातुरान्गजान् ॥
हस्तिशालासमासीनं पालकाप्यं स्म पृच्छति ॥ १ ॥
भगवन्केन जायन्ते पादरोगाः पृथग्विधाः ॥
संख्यया कति ते प्रोक्ताः किंच तेषां चिकित्सितम् ॥ २ ॥
स्वशरीरसमुत्थानाः केन वा वनचारिणाम् ॥
पादरोगा न जायन्ते तस्मादाचक्ष्व पृच्छतः ॥ ३ ॥
स एवमङ्गराजेन पृष्टो मधुरया गिरा ॥
वचनं प्रत्युवाचेदं पालकाप्यो महामुनिः ॥ ४ ॥
प्रमाणं पादरोगाणां सनिदानं चिकित्सितम् ॥
केचिदेषां दशोच्छन्ति केचिदिच्छन्ति विंशतिम् ॥ ५ ॥
इह त्रिंशतमिच्छन्ति पादरोगांश्चिकित्सकाः ॥
नामतस्तान्प्रवक्ष्यामि सलिङ्गांन्सचिकित्सकान् ॥ ६ ॥
तत्रोत्कारकी प्रथमः कारकी तदनन्तरम् ॥
नाडीजातस्तृतीयः स्यात्ततः संराष्ट्रकेशकम् ॥ ७ ॥
नखभेदं ततो विद्यात्पूयकेशस्ततः परम् ॥
विप्लावकेस्ततस्त्वन्यः केशग्रन्थिः †सविलुकः ॥ ८ ॥
समन्तकेशश्च भवेत्कचकैशश्च कीर्त्यते ॥
कदम्बपुष्पो विज्ञेयः संफुल्लोऽथ कुठारकः ॥ ९ ॥
फुल्लपादस्तैथा ज्ञेयस्ततो भिन्ननखोऽपरः ॥
स्फुटितश्चानुवृद्धतश्च तथाऽन्योऽपि नखो भवेत् ॥ १० ॥
- 'चिकित्सितान्' इति तूचितम् । † 'सविलुतः' इत्येव पाठः साधुः, अग्नि-
मग्रन्थानुरोधात् ॥
१ क. छिन्नो हतः शा° । २ क. °द्वाते प्र° । ३ क. °कस्त्वत° । ४ क.
सुफुल्लो° । ५ क. °स्ततो ज्ञे° । ६ क. °नुवृद्धश्च ।