सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

११ मूर्च्छाध्यायः ] ; हस्त्यायुर्वेदः । ९९
औदकानि च यवसानि मधुरवीर्याणि समृणालानि शर्करासंयुक्तानि भोजयेत् ।
व्याधिशैथिल्ये च पाययेदासवम् । ऐणतित्तिरिलावकानां च मांसरसं पायये-
द्भोजनार्थम् । ततः सुखी भवति पित्तमूर्च्छार्तश्च नागः ॥
इति पित्तमूर्च्छा ॥
यदा च मधुररसवीर्यविपाकभूयिष्ठमाहारयति तदा श्लेष्मा प्रकुपितो हृदय-
मवपीड्य मूर्च्छां जनयति ॥
स भवति नीलवर्णः प्रहृष्टरोमा शीतद्वेषी, उष्णाभिकाङ्क्षी गुरुगात्रः ॥
तं कपित्थाग्रयोर्मूलकल्कं पयसाऽवलोड्य पाययेत् । सर्जार्जुनन्द्रयवधवनि-
म्बगण्डीरारग्वधान्संक्षुद्य सक्षौद्रकान्कवलान्दद्यात् । पापचेलिकावेत्राग्रनिम्बप-
त्रपटोलैः सह सिद्धान्मुद्गान्मोजयेत् । पाययेन्मैरेयम् । आहारे च दापयेच्चूर्णं
पादं शिरीषपल्लवांश्चेति ॥
इति श्लेष्ममूर्च्छा ॥
यदा तु कफपवनपित्तानां संनिपातान्मूर्च्छति ॥
स विभ्रान्तस्ताम्रो राजीवनयनः प्रस्रवत्करश्रोताः पीतनीलहरितश्याम-
वर्णः स्तब्धरोमा स्वरच्छविर्हारिद्रमूत्रोऽनन्नाभिलाषी भृशमस्वस्थशरीरः कफ-
पवनपित्तमूर्च्छानां लिङ्गानि दर्शयति । यन्तारमभिक्रुध्यति ॥
तस्येदं निदानमभिसमीक्ष्यं त्रिवृच्चित्रकविडङ्गचूर्णानि, आमलकरसं च पय-
साऽऽलोड्य पाययेत् ॥ बिल्वफलसुरसाहरिद्रात्रिफलामहौषधीभिः क्वथनसिद्धं
रक्तशालियवागूं सर्षपतैलेन धूपितां पाययेत् ॥ परिणामे च मृगमहिषपेन
भोजयेत् । ततः स्वस्थो भवति ॥
इति संनिपातमूर्च्छा ॥
यदा तु घर्माभितप्तशरीरः, तथैवाभिगतोष्मा सलिलमवगाहते स संनिरुद्ध-
स्वेदोष्मा सहसा मूर्च्छति ॥
स भिन्नविवर्णपुरीषमल्पालपं मुञ्चति । प्रहृष्टरोमा बहुशः प्रमेहति परिपू-
र्णनिष्कोषः, दुर्मनाः स्थातुं न शक्नोति, स्थूलोच्छ्वासी भवति ॥
तस्मै कुमुदकसेरुकोत्पलबिसमृणालपनसानि पक्वानि, यानि चान्यानि
शीतलानि मधुररसवीर्यविपाकान्यार्तवानि यवसानि तानि च शर्करोपहि-
* 'क्वथनसिद्धां' इति पाठः स्यात् ।

१ क. उदकानि । २ क. ०संक्षुट्य स० । ३ क. ०चूर्णपादं । ४ क. -
कफवात्पित्तानां । ५ क. प्रश्वेत्क० । ६ क. ०ओन्नताभि० । ७ क. ख. ग. ०क्ष्य
तृवृ० । ८ ख. कथनं सि० । ९ क. ०वाग्रं स० । १० क. ०ति स्थलो० ।

९६ ' पालकाप्यमुनिविरचितो- [१ महारोगस्थाने-
तानि दापयेत् । सक्तुमन्थं शर्करागुडघृतबदरसंयुक्तं पाययेत् । सेचयेच्च
विमलशिशिरसलिलपूर्णैर्नवघटैरन्तर्मत्स्यपिण्डकैश्च केवलैर्भोजयेत् १ । पीलुपनस-
मोचनालिकेरपियालदाडिममृद्वीकाः सलिलैः संक्षुद्य रात्रिपर्युषितं फाणितसं-
स्कृतमेतत्प्रातः पानं पाययेत् । भव्यपारापतमोचकाशीतकानि संक्षुद्य सलिले
रात्रिपर्युषितमेतत्पानं पाययेत् । रसं च पाययेन्मृगस्य । महिषस्य वा रसेन
भुक्त्वा प्रणोदति वारिमूर्छाम् ॥
इति वारिमूर्छा ॥
सहसाऽतिमसक्तस्यातिमात्रयोगादध्वनो मार्गमूर्छा भवति ॥
स तया शूनस्तब्धोष्णगुरुगात्रोऽन्नानभिलाषी २ स्वप्रकामो भृशमस्वस्थश-
रीरः ॥
तस्य सर्पिषा सर्वसेक इष्यते । ततः सुखोष्णेन सलिलेन परिषिच्य तिल-
सर्षपयवचूर्णैरूत्कारिकां दध्ना ३ सुरया वा पेकां ४ (कृत्वा) तया सुखोष्णया प्रलि-
म्पेत् । मधुफाणितयुक्तानि चास्मै बिसमृणालानीक्षुवेणुपत्राणि च दद्यात् ।
द्विहस्तमात्राश्रयणं मृदुपांथुलं सुखशयनमसंबार्धं कृत्वा पक्षात्पक्षं निषादयेत् ।
ततः फाणितसंस्कृतां प्रसन्नां पाययेत् । जीर्णमत्स्यरसेन कुक्कुटरसेन वा भोज-
येत् । पानं च दद्यात् ॥
इति मार्गमूर्छा ॥
मद्यं स्थानदोषान्वितमतिवृत्तमजातं विपक्वं वा पीतवतो मद्यमूर्छा भवति ॥
स तया वेमति निमीलयत्युन्मीलयति, अवलीयते विभ्रमति परिदह्यति मुह्यति
संतप्ताङ्गः ॥
तमेवमवस्थं दन्तिनमभिसमीक्ष्य विमलशिशिरसलिले निष्कर्दमे सुतीर्थे
ह्रदे शीतच्छायोपगूढे सतीरपादपे विगाहयेत् । इर्वारुबिसमृणालविदारीदाडि-
मदधित्थकसेरुकमातुलुङ्गमरिचसौवर्चलसंयुक्तान्कवलान्भोजयेत् । अतसीधूमचू-
र्णैरधिमस्तूदकसिद्धां ५ सपञ्चलवणामम्लां यवागूं मांसरससुसंस्कृतां पाययेत् ।
सपञ्चलवणां च प्रसन्नां दद्यात् । दापयेच्च वेत्रगुडसमत्स्यण्डिकोपनाहं कुक्कुट-
संयुक्तेन मुद्गयूषेण भोजयेत् । ततः संपद्यते सुखी ।
इति मद्यमूर्छा ।
कुयवसमविशुद्धदेशजं क्रिमिजुष्टं स्थानदोषान्वितं वा यवसं भुंक्तवतो नागस्य यवसमूर्छा भवति ।
१ क. कपालैर्मार्जये० । २ क. ॰श्रोऽन्नपानान० । ३ क. दग्धा । ४ क. पंकं ।
५ ग. उदकं । ६ क. मवनि । ७ क. ॰र्दमदे । ८ क. युक्तवतो ।

१४ शिरोरोगाध्यायः ] हस्त्यायुर्वेदः । ९७
स तया पीडितः स्तब्धकुक्षिः शूलार्तोऽभिवर्तते, निषीदति, वेपते, मुहुर्मु-
हुर्मुखं व्याददाति ।
ततस्तं त्रिफलासैन्धवविडङ्गव्योषगोमयसंयुक्तान्कवलान्भोजयेत् । प्रियङ्गु-
लोध्रमधुसंयुक्तान्कवलान्दद्यात् । दार्वीकं-दं दर्भमूलं सर्मङ्गां मधूरसां पाठां
हिङ्गुबृहत्यौ च क्वाथयित्वा परिस्राव्य रात्रिस्थितमासवं मधुसंयुक्तं पाययेदिति ।
यवसाध्यायप्रोक्तानि यवसानि विचित्राणि दद्यात् । अनैरन्नपानप्रोक्तैश्च भक्तै-
र्विविधैर्बृंहयेदिति ।
तत्र श्लोकः—
सहोत्पत्तिनिदानास्ता मूर्च्छा द्वादश कीर्तिताः ।
सोपक्रमविधानाश्च तव पार्थिव पृच्छतः ॥
इति यवसमूर्च्छा ।
इति श्रीपालकाप्ये गजायुर्वेदमहाप्रवचने महारोगस्थाने मूर्च्छाध्यायश्चतु-
र्दशः ( त्रयोदशः ) ॥ १३ ॥
───
अथ चतुर्दशोऽध्यायः ।
───
आँङ्गो हि वै रोमपादो हस्तिशालास्थं भगवन्तं पालकाप्यमभिबन्द्योवाच—
'भगवन्गजानां शिरोभितापाः कथं संभवन्ति, कति, कथं च साध्यन्ते तन्मे
व्याख्यातुमर्हसि' ।
इत्युक्त उवाच भगवान्पालकाप्यः—इह खलु भो वारणानां सप्त शिरो-
रोगाः संभवन्ति । तद्यथा—वात-पित्त-कफ-रुधिर-संनिपातात्, कृमिभ्योऽ-
भिघाताच्चेति ।
तत्र रूक्षविषमलघुकटुकषायतिक्तभोजनैरनिलः प्रकुपितः शिरोऽवपीड्य
तिष्ठञ्शिरोभितापं जनयति ।
स स्तब्धसगदेमन्यांसपृष्ठशिरोग्रीवानयनः समुन्नद्धोत्तमाङ्गो भवति भ्रमति
चास्य दृष्टिरविला, कर्णस्तम्भः शिरोदाहो मुखशोषश्च भवति, छर्दयति,
मूर्च्छा चास्य भवति, तृष्णा चात्यर्थनेत्रप्रस्रावो वक्त्रस्तम्भः शिरो विधुनोति
दहति रुजति कूजति वेपते करास्पयोरजस्रं रूक्षविशददुर्गन्धो विवर्णं नीलं
हारिद्रवर्णं प्रस्रवति दोषम् ।
───
१ क. ॰ङ्गदोष॰ । २ क. ॰कन्दद॰ । ३ क. ॰मङ्गामधुरमांसे पा॰ । ४ क.
अङ्गो । ५ ख. ॰षयल॰ । ६ क. ॰दनम॰ ।
१३

स्य)!
Excellent!

Line 13 continued:
"कटश्रोतोभ्यां प्रभेदः प्रवर्तते । कराच्चास्य हरिद्रवर्णः स्रवति दोषः,"
Wait, "हरिद्रवर्णः" or "हरिद्रावर्णः"?
There is no aa-matra on 'द्र': "हरिद्रवर्णः".

Line 14:
पच्यते चास्य मुखम्, स्वप्नकामश्च भवति, उष्णशिराः, निमीलिताक्षः, परिगू-

Line 15:
ढान्तनयनः, ) शिरो विधुनोति ( *क्षितितलमभिगम्य, दन्ताभ्यां भूमिं
Wait, L14 ends with "परिगू-", L15 starts with "ढान्तनयनः, )"
Yes!

Line 16:
विलिखति, छविश्चास्य भवत्यत्यर्थमुष्णा। तमेतैर्लिङ्गैः पित्तसमन्वितं शिरोभि )
Wait, look at "भवत्यत्यर्थमुष्णा।":
भवत्यत्यर्थमुष्णा। - no space before danda, then space.

Line 17:
तापं विद्यात् ॥
Yes, शिरोभि ) / तापं विद्यात् ॥

Line 18:
तस्य पूर्वोक्तं विधिं कारयेत् । सर्पिष्पान

१४ शिरोरोगाध्यायः ] हस्त्यायुर्वेदः । ९९
यदा तु वारणो मधुरशिशिरस्निग्धघनविषमविरुद्धभोजनोऽव्यायामशीलः,
तस्योत्तमाङ्गगतः कफः शीर्षाभितापं जनयति ॥
तस्य च करवदनाभ्यां कफः परिश्र(स्र)वति, स संनिमीलित (नयनो
गुरुदृष्टिः कृच्छ्रेणोन्मीलयति स्वप्रपरः कूजति वेपते नदति निर्याणेनावनम्य
भूमिं दन्ताभ्यां विलिखति, शीतद्वेषी, उष्णाभिलाषी । त ) मेतैर्लिङ्गैः श्लेष्म-
विका (
रजं शिरोभितापं विद्यात् ॥
तस्मै तैलपानमभ्यङ्गं च यथायोगं दद्यात् । सुखोष्णेन तैलेन परिषेचयेदुरः-
शि)रःस्कन्धकण्ठस्पदवितोननिर्याणावग्रहगुहाभागैपतस्थानानि बहुशः ।
गुग्गुलुं तगरं पिप्पलीं स्वे(श्वे)तसर्षपं प्रियङ्गुं श्लक्ष्णचूर्णीकृत्य प्रधमनं कुर्यात् ।
करप्रक्षालनं सुखोष्णेन वारिणा कुर्यात् । अथाश्वगन्धातसीकिण्वपिण्याकमुद्ग-
चूर्णसैन्धवानि गोवा(व)राहाजवसाभिस्तैलघृताभ्यां च पाचयित्वा वस्त्राव-
मद्धेन पिण्डस्वेदेन स्वेदयेत् । यवपटोलकिराततिक्तांशुमतीश्यामातेजोवती-
विडङ्गपिप्पलीपिप्पलीमूलनिदिग्धिकाश्वकमूलमूलैः कल्कपिष्टैस्तैलं विपाच्य
नस्यं दद्यात् । पृथवीकोरुवूकविडङ्गबृहतीफलेक्षुदैः सूक्ष्मचूर्णीकृतैः ससर्पिष्कै-
र्धूपं दद्यात् । एतैरेवौषधैस्तैलं विपाच्य नस्यं दद्यात् । यवसानि च गिरि-
शुष्काणि कफप्रशमनानि च दद्यात् ॥
इति कफजः शिरोरोगः ॥
यदा तु रुधिरं पित्तप्रकोपहेतुभिः प्रकुपितं शीर्षाभितापं जनयति ॥
तदा निमीलिताक्षः परिशूनान्तनयनः, सरक्ता च लाला हस्तात्प्रवर्तते ।
पित्तलिङ्गं प्रायः, ध्यानशीलः ॥
तस्य श्वकभृङ्गराजतगरफणिज्जकेषु सुरामण्डयुक्तेषु तैलं विपाच्य नस्यं
दद्यात् । पिण्डस्वेदेन च स्वेदयेत् । अर्कपत्रभङ्गानि काथेन च स्वेदयेत् । लोध्र-
मधुकमञ्जिष्ठानीलिकाभिः सूक्ष्मचूर्णीकृताभिः प्रधमनं कुर्यात् । करप्रक्षालनं
चास्य सृ(शु)तशीतेन पयसा मृद्वीकाशर्कराचूर्णसंसृष्टेन कारयेत् । यवसानि
यथोक्तानि च दापयेत् ॥
इति रक्तजः शिरोरोगः ॥
अथ वातपित्तरुधिरकफानां समस्तानि लिङ्गानि दर्शयति, तदा सांनिपातिकं
शीर्षाभितापं विद्यात् । तस्य प्रत्याख्येयस्यापि सतः पुरुषकारप्राधान्याद्वैरस्यं

  • धनुराकारचिह्नान्तर्गतपाठः कपुस्तके नास्ति ।
    १ क. ०तानि० । २ क. ०गपत० । ३ क. ०लिङ्गः प्रा० । ४ क. शीर्षा-
    भितापं । ५ क. ०वस्यान्त्या० ।

१०० पालकव्यमुनिविरचितो— [ १ महारोगस्थाने-
(र्धं) व्याधिप्रमोक्षपरेण भवितव्यमित्येतां बुद्धिं पुरस्कृत्य चिकित्सेतुमारभते
तस्य पूर्ववत्पवनमेवाऽऽदावुपक्रमेत। स हि सर्वत्रानुपहतगतिः कफपित्तास्रक्रम-
वर्तकः प्राणो विचारी। ततः पित्तं दहति पचति तीक्ष्णतरमग्निरिव यत्नेनोपच-
र्येम्। रुधिरमप्यभिद्यौतं सदुष्टमाहारदूषितं च पित्तवदुपचर्यम्, कदाचिद्विसर्पति
विसर्पवत्, कफस्तु घनगुरुशिशिरो विसर्पिभावान्सन्धिशिरास्नायूनवपीड्य प्राणो-
परोधं कुरुते। तस्माद्वातपित्तकफरक्तश्लेष्मणां चिकित्सां कुर्यात्। उल्बणं वा
व्याधिं प्राणहरमभिसमीक्ष्य दोषमसंभ्रान्तः शमयेत्। गौरवं जाड्यतां वाऽऽपा-
दयति। तस्मादन्तेऽसावप्यवश्यं चिकित्स्य इति ॥
यस्त्वत्यर्थं दूष्यत्याकुञ्चति वेपते दन्ताभ्यां भूमिं स्पृशति विधुनोति बृंहते।
तमेतैर्लिङ्गैः सांनिपातिकं शिरोभितापं विद्यात् ॥
तस्मै सर्पिस्तैलवसापानं दद्यात् । श्वेतसर्षपपिप्पलीपयोघृताभ्यां स्निग्धेन
पिण्डस्वेदेन स्वेदं कुर्यात्। द्विपञ्चमूलकुलत्थयवबदरशतावरीश्वदंष्ट्रोशीरबलाति-
विषावसु कनिष्पावकाश्मर्याग्निमन्थनिष्क्वाथेन घृतमण्डं विपाचयेत् । तत्रावाप-
मनन्तागिरिकर्णिकेन्द्रयवशुकनासातालपत्रीबीजानि वा क्षुद्रसहानां कल्केन
ततो विपाच्य सॅम्यग्ग्रस्तः कर्माभ्यञ्जनं च कुर्यात् । सदारुहरिद्रामेदफलेवृषभ-
मोदानीवचाहरिद्राद्वयश्रीपर्णीगोवन्दनीटिण्टूकहिङ्गुहरितालमनःशिलास्नुह्यर्कवं-
शपत्राणि दन्तीं च पिष्ट्वा सर्जरसेन शोनाककाष्ठमुपलिप्य क्षौमवाससा वर्ति-
(तिं) छापायां (*शोषा॑पयित्वा धूपमेनं पाययेत् । दिव्येऽम्भसि दध्नि च सिद्धं
मयूराणां लावकानां वा रसं) पाययेत् । भोजयेच्च वारणं यवसानि, विचित्रा-
ण्यार्तवानि च भोजयेत्, सांनिपातिकशीर्षाभितापप्रशान्त्यर्थम् ॥
इति सांनिपातिकः शिरोभितापः ॥
अथ यदा तु मधुराम्ललवणयवसकुवलकव्लभोजनादृतुविपर्यासाद्वा
निशाजागरणात्, स्थलस्य चातिप्रसक्तरंसोपयोगाच्च दुष्टपानीयपानाद्वा कफरु-
धिरे प्रकुप्यतो हस्तिनः। ते प्रकुपिते ऊर्ध्वमागम्य शिरोऽवष्टभ्य कृमीञ्शि-
रसि जनयतः। ततस्ते नागस्य कृमिजं शिरोभितापं जनयन्ति ॥
शिरसि तेन दोदूयमा(*नः स(श)राकारतटवृक्षगृहकपाटकूट्यवल्मीकस्त-
म्भादीञ्शिरसा हन्तुमिच्छति, बहुशश्च व्याददाति मुखम्, पुनः पुनर्बृंहति

  • धनुराकारचिह्नान्तर्गतपाठः कपुस्तके नास्ति ॥
    १ क. °त्सितमा° । २ क. °घातस्य दु°। ३ क. °त् । श्लेष्मस°। ४ क.
    सम्यग्रस्तः । ५ क. °लत्रिवृ° । ६ क. °गोरोचन्दना । ख. °गोचन्दना । ७ क.
    दत्त्वा । ८ क. °रोविष्ट° ।

१४ शिरोरोगाध्यायः ] हस्त्यायुर्वेदः । १०१
विधुनोति शिरोऽभीक्ष्णं, निश्वसतश्चास्य करान्निपतन्ति कृमयः श्लक्ष्णरोमा) णः
कफरुधिरसंभवप्रायाः, शिरसि ताडितश्च सुखायते । तं कृमिप्रचपकृतं शीर्षा-
भितापं विद्यात् ॥
तस्मै शृङ्गवेरकुटजकुष्ठमरिचातिविषापिप्पलीभिः सवार्ताकंसर्षपाभिः श्लक्ष्ण-
पिष्टाभिर्नस्यं प्रधमनं कुर्यात् । करप्रक्षालनं चास्य प्रसन्नया । भद्रदारुमरिच-
शृङ्गवेरपिप्पलीसरलसर्षपचित्रकसैन्धवैर्धूपनं कुर्यात् । अथवा त्रिकटुककरञ्ज-
निम्बपत्रामलकचित्रकविभीतकरहरिद्राभिर्धूपनं कुर्यात् । बृहतीफलकासीसकुष्ठ-
सुवर्चिकाविडङ्गरसोनगिरिकर्णिकापिचुमन्दमूलहिङ्गुवचैलाफणिज्जकमरिचैर्गोमू-
त्रपिष्टैस्तैलं पक्त्वा सुखोष्णं नस्यं दद्यात् । अथवा हरिद्रामार्कवतगरकुष्ठव-
चापुनर्नवैः कल्कपिष्टैस्तैलं पक्त्वा सुखोष्णं नस्यं दद्यात् । जाङ्गलैश्च यवसै-
स्तिक्तकटुप्रायैः पिचुमन्दपिप्पलीमरिचशृङ्गवेरयुक्तैः सिद्धैर्मुद्गैर्मधुघृतसंसृष्टैर्भोज-
नपानयोरुपचर्यमाणः प्रणुदति कृमिजां रुजं शिरोभितापः ॥
इति कृमिजः शिरोभितापः ॥
अथ(तोऽभिघातजः शिरोरोगः । स लोष्टाश्मर्मुशलाङ्कुशप्राजनदण्डवृक्षशा-
खाभिः प्रतिहस्त्यभिघाताद्वा शिरोभितापः संभवति ॥
ततः प्रस्तब्धकरकर्णचरणो ध्यानपरः शूननयनमुखशिरोग्रीवास्कन्धपूर्व-
कायसगदावितानावग्रहकटो नातिकिंचिदपि दुर्मनाः ॥
तस्य सर्वसेको घृतमण्डेनेष्टः । विमलशिशिरसलिलावगाहः, प्रदेशश्च पत्रो-
शीरमधुकमञ्जिष्ठादेवदारुसुनिषण्णकैलातगरवञ्जुलोत्पलतामरसबिसमृणालक-
ह्लारपयस्याकर्कटशृङ्गीप्रपौण्डरीकवर्धनमानकवेतससरलगुन्द्राक्षीरवृक्षत्वक्शतपु-
ष्पाह्लीवेरचन्दनसारिवालोध्रपद्मकुस्तुम्बुरुशैलेयामलकमांसीव्याघ्रनखपरिपेलवा-
भयाहरेणुकादेवदारुशितकर्णकैः क्षीरपिष्टैर्घृतप्रदिग्धैर्बहुशः प्रलेपयेत् । स्थानं
च सुशीतलं गोमयोपलिप्तं कालर्तुकुसुमनोभिः प्रकीर्णम् । शिरसि मध्ये च वारि-
परिपूर्णा दृ तयः स्रवेयुः । यवसैश्च मृदुभिरार्तवैर्हरितैर्बृंहयेत् । रसैश्च स्निग्धम-
धुरैर्जाङ्गलैर्मांसजैर्भोजयेदिति ॥
तत्र श्लोकौ भवतः—
शिरोभितापा नागानां प्रायशो वातसंभवाः ॥
कफशोणितपित्तानां वायुरेव प्रवर्तकः ॥
१ क. ॰लीशृ॰ । २ क. ॰कायसंग॰ । ख. ॰कायः स॰ । ३ क. ॰शिराव॰ ।
४ क. ॰न्द्राक्षार॰ । ५ क. ख. ॰पुष्पीह्री॰ । ६ क. ख. ॰रुसैले॰ ।

१०२ पालकाप्यमुनिविरचितो— [ १ महारोगस्थाने-
मूले छिन्ने हताः शाखा भवन्ति हि तदाश्रयाः ॥
तस्माद्द्रोतप्रतीकारः सदा कार्यश्चिकित्सकैः ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने महारोगस्थाने शिरो-
रोगाध्यायः पञ्चदशः ( चतुर्दशः ) ॥ १४ ॥
अथ पञ्चदशाध्यायः ।
रोमपादो महातेजा दृष्ट्वा पादातुरान्गजान् ॥
हस्तिशालासमासीनं पालकाप्यं स्म पृच्छति ॥ १ ॥
भगवन्केन जायन्ते पादरोगाः पृथग्विधाः ॥
संख्यया कति ते प्रोक्ताः किंच तेषां चिकित्सितम् ॥ २ ॥
स्वशरीरसमुत्थानाः केन वा वनचारिणाम् ॥
पादरोगा न जायन्ते तस्मादाचक्ष्व पृच्छतः ॥ ३ ॥
स एवमङ्गराजेन पृष्टो मधुरया गिरा ॥
वचनं प्रत्युवाचेदं पालकाप्यो महामुनिः ॥ ४ ॥
प्रमाणं पादरोगाणां सनिदानं चिकित्सितम् ॥
केचिदेषां दशोच्छन्ति केचिदिच्छन्ति विंशतिम् ॥ ५ ॥
इह त्रिंशतमिच्छन्ति पादरोगांश्चिकित्सकाः ॥
नामतस्तान्प्रवक्ष्यामि सलिङ्गांन्सचिकित्सकान् ॥ ६ ॥
तत्रोत्कारकी प्रथमः कारकी तदनन्तरम् ॥
नाडीजातस्तृतीयः स्यात्ततः संराष्ट्रकेशकम् ॥ ७ ॥
नखभेदं ततो विद्यात्पूयकेशस्ततः परम् ॥
विप्लावकेस्ततस्त्वन्यः केशग्रन्थिः †सविलुकः ॥ ८ ॥
समन्तकेशश्च भवेत्कचकैशश्च कीर्त्यते ॥
कदम्बपुष्पो विज्ञेयः संफुल्लोऽथ कुठारकः ॥ ९ ॥
फुल्लपादस्तैथा ज्ञेयस्ततो भिन्ननखोऽपरः ॥
स्फुटितश्चानुवृद्धतश्च तथाऽन्योऽपि नखो भवेत् ॥ १० ॥

  • 'चिकित्सितान्' इति तूचितम् । † 'सविलुतः' इत्येव पाठः साधुः, अग्नि-
    मग्रन्थानुरोधात् ॥
    १ क. छिन्नो हतः शा° । २ क. °द्वाते प्र° । ३ क. °कस्त्वत° । ४ क.
    सुफुल्लो° । ५ क. °स्ततो ज्ञे° । ६ क. °नुवृद्धश्च ।

१९ पादरोगोध्यायः ] हस्त्यायुर्वेदः । १०३
शरनद्धोऽथ विज्ञेयो दर्दुकेशश्च¹ दन्तिनः ॥
प्रगुल्मिकेशो गम्भीरस्तथा चर्मतलोऽपरः ॥ ११ ॥
क्षतो निर्मूलितश्चैव तथा केशः सलोहितः ॥
स्थाण्वाहतः क्षीणतलस्तथा *चाभ्यन्तरीकृतः ॥ १२ ॥
निष्पिष्टो मांसकेशश्च तथा स्थानरतोऽपरः ॥
इति रोगसमुद्देशः कीर्तितः पृथिवीपते ॥ १३ ॥
तत्र तावत्प्रवक्ष्यामि गजानां वनवासिनाम् ॥
पादरोगा न जायन्ते स्वशरीरोत्थिता यथा ॥ १४ ॥
प्रकृतिः परिसर्या हि वनेषु वनचारिणाम् ॥
न तिष्ठति ततस्तेषां शोणितं तलसंधिषु ॥ १५ ॥
पवनः प्रकृतिं याति श्लेष्मा चैषां विशुध्यति ॥
पित्तं प्रसन्नतां याति ततो गच्छति भूमिप ॥ १६ ॥
पादरोगा न जायन्ते तेनेह वनचारिणाम् ॥
ग्राम्याणां पारवश्यत्वादालानष्वेव तिष्ठताम् ॥ १७ ॥
प्रायः पादा विनश्यन्ति सततं स्थानसेवया ॥
सप्तमीं तु दशां प्राप्तान्वयोतीतांस्तु वारणान् ॥ १८ ॥
पादरोगाः प्रबाधन्ते विशेषेणे²ह पार्थिव ॥
व्याप्य सर्वशरीरं हि शिराः सर्वाः समन्ततः ॥ १९ ॥
सहिताः स्नायुजालेन चरणेषु प्रतिष्ठिताः ॥
गुलिकास्थिसमूहश्च यस्मात्पादेषु दन्तिनाम् ॥ २० ॥
रोगा ये तत्र जायन्ते तस्मात्ते दारुणाः स्मृताः ॥
इति त्रिंशदिमे प्रोक्ता द्विविधा रोगसंख्यया ॥ २१ ॥
स्वशरीरसमुत्थाश्च भवन्त्यागन्तवस्तथा ॥
तेषामपि विभागं तु क्रमयोगात्प्रचक्षते ॥ २२ ॥
तत्र निर्मूलितनखः क्षत (:) क्षीणतलस्तथा ॥
स्थाणुनाऽभिहतश्चैव शरनद्धश्च यो भवेत् ॥ २३ ॥
उत्कारकी स्थानरतो विनिष्पिष्टतलस्तथा ॥
अनुद्धतनखश्चैव स्युरेते शास्त्रनिश्चयात् ॥ २४ ॥

* 'चान्यः क्षरीकृतः' इति पाठ उचितः, अग्रिमग्रन्थानुरोधात् ।

१ क. ख. दर्दुकै° । २ क. षणेण च पा° । ३ ग. °णनखस्त° ।

नवैवाऽऽगन्तवो रोगाः शेषाः स्युर्दोषसंभवाः ॥
अत ऊर्ध्वं चिकित्सां च लक्षणं च प्रवक्ष्यते ॥ २५ ॥
तत्र चोत्कारकीलिङ्गं वारणस्य प्रवक्ष्यते ॥
यथानिमित्तं मातङ्गः पादव्याधिं नियच्छति ॥ २६ ॥
तृणमूत्रपुरीषाणां पांसूनां कर्दमस्य च ॥
उत्करे तिष्ठति यदा सततं क्वथिते गजः ॥ २७ ॥
तेनास्य पलिपादेषु पवनः परिकुप्यति ॥
दारुणं लभते तेन पादरोगं मतङ्गजः ॥ २८ ॥
नाड्यो वातेन जायन्ते केशा वा भृशदारुणाः ॥
दुःखितस्तेन मातङ्गः स्थाने न लभते सुखम् ॥ २९ ॥
दन्तिनो नखमूलेषु यदा कुप्यति मारुतः ॥
श्लेष्मणा सहितस्तेन कण्डूस्तस्योपजायते ॥ ३० ॥
(*ततः कण्डूयतेऽत्यर्थं करेण सततं करी ॥
तेनावच्छेदनात्केशकारकी नाम जायते ॥ ३१ ॥ )
स्वशरीरसमुत्थानाः काष्ठलोष्ठक्षतादपि ॥
न साध्यन्ते यदा वैद्यैर्व्रणाः पादेषु दन्तिनाम् ॥ ३२ ॥
विसर्पन्ति ततस्तेषां गतपस्तलसंधिषु ॥
नाडीजात इति प्राहुः पादरोगं गजस्य तम् ॥ ३३ ॥
कदम्बपुष्पसंस्थानैः कुठारसदृशैस्तथा ॥
दद्रुभिः कचगुल्मैश्च यदा पादाः समन्ततः ॥ ३४ ॥
द्विरदस्य प्रभिद्यन्ते समन्ताद्गाढवेदनैः ॥
संराष्ट्रकेशं पवनाज्जानीयात्तं नरेश्वरः ॥ ३५ ॥
श्लेष्मशोणितपित्तानां दोषमन्यतमं यदा ॥
संगृह्य पवनो दुष्टो नखमध्येषु तिष्ठति ॥ ३६ ॥
तदा भित्त्वा नखान्केशा जायन्ते भृशदारुणाः ॥
इत्युक्तं नखभेदस्य शास्त्रयोगेन लक्षणम् ॥ ३७ ॥
यदा प्रदुष्टः पवनः पित्तमादाय तिष्ठति ॥ ३८ ॥
नखान्तरेषु सर्वेषु विक्कान्नखशिखासु च ॥
यदा संजायते केशो जापमानश्च पच्यते ॥ ३९ ॥
*धनुराकारमध्यस्थपाठो 'ग' पुस्तके त्रुटितः ॥
१ क. ख. दद्भिः । २ क. यवनो । ३ क. °पु भित्त्वा न°।

१९ पादरोगोध्यायः ] हस्त्यायुर्वेदः । २०६
अजस्रश्र(स्र)वणाच्चास्य पूयकेशत्वमिष्यते ॥
इत्येतल्लक्षणं प्रोक्तं पूयकेशस्य दन्तिनः ॥ ४० ॥
नखान्तराणि सर्वाणि तलाः सतलसंधयः ॥
पच्यन्ते सहसा यस्य विसर्पन्ति च सर्वशः ॥ ४१ ॥
पुनश्चैवोपरोहन्ति भिद्यन्ते च पुनः पुनः ॥
केशो विप्लावकश्चैष पित्तासृग्वातसंभवः ॥ ४२ ॥
विप्लुता यस्य लक्ष्यन्ते केशैश्च तलसंधयः ॥
(*सग्रन्थिभिर्वातरक्तोत्केशग्रन्थिः सविप्लुतः ॥ ४३ ॥
कुपितः पित्तमादाय यदा तिष्ठति मारुतः ॥
तलसंधिषु नागस्य तेन केशोऽस्य जायते ॥ ४४ ॥
सरुजः सपरीदाहः क्षिप्रपाकी विसर्पकः ॥
पच्यन्ते सहसा तस्य समन्तात्तलसंधयः ) १॥ ४५ ॥
समन्तकेशं जानी

२ क. ख. ॰दः सर० ।
Wait, look at footnote 3: ३ क. ॰भिजाता० । (for line 17: जायन्ते -> संजाताः or अभिजाताः).
So footnote 2 is between line 7 and line 17!
Where could footnote 2 belong?
Options between line 7 and line 17:

  • line 8: पादरोगो विनिश्चितः
  • line 10: सोऽनुद्धतनखो भवेत्
  • line 12: शर... तदा नागः पादव्याधिं नियच्छति
  • line 16: दद्रुकेशः स विज्ञेयस्तेन लिङ्गेन दन्तिनः
    Wait! What about line 12: पादव्याधिं नियच्छति? No, what about line 2? No, line 2 is verse 54, too early.
    Wait, look at footnote 2: ॰दः सर०!
    Could it be पादव्याधिं -> पादः सरुक्?
    What about line 12 first word: शरनद्धं? Look at it:
    श - र - न - द्धं
    Wait! Is that नद्धं

[अ० ५ पादरोगोध्यायः ] हस्त्यायुर्वेदः । १०७

दन्तिनां मोहदेशेषु विकानखशिखासु च ॥
तेन केशा विवर्धन्ते तत्र शोणितसंभवः ॥ ६९ ॥
शोणितक्षरणाच्चैषां रक्तकेशत्वमिष्यते ॥
वनपर्वतदुर्गेषु चरतां दन्तिनां यथा ॥ ७० ॥
स्थाणुना भिद्यते पादः स तु स्थाणवाहतो भवेत् ॥
लोष्टाश्मकण्टकाकीर्णां यदा संचार्यते महीम् ॥ ७१ ॥
शराधानवतीं वाऽतितप्तं वा बहुशो गजः ॥
तस्य तेनोपतापेन दुष्यन्ति तलसंधयः ॥ ७२ ॥
क्षीयन्ते च तला गाढं स तु क्षीणतलो भवेत् ॥
प्रतिघ्नतो यदा यातुस्तिष्ठत्याक्रम्य शर्कराः ॥ ७३ ॥
मन्दं गच्छति पर्यश्रुः पथि क्षीणतलो गजः ॥
तस्य क्षीणतलस्येह तलेभ्यः पूपशोणिते ॥ ७४ ॥
क्षरतः स तु विज्ञेयः पादरोगः क्षरीकृतः ॥
• विनिष्पिनष्टि यः क्रुद्धो मुहुः पादतलं गजः ॥ ७५ ॥
शर्कराशरधानेषु लोष्टाश्मगहनेषु च ॥
तस्य पार्ष्णिप्रदेशेषु शोणितं संप्रदुष्यति ॥ ७६ ॥
प्रदुष्टं जनयेद्व्याधिं गजस्य भृशदारुणम् ॥
निष्पिष्टतलमित्याहुः पादरोगं चिकित्सकाः ॥ ७७ ॥
अत ऊर्ध्वं प्रवक्ष्यामि मांसकेशस्य लक्षणम् ॥
नखान्तरेषु सर्वेषु विकानखशिखासु च ॥ ७८ ॥
यदा संजायते केशो मांसं प्राप्तः सुदारुणः ॥
गम्भीरमूलकठिनो बहुलो गुरुवेदनः ॥ ७९ ॥
मांसकेशः स विज्ञेयः पादरोगश्चिकित्सकैः ॥
क्रोधाद्भयाद्धा मातङ्गं यदा तु परिचारकाः ॥ ८० ॥
न नयन्त्यवगाहं च शय्यायां नापि नाध्वनि ॥
स्थान एव निबद्धस्य कवलं पल्लवं जलम् ॥ ८१ ॥
तृणं चैव प्रयच्छन्ति विधां च लवणानि च ॥
तस्य कुप्यति पादेषु चिरस्थानेन मारुतः ॥ ८२ ॥
स्फेटन्ति सर्वतश्चास्य तलाः सतलसंधयः ॥
नखान्तराणि भिद्यन्ते मोहौ निर्भुजतस्तथा ॥ ८३ ॥


१ क. ०पि नोऽध्व० । २ क. स्फुटन्ति ।

१०८ पालकाप्यमुनिविरचितो— [ १ महारोगस्थाने—
तं स्थान¹रतमित्याहुः सततं स्थानसेवया ॥
इति त्रिंशदिमे प्रोक्ताः पादरोगाः सलक्षणाः ॥ ८४ ॥
चिकित्सितं² यथा येषां विस्तरेण प्रवक्ष्यते³ ॥
शस्त्राग्निक्षारचूर्णानि धावनालेपनानि च ॥ ८५ ॥
स्नेहनं चान्ववेक्षा⁴ च क्रियाविधानमष्टधा ॥
कुठारपादः स्थानरतः केशग्रन्थिः सविप्लुतः ॥ ८६ ॥
समन्तकेशः संराष्ट्रकेशो विप्लुवकश्च यः ॥
असाध्याः पादरोगाः स्युः षडेते शास्त्रनिश्चयात् ॥ ८७ ॥
अत ऊर्ध्वं तु याप्यांश्च साध्यांश्च शृणु पार्थिव ॥
कदम्बपुष्पः संकचः⁵ प्रफुल्लः फुल्ल एव च ॥ ८८ ॥
चत्वार एते याप्याः स्युः पादरोगा नरेश्वर ॥
नखभेदो भिन्ननखो निर्मूलितनखस्तथा ॥ ८९ ॥
स्खलितश्चानुद्वतश्च⁶ कृच्छ्रसाध्यास्तु ते स्मृताः ॥
पूयकेशः प्रगुल्मी च रक्तकेशश्च पार्थिव ॥ ९० ॥
एतेऽपि दुश्चिकित्स्यास्तु मांसकेशश्च यः स्मृतः ॥
स्खलितो नखभेदश्च केशो भिन्ननखश्च यः ॥ ९१ ॥
उत्कारकी सगम्भीरः साध्याः पञ्चाग्निकर्मणा ॥
कारकी दद्रुकेशश्च मांसकेशश्च पार्थिव ॥ ९२ ॥
प्रगुल्मी चेति चत्वारः क्षारसाध्याश्चिकित्सकैः ॥
क्षतो निर्मूलितश्चैव पूयकेशः सलोहितः ॥ ९३ ॥
नाडीजातश्च विज्ञेयः शरनद्धश्च यो भवेत् ॥
स्थाण्वाहृतश्च सप्तैते साध्याः स्युः शस्त्रकर्मणा ॥ ९४ ॥
क्षरीकृतः क्षीणतलस्तथा चर्मतलश्च यः ॥
निष्पिष्टतल इत्येते चत्वारः पृथिवीपते ॥ ९५ ॥
अप्रमत्तेन भिषजा साध्याः स्युर्मूलकर्मणा ॥
असाध्याश्चैव याप्याश्च साध्याश्चैव यथा यथा ॥ ९६ ॥
कीर्तिताः पृथिवीपाल चिकित्सितमतः शृणु ॥
द्वावेतौ सहजौ रोगौ सुफुल्लः फुल्ल एव च ॥ ९७ ॥
१ क. ॰नतरमि॰ । २ ख. ग. ॰तं तथाऽप्येषां । ३ क. प्रचक्षते । ४ क.
चान्त्र वक्ष्या च । ५ क. सवचः । ६ क. ॰नुवृत्तश्च । ग. ॰नुद्धृत॰ ।

११ पादरोगोध्यायः ] हस्त्यायुर्वेदः । १०९
एतयोः स्वेदनं कार्यमभ्यङ्गश्चैव नित्यशः ॥
कदम्बपुष्पकेशश्च कचकेशश्च यो भवेत् ॥ ९८ ॥
घृतं लवणसंयुक्तं नित्यमभ्यञ्जनं हितम् ॥
गोमूत्रं वाऽश्वमूत्रं च खरमूत्रं तथैव च ॥ ९९ ॥
त्रिफलासोमवल्कानां निष्क्वाथः पादधावनम् ॥
भल्लातकानां तैलं च तिलतैलं घृतं वसा ॥ १०० ॥
पादरोगेषु नागानां स्नेहनं हितमुत्तमम् ॥
प्रियङ्गुतगरं कुष्ठं तेजोह्वा रजनीद्वयम् ॥ १०१ ॥
वचासैन्धवसंयुक्तं घृततैलसमन्वितम् ॥
सर्वेषां पादरोगाणां केशशातनमुत्तमम् ॥ १०२ ॥
(*सर्षपाश्चित्रको दन्ती श्वेता कटुकरोहिणी ॥
महावृक्षार्कयोर्मूलं भल्लातकफलानि च ॥ १०३॥
लवणानि हरिद्रे च कोशातक्याः फलानि च ॥
पिचुमन्दपलाशानि त्रिवृता श्वेतसर्षपाः ॥ १०४ ॥
कल्कपिष्टानि सर्वाणि केशशातनमुत्तमम् ॥ >
गुग्गुलं निम्बपत्रं च त्र्यूषणं च तिलैः सह ॥ १०५ ॥
कल्कपिष्टानि सर्वाणि केशशोधनमुत्तमम् ॥
विषघ्नाऽतिविषा कुष्ठं सर्षपाः सुरदारु च ॥ १०६ ॥
त्रिवृद्दन्त्यर्कभल्लातमूलानि च शणं तिलाः ॥
अतसी च पटोलं च प्रत्येकं केशशोधनम् ॥ १०७ ॥
अतसी ( * किण्वमेरण्डसुरा क्षारतिलात्वचम् ॥
महावृक्षार्कयोर्मूलं पिष्ट्वा भल्लातकानि च ॥ १०८ ॥
मधुशिग्रुफलैः सार्धं पादरोगेषु शोधनम् ॥
कासीसं ) सैन्धवं कांस्यं तथा नीली रसाञ्जनम् ॥ १०९ ॥
सौराष्ट्रा मधुकं चैव पादरोगेषु रोपणम् ॥
घोण्टाफलानि त्रिफला निचुलानं फलानि च ॥ ११० ॥
तलरोगेषु नागानां स्थिरीकरणमुत्तमम् ॥
गोजीत्वचोऽश्वकर्णश्च सोमवल्कधनंजयौ ॥ १११ ॥

  • धनुराकारचिह्नद्वयान्तर्गतपाठः कपुस्तके नास्ति ॥
    १ क. ख. ॰नि तृवृ॰ । २ क. ॰कं कोश॰ । ३ ख. ॰तसीकिं॰ । ४ क.
    ॰राष्ट्रम्॰ । ५ क. ख. घोटाफ॰ ।

११० पालकाप्यमुनिविरचितो— [१ महारोगस्थाने—
कल्कपिष्टानि सर्वाणि तलस्तम्भनमुत्तमम् ॥
सोमवल्कस्य सर्जस्य ककुभाश्मन्तकस्य च॑ ॥ ११२ ॥
( * भल्लातकोदुम्बरपोस्तथाऽश्वत्थकदम्बयोः ॥
आम्रातकाश्वकर्णं च कुम्भीं च क्वाथयेज्जले ॥ ११३ ॥)
पादावशिष्टं कथितं पुनरेवाप्यधिश्रयेत् ॥
किरातमूलं कासीसं हरितालं रसाञ्जनम् ॥ ११४ ॥
तथा सर्जरसं दद्याद्रोहिणीचूर्णमेव च ॥
अपहृत्य च निर्दग्धमपः कुम्भे निधापयेत् ॥ ११५ ॥
ततस्तेन कषायेण व्रणं नागस्य क्षालयेत् ॥
───
अतः परं प्रवक्ष्यामि क्षारकर्मविधिं शुभम् ॥ ११६ ॥
पालाशं क्षारमादाय मुष्ककस्य धवस्य च ॥
कुटजेङ्गुदचाराणां क्षारमारग्वधस्य च ॥ ११७ ॥
कालशुकं ससप्तपर्णं क्षारं सौगन्धिकस्य च ॥
रोध्रकं चिरबिल्वं च शैरीषं कतकं तथा ॥ ११८ ॥
एतान्क्षारान्समाहृत्य हस्तिमूत्रेण संसृजेत् ॥
संसृजेच्चाश्वमूत्रेण गवां मूत्रेण चैकशः ॥ ११९ ॥
पुनः पुनः समासिञ्चेद्यथा स्यात्सुपरिश्रु(स्रु)तम् ॥
परिश्रु(स्रु)तं तु तं क्षारं सुप्रसन्नं ततो भिषक् ॥ १२० ॥
अपः कुम्भे दृढे धीरः शनैर्मेन्दाग्निना पचेत् ॥
सुप्रसन्नं ततो वैद्यः समन्तात्परिघट्टयेत् ॥ १२१ ॥
अनामं चाप्यदग्धं च दर्वीलेपमथोद्धरेत् ॥
अयोमये सापिधाने कलशौ रजतप्रभे ॥ १२२ ॥
तस्मिन्क्षारं समावाप्य स्वनुगुप्तं निधापयेत् ॥
पूर्वोक्तेन कषायेण सुखोष्णेनाथ धावनम् ॥ १२३ ॥
तं कपालिकया गाढं तीक्ष्णया परिघट्टयेत् ॥
सम्यक्प्रक्षालितं केशं कृत्वा निरुदकं ततः ॥ १२४ ॥
───────────────────────────

  • धनुराकारचिह्नान्तर्गतपाठः कपुस्तके न ॥
    ───────────────────────────
    १ क. अपहृत्य । २ ग. शृणु । ३ क. °दवारा° । ४ क. कालंभुकं ।
    ५ क. रौध्रकं । ६ क. °सिन्चीरं ।

क्षीरागदेन योग्यङ्गस्तेनैव प्रतिसारयेत् ॥
(*पक्वजाम्बवसंकाशममिश्रा(स्रा)वि यदा भवेत् ॥ १२५ ॥
सम्यग्दग्धतलं विद्यादन्यथा तु विगर्हितम् ॥
कौतकं पञ्चलवणं यवक्षारस्तथैव च ॥ १२६ ॥^१
एतानि दग्ध्वा क्षारं तु पूर्वकल्पेन साधयेत् ॥)
तगरं पञ्चलवणं हरितालं मनःशिला ॥ १२७ ॥
एतत्समुद्धतं सर्वं हस्तिमूत्रेण संसृजेत् ॥
पूर्वोक्तेन विधानेन क्षारयोगः प्रशस्यते ॥ १२८ ॥
शुष्काक्षं काञ्चनक्षीरीं दन्तीं लाङ्गलकीं तथा ॥
साधयेत्पूर्ववत्क्षारं ततः सम्यग्विचक्षणः ॥ १२९ ॥
हरितालं सुधाचूर्णं तथैव कटशर्कराम् ॥
व्रणानालेपयेदेभिः पूर्वक्षारेण साधितान् ॥ १३० ॥
रोहत्येवं व्रणो लिप्तो न च रूढः प्रभिद्यते ॥
(*कासीसं हरितालं च कांस्यनीलीसुराष्ट्रजम् ॥ १३१ ॥
मनःशिलां च संभृत्य समभागानि पेषयेत् ॥•
तं कल्कं निपुणं पिष्ट्वा व्रणं तेनोपलेपयेत् ॥ १३२ ॥
रोहत्येवं व्रणो लिप्तो न च रूढः प्रभिद्यते) ॥
तु(त्रि)वृल्लाङ्गलकी दन्ती मधुकं केसरं तथा ॥ १३३ ॥
कृष्णकन्दां तालपत्रीं समभागानि पेषयेत् ॥
कल्कपिष्टैः सुतैः सम्यग्घृतं धीरो विपाचयेत् ॥ १३४ ॥
एतेन सर्पिषाऽभ्यक्तः पादः स्थैर्यं नियच्छति ॥
अत ऊर्ध्वं तु नागानामग्निकर्म प्रवक्ष्यते ॥ १३५ ॥
तच्चाग्निकर्म शास्त्रज्ञैश्चतुर्विधमिहोच्यते ॥
स्नेहस्तथेष्टिका लोहं चतुर्थी प्रोच्यते शिला ॥ १३६ ॥
योजयेत्तु यथायोगं बलाबलमवेक्ष्य च ॥
मृद्वग्निसोध्या ये रोगास्तेषु स्नेहः प्रशस्यते ॥ १३७ ॥
मध्याग्निसोध्या ये तांस्तु इष्टकाभिः प्रसाधयेत् ॥
तीक्ष्णाग्निसोध्या ये केशास्तांल्लोहेन प्रसाधयेत् ॥ १३८ ॥


  • धनुराकारमध्यस्थपाटो गपुस्तके त्रुटितः ।
    १ क. क्षीरागदेन । २ ख. शुकाख्यां । ३ क. ॰ञ्चनं क्षी॰ । ४ ख. ॰पिष्टैस्तु तैः ।

३१२ पालकाप्यमुनिविरचितो— [१ महारोगस्थाने-
अतितीक्ष्णाग्निसाध्यांस्तु शिलाभिः साधयेद्भिषक् ॥
( *एतेन कर्मयोगेन यथाव्याधि प्रयोजयेत् ॥ १३९ ॥
ईष्टकां चैव लोहं च तप्तां चैव शिलां भिषक् ) ॥
प्रयोजयेद्यथायोगं वयो बलमवेक्ष्य च ॥ १४० ॥
मासात्तु कार्तिकादूर्ध्वं निवृत्ते शुष्ककर्दमे ॥
हेमन्तस्याऽऽगमे कुर्यात्तत्कर्म विचक्षणः ॥ १४१ ॥
उद्धृतं चोवधूतं च मृत्तिकानुगतं च यत् ॥
स्फुटितं दुष्टमांसं च शस्त्रैस्तीक्ष्णैर्विशोधयेत् ॥ १४२ ॥
रक्तस्रावं न कुर्वीत न चातिक्षणुयात्तलम् ॥
शनैः शनैस्तलः शोध्यो यावत्तु मृदुतां व्रजेत् ॥ १४३ ॥
अग्निकर्मविधिः कृत्स्नो यथावदुपदेक्ष्यते ॥
तप्तैरयोभिरुत्तानं तलं सम्यक्शनैर्दहेत् ॥ १४४ ॥
फालैर्जम्बोष्ठदर्वीभिर्यथादोषमुपक्रमेत् ॥
जम्बोष्ठैरेव गम्भीरान्दाहयेदग्निकर्मवित् ॥ १४५ ॥
ईष्टकाभिस्ततः स्वेदः कार्यः केशेषु हस्तिनाम् ॥
वातिकेषु च रोगेषु श्लेष्मणा कठिनेषु च ॥ १४६ ॥
रत्निमात्रां चतुरस्रां शिलां भूमौ निखात(न)येत् ॥
उत्सेधेनाङ्गुलान्यष्टावग्निवर्णां च कारयेत् ॥ १४७ ॥
मृदा पालीं समन्ताच्च शिलायां कारयेद्भिषक् ॥
शिलां तां खादिरैः काष्ठैः सुतप्तां कारयेत्ततः ॥ १४८ ॥
अपनीयाऽऽशु तत्राग्निमौषधानि समावपेत् ॥
गुडं तैलं वसां माषाञ्श्रीवेष्टं च सगुग्गुलम् ॥ १४९ ॥
तिष्ठेत्पुरा प्रकथितं रोधं मधुहरीतकीम् ॥
गैङ्गालिकां महागुन्द्रां सूक्ष्मचूर्णानि कारयेत् ॥ १५० ॥
एकीभूते तु संभारे तस्मिन्प्रकथिते भिषक् ॥
स्थापयेत्पादमेकैकं यथावत्सुप्रतिष्ठितम् ॥ १५१ ॥

  • धनुराकारमध्यस्थपाठः कपुस्तके न ।
    १ ख. इष्टिकां । २ क. चामधूमं । ३ क. ख. रक्तभावं । ४ क. ॰लृञ्ज-
    म्बोष्ठ° । ग. ॰लजङ्घोष्ट° । ५ क. जृम्बोष्टै° । ग. जङ्घ्योष्टै° । ६ ख. इष्टिका° ।
    ७ क. ख. चतुरश्रां । ८ क. ॰ङ्गुलिन्य° । ९ क. समां । १० ख. ग. शृगालिकां ।

[ पादरोगाध्यायः ] हस्त्यायुर्वेदः । ११३
मात्राप्रमाणं कालं वा ह्रस्वाक्षरमथापि वा ॥
एष मात्राविधिः प्रोक्तस्त्वग्निदाहे नृपोत्तम ॥ १५२ ॥
अक्लिन्नं वाऽप्यपोढं च ताम्रबिल्वसमप्रभम् ॥
सम्यग्दग्धतलं विद्यादन्यथा तु विगर्हितम् ॥ १५३ ॥
गोमेदकसवर्णायश्च मधुवर्णाश्च ये तलाः ॥
पक्वतालु(ल)सवर्णाश्च समरक्तास्त्ववेदनाः ॥ १५४ ॥
अनुन्नतास्त्वकुल्माषा गम्भीराः कठिनाः स्थिराः ॥
भवन्ति सुखसंस्पर्शाः सम्यग्दग्धा यदा तलाः ॥ १५५ ॥
सुप्ररूढास्तलाः सम्यगुत्तिष्ठन्ति समन्ततः ॥
देहन्त्यपि च निःशङ्कं समेषु विषमेषु च ॥ १५६ ॥
इति सम्यक्प्रदग्धानां कीर्तितं लक्षणं मया ॥
तलानामामदग्धानामुत्तमं शृणु लक्षणम् ॥ १५७ ॥
आमदग्धेषु पादेषु विकारो नोपशाम्यति ॥
स्रैवन्ति सततं रक्तं पाँण्डुरा मृदवस्तलाः ॥ १५८ ॥
आमदग्धं विदित्वैवं पुनः कर्म विधीयते ॥ •
अतिदग्धस्य विज्ञानमतः शृणु महीपते ॥ १५९ ॥
अतिदग्धास्तु मुच्यन्ते संधिभ्यः सहसा तलाः ॥
नखाश्चापि विशीर्यन्ते स्फुटन्ति च समन्ततः ॥ १६० ॥
आश्रा(स्रा)वः पिच्छिलो रक्तस्तलेभ्यस्तस्य गच्छति ॥
स्थातुं न शक्नोति गजो रक्तमूत्री च जायते ॥ १६१ ॥
वमत्यभीक्ष्णं वमथुं सततं च प्रमेहति ॥
प्राणांस्त्यजति वा नागो न स कर्मणि कल्पते ॥ १६२ ॥
नातिदग्धं तलं कुर्यान्नाऽऽमदग्धं च कारयेत् ॥
निर्वापणं प्रवक्ष्यामि दग्धानां हितमुत्तमम् ॥ १६३ ॥
सुरा सौवीरकं तक्रमम्लं दधि पयस्तथा ॥
क्षीरवृक्षकषायो वा देयः शीतो घृतान्वितः ॥ १६४ ॥
अग्निकर्मसु सर्वेषु शीतीकरणमिष्यते ॥
वर्गः कषायमधुरः सर्पिषा शीतलो हितः ॥ १६५ ॥
प्रपौण्डरीकं मधुकं मरिचं रक्तचन्दनम् ॥
उशीरं पद्मकं लोध्रं मञ्जिष्ठा सुनिषण्णकम् ॥ १६६ ॥
१ ख. ग. वहन्त्यपि । २ क. ख. स्रवन्ति । ३ क. पाण्डवा । ख. पण्डुरा ।
१५

११४ पालकाप्यमुनिविरचितो— [ १ महारोगस्थाने-
मधुकं क्षीरवृक्षाश्च सोमवल्कार्जुनावुभौ ॥
नलवञ्जुलमूलानि पयस्या चोत्पलानि च ॥ १६७ ॥
पयसा कल्कपिष्टानि घृतेन सह योजयेत् ॥
अग्निकर्मक्षतान्पादान्गजस्याऽऽलेपयेद्भिषक् ॥ १६८ ॥
नलिकानलमूलानि शालूकानि विशानि च ॥
प्रपौण्डरीकं मधुकं लोध्रमुत्पलमेव च ॥ १६९ ॥
समभागानि सर्वाणि सलिले परिवासयेत् ॥
एतैः शीतकषायैस्तु पादनिर्वापणं भवेत् ॥ १७० ॥
वारकुम्भीकवृक्षाणां त्वचमारग्वधस्य च ॥
नदीजम्ब्वोश्च मूलानि नलिकाया नलस्य च ॥ १७१ ॥
समभागानि सर्वाणि सलिले परिवासयेत् ॥
एते शीतकषायाः स्युर्दाहनिर्वापणाः स्मृताः ॥ १७२ ॥
उपरूढेषु पादेषु स्थिरता जायते यथा ॥
तथा वक्ष्यामि राजेन्द्र तलानां हितमुत्तमम् ॥ १७३ ॥
धावने त्रिफला कार्या चूर्णं वाऽस्या महीपते ॥
तिलतैलसमायुक्तं स्थिरीकरणमुत्तमम् ॥ १७४ ॥
पिण्डीतकस्य बीजानि चूर्णीकृत्य त्वचा सह ॥
लेपस्तैलेन संयुक्तस्तेनास्य कठिनास्तलाः ॥
शर्करा काष्ठदी(ही)नायां वीथ्या(थ्यां)नागं विचारयेत् ॥ १७५ ॥
तत्र श्लोकौ—
धावनैः स्नेहनैश्चूर्णैश्चर्मकोशैश्च तांस्तलान् ॥
पादरोगप्रशान्त्यर्थं सदा रक्षेत्त बुद्धिमान् ॥ ७६ ॥
क्रियामष्टविधामेनां सम्यक्शास्त्राणि निश्चितम् ॥
प्रयुङ्क्ते यो यथायोगं स भिषक्श्रेष्ठ उच्यते ॥
इत्यब्रवीत्पालकाप्यो राज्ञाऽङ्गेन प्रचोदितः ॥ ७७ ॥ ९९४ ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने महारोगस्थाने
पादरोगोध्यायः षोडशः (पञ्चदशः) ॥ १५ ॥


१ ख. ॰त् ॥ चारुकु॰ । २ क. उपगूढेषु । ३ क. शर्करां । ४ क. मार्गनागं ।