सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 114, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 114

११ मूर्च्छाध्यायः ] ; हस्त्यायुर्वेदः । ९९
औदकानि च यवसानि मधुरवीर्याणि समृणालानि शर्करासंयुक्तानि भोजयेत् ।
व्याधिशैथिल्ये च पाययेदासवम् । ऐणतित्तिरिलावकानां च मांसरसं पायये-
द्भोजनार्थम् । ततः सुखी भवति पित्तमूर्च्छार्तश्च नागः ॥
इति पित्तमूर्च्छा ॥
यदा च मधुररसवीर्यविपाकभूयिष्ठमाहारयति तदा श्लेष्मा प्रकुपितो हृदय-
मवपीड्य मूर्च्छां जनयति ॥
स भवति नीलवर्णः प्रहृष्टरोमा शीतद्वेषी, उष्णाभिकाङ्क्षी गुरुगात्रः ॥
तं कपित्थाग्रयोर्मूलकल्कं पयसाऽवलोड्य पाययेत् । सर्जार्जुनन्द्रयवधवनि-
म्बगण्डीरारग्वधान्संक्षुद्य सक्षौद्रकान्कवलान्दद्यात् । पापचेलिकावेत्राग्रनिम्बप-
त्रपटोलैः सह सिद्धान्मुद्गान्मोजयेत् । पाययेन्मैरेयम् । आहारे च दापयेच्चूर्णं
पादं शिरीषपल्लवांश्चेति ॥
इति श्लेष्ममूर्च्छा ॥
यदा तु कफपवनपित्तानां संनिपातान्मूर्च्छति ॥
स विभ्रान्तस्ताम्रो राजीवनयनः प्रस्रवत्करश्रोताः पीतनीलहरितश्याम-
वर्णः स्तब्धरोमा स्वरच्छविर्हारिद्रमूत्रोऽनन्नाभिलाषी भृशमस्वस्थशरीरः कफ-
पवनपित्तमूर्च्छानां लिङ्गानि दर्शयति । यन्तारमभिक्रुध्यति ॥
तस्येदं निदानमभिसमीक्ष्यं त्रिवृच्चित्रकविडङ्गचूर्णानि, आमलकरसं च पय-
साऽऽलोड्य पाययेत् ॥ बिल्वफलसुरसाहरिद्रात्रिफलामहौषधीभिः क्वथनसिद्धं
रक्तशालियवागूं सर्षपतैलेन धूपितां पाययेत् ॥ परिणामे च मृगमहिषपेन
भोजयेत् । ततः स्वस्थो भवति ॥
इति संनिपातमूर्च्छा ॥
यदा तु घर्माभितप्तशरीरः, तथैवाभिगतोष्मा सलिलमवगाहते स संनिरुद्ध-
स्वेदोष्मा सहसा मूर्च्छति ॥
स भिन्नविवर्णपुरीषमल्पालपं मुञ्चति । प्रहृष्टरोमा बहुशः प्रमेहति परिपू-
र्णनिष्कोषः, दुर्मनाः स्थातुं न शक्नोति, स्थूलोच्छ्वासी भवति ॥
तस्मै कुमुदकसेरुकोत्पलबिसमृणालपनसानि पक्वानि, यानि चान्यानि
शीतलानि मधुररसवीर्यविपाकान्यार्तवानि यवसानि तानि च शर्करोपहि-
* 'क्वथनसिद्धां' इति पाठः स्यात् ।

१ क. उदकानि । २ क. ०संक्षुट्य स० । ३ क. ०चूर्णपादं । ४ क. -
कफवात्पित्तानां । ५ क. प्रश्वेत्क० । ६ क. ०ओन्नताभि० । ७ क. ख. ग. ०क्ष्य
तृवृ० । ८ ख. कथनं सि० । ९ क. ०वाग्रं स० । १० क. ०ति स्थलो० ।