सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 116, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 116

१४ शिरोरोगाध्यायः ] हस्त्यायुर्वेदः । ९७
स तया पीडितः स्तब्धकुक्षिः शूलार्तोऽभिवर्तते, निषीदति, वेपते, मुहुर्मु-
हुर्मुखं व्याददाति ।
ततस्तं त्रिफलासैन्धवविडङ्गव्योषगोमयसंयुक्तान्कवलान्भोजयेत् । प्रियङ्गु-
लोध्रमधुसंयुक्तान्कवलान्दद्यात् । दार्वीकं-दं दर्भमूलं सर्मङ्गां मधूरसां पाठां
हिङ्गुबृहत्यौ च क्वाथयित्वा परिस्राव्य रात्रिस्थितमासवं मधुसंयुक्तं पाययेदिति ।
यवसाध्यायप्रोक्तानि यवसानि विचित्राणि दद्यात् । अनैरन्नपानप्रोक्तैश्च भक्तै-
र्विविधैर्बृंहयेदिति ।
तत्र श्लोकः—
सहोत्पत्तिनिदानास्ता मूर्च्छा द्वादश कीर्तिताः ।
सोपक्रमविधानाश्च तव पार्थिव पृच्छतः ॥
इति यवसमूर्च्छा ।
इति श्रीपालकाप्ये गजायुर्वेदमहाप्रवचने महारोगस्थाने मूर्च्छाध्यायश्चतु-
र्दशः ( त्रयोदशः ) ॥ १३ ॥
───
अथ चतुर्दशोऽध्यायः ।
───
आँङ्गो हि वै रोमपादो हस्तिशालास्थं भगवन्तं पालकाप्यमभिबन्द्योवाच—
'भगवन्गजानां शिरोभितापाः कथं संभवन्ति, कति, कथं च साध्यन्ते तन्मे
व्याख्यातुमर्हसि' ।
इत्युक्त उवाच भगवान्पालकाप्यः—इह खलु भो वारणानां सप्त शिरो-
रोगाः संभवन्ति । तद्यथा—वात-पित्त-कफ-रुधिर-संनिपातात्, कृमिभ्योऽ-
भिघाताच्चेति ।
तत्र रूक्षविषमलघुकटुकषायतिक्तभोजनैरनिलः प्रकुपितः शिरोऽवपीड्य
तिष्ठञ्शिरोभितापं जनयति ।
स स्तब्धसगदेमन्यांसपृष्ठशिरोग्रीवानयनः समुन्नद्धोत्तमाङ्गो भवति भ्रमति
चास्य दृष्टिरविला, कर्णस्तम्भः शिरोदाहो मुखशोषश्च भवति, छर्दयति,
मूर्च्छा चास्य भवति, तृष्णा चात्यर्थनेत्रप्रस्रावो वक्त्रस्तम्भः शिरो विधुनोति
दहति रुजति कूजति वेपते करास्पयोरजस्रं रूक्षविशददुर्गन्धो विवर्णं नीलं
हारिद्रवर्णं प्रस्रवति दोषम् ।
───
१ क. ॰ङ्गदोष॰ । २ क. ॰कन्दद॰ । ३ क. ॰मङ्गामधुरमांसे पा॰ । ४ क.
अङ्गो । ५ ख. ॰षयल॰ । ६ क. ॰दनम॰ ।
१३