हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 120, कुल 742 में से
संदर्भ में पढ़ें१४ शिरोरोगाध्यायः ] हस्त्यायुर्वेदः । १०१
विधुनोति शिरोऽभीक्ष्णं, निश्वसतश्चास्य करान्निपतन्ति कृमयः श्लक्ष्णरोमा) णः
कफरुधिरसंभवप्रायाः, शिरसि ताडितश्च सुखायते । तं कृमिप्रचपकृतं शीर्षा-
भितापं विद्यात् ॥
तस्मै शृङ्गवेरकुटजकुष्ठमरिचातिविषापिप्पलीभिः सवार्ताकंसर्षपाभिः श्लक्ष्ण-
पिष्टाभिर्नस्यं प्रधमनं कुर्यात् । करप्रक्षालनं चास्य प्रसन्नया । भद्रदारुमरिच-
शृङ्गवेरपिप्पलीसरलसर्षपचित्रकसैन्धवैर्धूपनं कुर्यात् । अथवा त्रिकटुककरञ्ज-
निम्बपत्रामलकचित्रकविभीतकरहरिद्राभिर्धूपनं कुर्यात् । बृहतीफलकासीसकुष्ठ-
सुवर्चिकाविडङ्गरसोनगिरिकर्णिकापिचुमन्दमूलहिङ्गुवचैलाफणिज्जकमरिचैर्गोमू-
त्रपिष्टैस्तैलं पक्त्वा सुखोष्णं नस्यं दद्यात् । अथवा हरिद्रामार्कवतगरकुष्ठव-
चापुनर्नवैः कल्कपिष्टैस्तैलं पक्त्वा सुखोष्णं नस्यं दद्यात् । जाङ्गलैश्च यवसै-
स्तिक्तकटुप्रायैः पिचुमन्दपिप्पलीमरिचशृङ्गवेरयुक्तैः सिद्धैर्मुद्गैर्मधुघृतसंसृष्टैर्भोज-
नपानयोरुपचर्यमाणः प्रणुदति कृमिजां रुजं शिरोभितापः ॥
इति कृमिजः शिरोभितापः ॥
अथ(तोऽभिघातजः शिरोरोगः । स लोष्टाश्मर्मुशलाङ्कुशप्राजनदण्डवृक्षशा-
खाभिः प्रतिहस्त्यभिघाताद्वा शिरोभितापः संभवति ॥
ततः प्रस्तब्धकरकर्णचरणो ध्यानपरः शूननयनमुखशिरोग्रीवास्कन्धपूर्व-
कायसगदावितानावग्रहकटो नातिकिंचिदपि दुर्मनाः ॥
तस्य सर्वसेको घृतमण्डेनेष्टः । विमलशिशिरसलिलावगाहः, प्रदेशश्च पत्रो-
शीरमधुकमञ्जिष्ठादेवदारुसुनिषण्णकैलातगरवञ्जुलोत्पलतामरसबिसमृणालक-
ह्लारपयस्याकर्कटशृङ्गीप्रपौण्डरीकवर्धनमानकवेतससरलगुन्द्राक्षीरवृक्षत्वक्शतपु-
ष्पाह्लीवेरचन्दनसारिवालोध्रपद्मकुस्तुम्बुरुशैलेयामलकमांसीव्याघ्रनखपरिपेलवा-
भयाहरेणुकादेवदारुशितकर्णकैः क्षीरपिष्टैर्घृतप्रदिग्धैर्बहुशः प्रलेपयेत् । स्थानं
च सुशीतलं गोमयोपलिप्तं कालर्तुकुसुमनोभिः प्रकीर्णम् । शिरसि मध्ये च वारि-
परिपूर्णा दृ तयः स्रवेयुः । यवसैश्च मृदुभिरार्तवैर्हरितैर्बृंहयेत् । रसैश्च स्निग्धम-
धुरैर्जाङ्गलैर्मांसजैर्भोजयेदिति ॥
तत्र श्लोकौ भवतः—
शिरोभितापा नागानां प्रायशो वातसंभवाः ॥
कफशोणितपित्तानां वायुरेव प्रवर्तकः ॥
१ क. ॰लीशृ॰ । २ क. ॰कायसंग॰ । ख. ॰कायः स॰ । ३ क. ॰शिराव॰ ।
४ क. ॰न्द्राक्षार॰ । ५ क. ख. ॰पुष्पीह्री॰ । ६ क. ख. ॰रुसैले॰ ।