हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)
Hammira Mahakavya with Hindi Commentary
नयचन्द्र सूरि / डॉ. दशरथ शर्मा द्वारा
१२] प्रथमदिनयुद्धवर्णनम् १०५
न्युष्टोचितां--------बलिक्रियां युक्त्या वितत्य स ततः क्षितीश्वरः ।
संग्रामसंगमविनोदहेतवे सैन्यान् रयेण समनीनहत्तमां ॥ ११ ॥
अल्पेतरद्युतिविकल्पिताहवाः कल्पप्ररूढरुचिरांगरोचिषः ।
षट्त्रिंशदायुधभृतो धृतोदया वीरा विनिर्ययुरूर्जीयंविक्रमाः ॥ १२ ॥
शृंगारतः समरसंभवो रसो नूनं विशेषमधुरत्वमंचति ॥
हित्वा प्रियांगपरिरंभणादरं वीरा रणाय यदमी प्रतस्थिरे ॥ १३ ॥
संग्रामसंगमविनोदहेतवे स्फूर्तिं गतानि नितमां महीयसीं ।
अंगानि वीरनिकरस्य नो तदा मांतिस्म वर्मसु सुविस्तृतेष्वपि ॥ १४ ॥
कश्चिद्विलोक्य कबरीं भियोद्गमत् सारंगशावकदृशः प्रकंपिनीं ।
ध्यानाध्वगीकृतरणांगणोल्लसत् खङ्गश्चचाल करवालगुद्वहन् ॥ १५ ॥
अंगे लगंत इषवः किमंगना काक्षाः किमंग नितमां प्रियंकराः ।
एतत् विवेचनविधानकौतुकी कश्चिन्महीररणमहीमभूषयत् ॥ १६ ॥
पूर्वं त्वदेकहृदयामरालयं गच्छाम्यहं ज्वलनवर्त्मना ऽमुना ।
किंवा मदेकहृदयोसि वर्त्मना त्वं काप्यवोचदिति सस्मितं हितं ॥ १७ ॥
संभाव्य वैरिकरिणां रणांगणे कुंभान्मम स्तनधियातिकामुक ।
माभूरनंगरसंगकौतुकी—त्येकं जगाद सुमुखी हसोन्मुखी ॥ १८ ॥
प्रेयांस्तवास्मि यदि वल्लभा ततः स्वोत्खातदंतिरदजातकंकणेः ।
पाणी विभूषय ममाद्य कंचिदि—त्यूचे प्रियारचितसाचिलोचना ॥ १९ ॥
स्नेहातिरेकवशतः स्वंपाणिना माताधिमौलितिलकं यदाकरोत् ।
शौर्यात्तदेव कवचाधिकं विदन् कश्चिच्चचाल किल वीरशेखरः ॥ २० ॥
कृत्वा करे दलिकखड्गमुद्धतं तात प्रहंतुमरिवीरकुंजरान् ।
एष्यामि नन्वहमपीति भापुकं कश्चिच्चचाल तनयं हसन् मुहुः ॥ २१ ॥
पुत्राद्य संगरमवाप्य सत्वरं विस्तारये भुजपराक्रमं तथा ।
वीरप्रसूतिलकृतां यथाश्रये कंचिज्जगाद जननी प्रमोदिनी ॥ २२ ॥
मेदस्विवीररससंगसंभव—द्रोमोद्गमत्रुटितवर्म्मसंहतिः ।
मूर्त्तो भयानक रसः स्फुरन्निवा चालीत्परो रुणितदारुणेक्षणः ॥ २३ ॥
14 k
१०६ श्रीहम्मीरमहाकाव्ये [सर्गः
विद्वेषिवीरजनमानदारणो माभूत्प्रवृत्त ऋत एव मारणः ।
संभावयन्निति निशम्य काहलां प्रायात् परः समरजिग्वरखरः ॥ २४ ॥
गृध्रं भ्रमंतमुपरीत्यूवकपरो संवर्म्मयन्नयमिह प्रतीक्ष्यतां ।
मूर्ध्नीतरस्य यदि वात्मनस्तनौ श्रद्धां तनोमि फलिनीं तवाधुना ॥ २५ ॥
स्याज्जीवता युधि यशो मृतस्य तु स्फीतं च तच्च सुरवल्लभा अपि ।
इत्यस्य वीरनिकरस्य निर्यतो जज्ञे न दुःशकुनमध्वनि क्वचित् ॥ २६ ॥
कुंभान्निधाय शिरसि प्रपूरितान् एलालवंगरसभीतलैर्जलैः ।
प्रीत्यानुयातुमसुवल्लभान्निजान् सज्जीबभूव निखिलो भटीजनः ॥ २७ ॥
अल्लावदीनविभुरप्यथोद्भट—द्विट्प्रोन्मथिषुतयाऽकुलाशयः ।
संनह्य सैन्यमनुजादिभिर्वृतः स्थाने प्रतिश्रुतमशिश्रियन्मिथः ॥ २८ ॥
अन्योन्यवीक्षणवशोल्लसन्महा—कोपप्ररूढमहिमप्रसृवराः ।
वीरा रंवाः प्रतिरवैश्च—दिभि योगैर्द्विरुक्तिमिव धातवो ययुः ॥ २९ ॥
अभ्रंकषोलसितचारुचामरे कुक्षिभरिद्विरदबृंहिते दिशां ।
प्रस्पर्धयेव दधतुः परस्परां सैन्ये इमे श्रियमिहाधिकाधिकं ॥ ३० ॥
पुष्णंश्चरंविनमयेन संगरो—त्साहं हृदि प्रधनकारिणां नृणां ।
तूर्याणि पूरितहरिति निस्वनैः सैन्यद्वयेपि नितरामराणिषुः ॥ ३१ ॥
भंक्तुं विपक्षकरिकुंभघर्षणैः कंडूलतां स्वभुजदंडयोरथ ।
चेलुर्भटा अपि बलद्वयाद्रणो—त्साहत्रुटंचुटदशेषकंकटाः ॥ ३२ ॥
पत्तिः पदातिकमियाय सादिनं सादी रथस्थितमहो महारथी ।
मातंगयानगमनो निषादिनं द्वंद्वहवोऽजनि तदेतिदोषमतां ॥ ३३ ॥
ऊर्ध्वाभवंत उरुविक्रमैः शिर—स्त्राणानि वीरनिकरस्य मूर्धजाः ।
स्मोत्स्वासयंति घनकालसंभवा भूस्फोटका इव महीप्रदेशकान् ॥ ३४ ॥
अन्योन्यजातहठतो गतांतरं मुक्तैः पृषत्कनिवहै रणांगणे ।
पाणिग्रहाय विजयश्रियो भटा यत्नेन मंडपमिव व्यरीरचन् ॥ ३५ ॥
कोदंडचंडरुचिमंडलादतो दीप्राः क्षुरप्रकिरणाः प्रपातिनः ।
प्रत्यार्थिवीरतिमिराणि वेगतो—प्यानिन्यिरे युधि कथावशेषतां ॥ ३६ ॥
१२ ] प्रथमदिनयुद्धवर्णनम् १०७
मत्पावनेऽद्य समरे तनुत्यजां भावी समागम इति प्रमोद्तः ।
भ्रष्टांतरभ्रमदिषुव्रजच्छला रोमांचितांगमिव दिद्युते नभः ॥ ३७ ॥
वीरैः प्रकाममभिमुक्तपत्तिणां नीरंध्रमंबरतले प्रसर्पतां ।
अंतः प्ररूढैर्नभवादिव क्षमः क्षेतुं न तीव्रकिरणोऽप्यभूत्करान् ॥ ३८ ॥
वीरव्रतस्य ददतौकपालिकां मास्मांतरायमिह कार्षुरेतके ।
सांद्रेऽपि बाणनिवहे निपेतुषि स्फारान् स्फुरानिति न केप्यलासिषुः ॥ ३९ ॥
वायुं विजित्य तरसा पतत्स्विह श्वासैः पुरैव चलितं विरोधिनां ।
भित्त्वा तदंगमनुवेक्ष्य तानि वै—तत्पृष्ठ एव चलितं शरैरपि ॥ ४० ॥
पार्श्वद्वयस्थकरिदंतभासुर स्तत्कुंभपीठविलुठत्करांबुजः ।
शौर्यश्रियो भुजलता स्तनद्वयी—संस्पर्शसौख्यमितरोऽन्वभूत्तमां ॥ ४१ ॥
प्रोतोऽरिणा सह शरेण वाजिनः पृष्ठे न शल्यभृशसंनिवेशनात् ।
संप्राप्तवानपि परासुतां परो नाश्वात्पपात युधि जीववानिव ॥ ४२ ॥
आरोढुमन्यसुभटे प्रलंबिते—त्स्कंधौ रदस्थितपरांधिभासुरे ।
क्रोधाद्भ्रमन् करिवरो रणांगणे शुंडाद्वयीं दधदिव व्यभाव्यत ॥ ४३ ॥
द्वैधीकृते शिरसि पाणिना धृते चोर्ध्वं निहंतुमहितस्य चिंतयन् ।
संधागतेन्यशरशल्यतः परो दृप्यन्नधावत नियोद्धुमुद्धतः ॥ ४४ ॥
ऊर्ध्वं विदारितमरातिना शिरो भ्रश्यन्नियोजितमपि द्विधाप्यधः ।
स्वेनैव भिन्नजठरादुपाद्द्रुतै रंत्रैर्निबध्य युयुधे पुनर्भरः ॥ ४५ ॥
विस्मेरमारचरितां विकंचुकां स्नेहाधिकां विशदकांतिधारिणीं ।
छित्वा करं प्रतिभटस्य कोप्यला—त्तद्दलभामिव कृपाणवल्लरी ॥ ४६ ॥
आक्रम्य पादमुरुणैकमंघ्रिणा धृत्वा करेण च परं महाप्रहात् ।
लोकद्वयीमयमसाधयद्युधी—त्याख्यान्निव द्विरकृतेतरं करी ॥ ४७ ॥
याभ्यामहारि मम वल्लभाम्तन—श्रीस्ताविमाविति परोत्यमर्षणः ।
कुंभौ गजस्य समरे विदारयन् आधोरणप्रहृतिमप्यजीगणत् ॥ ४८ ॥
अन्योन्यदत्तकरवालवल्लरी—प्रौढप्रहारपरिभिन्नहृत्तया ।
कौचित्क्रतौ युधि भटौ परासुता मालिंगिताविव मिथोपि रेजतुः ॥ ४९ ॥
१०८ श्रीहम्मीरमहाकाव्ये [सर्गः
सदंशजोपनतकोटिभूषणा संलीनसायकसमुल्लसद्गुणा ।
दृष्टा परस्य समरे धनुलता वेश्येव कंपमतनिष्ट कस्य न ॥ ५० ॥
कस्याप्यसिर्दिरदकुंभमंडला त्पीत्वा भृशं समितिशोणितासवं ।
उन्मत्ततां गत इवाशु विद्विषां वक्षःस्थलीमभिनिपेतिवान्मुहुः ॥ ५१ ॥
लूनेऽग्रजन्मनि पदद्वयेऽरिणा दंतावलस्य पततः क्षितौ किल ।
उत्तंभनाय निजमेव दंतयो र्युग्मं बभूव किमिवान्यदीदृशं ॥ ५२ ॥
प्रत्यर्थिमुक्तशरभिन्नपुष्करो लेभे न घातसमयेपि तां किल ।
अग्रे स्फुरंतमपहर्तुमक्षमा लेभे त्रपां प्रतिभटं करी व्यथां ॥ ५३ ॥
दत्वा प्रहारमतिलाघवात्पुरः पृष्ठं श्रयत्यसकृदुद्धते भटे ।
क्रुद्धो भ्रमन् समिति तज्जिघृक्षया वात्या विनोदमभजत्परो गजः ॥ ५४ ॥
भित्वाखिलांगमपि भूजुषेषुणा हत्वा करेणुमितरोभिपांतुकं ।
वर्त्मेव हंसगमनाय तेनिवान् क्रौंचं पराशरसुतो गिरिं यथा ॥ ५५ ॥
कस्यापि कुंडलितचापमंडलां—तर्वर्त्तिवक्त्रकमलं बभौतमां ।
प्रत्यर्थिषु प्रबलबाणवृष्टये बिंबं स्फुरत्परिधिशीतगोरिव ॥ ५६ ॥
द्वेधीकृतस्य सुभटस्य कस्यचि—त्सव्येतरार्धमवलोक्य वर्ष्मणः ।
लब्धोद्य शंभुरुमयाविनेयधा—वंतामरेशदयितो दिशोदिशः ॥ ५७ ॥
जज्ञे तदा रणभृतां च रक्षसां यज्ञे महाहटरभरः परस्परां ।
एके प्रथीयसितरामसृन्मदीं चक्रुः पराणि पपुरेव तत्क्षणात् ॥ ५८ ॥
नःसंख्यसंख्यविवरातिथीभव—द्वीरातिथेयकरणैरवातुरे ।
द्वीपांतरं व्रजति तिग्मदीधितौ सैन्ये उभे अपि ततो विरेमतुः ॥ ५९ ॥
इति प्रथमदिनं
द्वितीयदिनयुद्धम्
स्वप्रसंगसमरैरनेकधा रात्रिं व्यतीत्य सुभटाः कथंचन ।
प्रातः पुनर्निजनिजाधिपाज्ञया संग्रामसीमनि मनो व्यनोदयन् ॥ ६०
१२] द्वितीयदिनयुद्धम् १०९
संनद्धयोरथ च सैन्ययोर्द्वयो रानद्धहेममयकंटकैर्भटैः ।
स्वस्मिंस्तदा समरभूरपि स्फुटं प्राचीव कांचनरूचं दधौतमां ॥ ६१ ॥
मूर्च्छामितोपि किल कोपि विद्विष—त्खड्गप्रहारवशतो रणांगणे ।
तं लातुमागतमरीकरामृत—स्पर्शाद्विबुध्य युयुधे भृशं पुनः ॥ ६२ ॥
उत्प्लुत्य वीरकलशेन कोपिना मुक्तेन हस्तिपककुंभभूमिदा ।
कुंतेन भिन्न इतरः करी बभा—वालानलंबित इवाहवांगणे ॥ ६३ ॥
लग्नप्रतीभदशनद्वयीतया संरूढसिंधुमितदंतभासुरः ।
स्तंबेरमो रणभुवींतरो भ्रम—न्नैरावणेन सुलभां दधौ विभां ॥ ६४ ॥
लग्नारिवाणगणसंभवव्रण—श्रेणिप्रमत्तकरिकुंभमंडलात् ।
धारा निपेतुरसृजो मदस्य च स्पर्धां दध्य इतरेतरामिव ॥ ६५ ॥
कस्याप्युदग्रतरवारिदारिता दंत्राणि रेजुरुदरात्पतंत्यधः ।
आदातुमेकपदमैव तं दिवः क्षित्ताः सुरीभिरिव पाशपंक्तयः ॥ ६६ ॥
क्रुद्धे प्रधावणाय सिंधुरे वाहानुपर्युपरि वीक्ष्य पातिनः ।
देवैरहासि यदहो तदेव त—न्मौलौ बभूव सुमवृष्टिरुत्कटा ॥ ६७ ॥
उत्पाट्य बाहुमभिसन्निवेशनात् कुंतव्रणोच्छलितशोणितच्छटाः ।
वीरश्रियेव नवकुंकुमच्छटा दत्ता भटोरुषु विरेजिरेतमां ॥ ६८ ॥
स्वारोढुरुन्नततरान्निषादिनो हंतुं सुखेन वितरन् प्रवीणतां ।
श्रीवृक्षकी हयवरो रणांगणे स्वामुन्नतिं प्रविदधौ फलेग्रहिं ॥ ६९ ॥
उत्प्लुत्य भूत इभकुंभमाश्रितः स्वोजोर्जिताद्रुतयशःसितद्युतिः ।
मेघात्ययोध्र इव तुंगभूभृतः शृंगायलीन इतरो व्यराजत ॥ ७० ॥
संग्रामभूपतितवीरमर्दनात् पादांतलग्नलसदस्रकैतवात् ।
क्रीडन्परः समरपल्वले करी सेवालजालमिव बिभ्रदाबभौ ॥ ७१ ॥
एकः करी समरसीम्नि सादिनं चिक्षेप कंदुकमिवाधिपुष्करं ।
धृत्वा करेण च कटौ परो हयं प्रास्कालयद्रजकवस्त्रवद्भुवि ॥ ७२ ॥
धाराप्रपातकृतलोककौतुक स्तेजोवितानविलसच्छतह्रदः ।
कस्याप्यसिर्युधि पयोधरायितो युक्तं द्विषामजनि हंसनाशकृत् ॥ ७३ ॥
११० श्रीहम्मीरमहाकाव्ये [सर्गः
कस्याप्यपाकृतगणोन्नमार्गगो लक्षाय धावति तदा स्म धावतु ।
कोटिद्वये सति ननाम यद्धनुः सद्वंशजस्य न तदस्य सांप्रतं ॥ ७४ ॥
ज्योतिर्मयीभिरिह मूर्त्तिभी रणे व्याप्तेभितोपि गगने समिस्कृतां ।
नालक्षि दैवतगणैरपि क्षणं व्यक्तं सहस्रकिरणस्य मंडलं ॥ ७५ ॥
क्रोधारुणेक्षणरुचीचयाचितं कस्यापि कृष्टमरुचत् धनूरणे ।
कुंडं हविर्भुज इव स्फुरज्जय-श्रीकृष्टयेऽरिपपुशून् जुहूपतः ॥ ७६ ॥
क्रोधप्रधावितरथांघ्रिमर्दनात् व्युत्थत्करंकसविकाशशब्दितैः ।
जीवत्यहो मयि कथं भ्रमंत्यमी इत्यन्वशोत पतितः किलेतरः ॥ ७७ ॥
कुर्वद्भिरन्विह रणे पलायितान् धावद्द्रयस्खलनतां पदेपदे ।
वीरैर्जहे न विरुदं पलायितप्राकार इत्यनुगतं मृतैरपि ॥ ७८ ॥
संग्रामसंगमविनोदिवारण-प्रोक्षिप्तवीरवृतिलोलचेतसां ।
स्वर्योषितामपि तदा परस्परा माविर्बभूव दिवि दारुणो रणः ॥ ७९ ॥
प्रागेव मास्म सुरवल्लभा अमुं वृण्वन्निति स्फुरितवेगविस्तराः ।
आलिंग्य वल्लभमपासुमप्युर स्तन्यश्वितां प्रविविशुर्भुजाभृतां ॥ ८० ॥
छत्रैः सितांबुजमयीव कुत्रचित् कुत्रापि पल्लवमयीव पाणिभिः ।
कुत्रापि शैवलमयीव कुंतलै भ्रष्टै र्बभौ रणभृतां रणावनिः ॥ ८१ ॥
शस्त्रप्रहारभृशजातमूर्च्छया स्वारोहकेषु पतितेषु भूतले ।
हेषारवैः समिति जातगौरवै दुःखाद्विलापमिव वाजिनो व्यधुः ॥ ८२ ॥
द्विट्कुंभिकुंभविनिपातिमौक्तिक-श्रेणिप्ररूढरुचिराजिभू रभात् ।
वीरश्रियं प्रपरिरभ्य दोषमतां शय्येव पुष्पखचिता सुषुप्सतां ॥ ८३ ॥
वीरैर्निहत्य विनिपातिता रण-क्षोणौ बभुः करिवराः पदेपदे ।
सेतोः कृते हनुमतैव चालिताः शैला इवार्धपथ उज्झिता भरात् ॥ ८४ ॥
जग्मुर्मृतिं दशशतानि भटा इहेति जल्पन्निवाञ्चत करद्वितीयांगुलीभिः ।
नृत्यक्रियामभजतैकतरः प्रवीरः काबंधिकी महितवीरविलूनमौलिः ॥ ८५ ॥
इति तिरस्कृतभारतसारते रणभरे स्फुरिते दिवसद्वयीं ।
दिनकरः प्रतिवक्तुमिवावधिं चरमभूमिधराग्रमसेवत ॥ ८६ ॥
१२ द्वितीयदिनयुद्धम् १११
शौर्येण प्रतिपक्षपक्षहृदयं स्वस्वामिभक्तव्रतै-
श्वेतांसि स्वविभोरसिप्रहृतिभिर्द्विद्विभिकुंभानपि ।
अंगैरंगणमाहवस्य विलसत्कीर्त्या च लोकत्रयीं
वीरा व्यानशिरेऽत्र योद्धृविसरश्रेयस्करे संगरे ॥ ८७ ॥
एतस्मिन्समरे वीरा यवनानां महौजसः ।
पंचाशीतिसहस्राणि यमावासमयासिषुः ॥ ८८ ॥
म्लेच्छानामथ दोष्मतामधीशितालावात्तावधिकालपालनात्तचित्तौ ।
वीरेंद्रात्कथमप्यमूनिवार्य युद्धात् भेजाते शिविरं निजं निजं रयेण ॥ ८९ ॥
इति श्रीजयसिंह० वीराङ्के दिनद्वयसंग्रामवर्णनोनाम द्वादशः सर्गः ॥
अथ त्रयोदशः सर्गः
अन्यदाथ क्षमानाथः स्फारशृंगारभासुर ।
अलंचकार शृंगारचंचरीं चतुराशयः ॥ १ ॥
निरीक्ष्य सहसा यत्रं भोभ्रांत्या स्फाटिकीः शिलाः ।
उत्संभार वस्त्राणि प्रक्मयनभयानकः ॥ २ ॥
रंभा ग्रावोद्भवा यत्र वीक्ष्य साक्षाज्जनं स्मरन् ।
फलेभ्यः स्पृहयन्नुच्चै नैकशः करमक्षिपत् ॥ ३ ॥
यत्र स्तंभेषुराजंत विचित्राः शालभंजिकाः ।
देव्यो नृदेवमालोक्य तद्गुणैस्तंभिता इव ॥ ४ ॥
यत्रोत्कृत्तेषु पद्मेशु सिस्वादयिषवो मधु ।
भृंगा निपत्य व्यर्थत्वात् हियेव शितितामगुः ॥ ५ ॥
यत्र स्फाटिकपांचाल्या—स्पेष्ध्वज्याश्रितालिषु ।
चकोराः शशभृद्दीक्षा—श्रदामह्व्यपूपुरन् ॥ ६ ॥
यत्कुट्टिमे पदप्रांता—रुणिमप्रतिबिंबनात् ।
रक्तं क्षौममिवास्तीर्णे पदन्यासाय भूभृतः ॥ ७ ॥
११२ श्रीहम्मीरमहाकाव्ये [सर्गः
स्फारकर्पूरपारीकं चंदनक्षोदमेदुरं ।
मृगनाभिस्फुरन्नाभि यदंगणमराजत ॥ ८ ॥
नूपुरस्थेंद्रनीलाश्म—दाम यत्स्फाटिकाश्मसु ।
निरीक्ष्य विवितं सर्प—भ्रांत्या लोकाश्चकंपिरे ॥ ९ ॥
अधो निबद्धभूभाग—प्रतिबिंबिततामिषात् ।
भोगींद्राणामपि सभां विजेतुं प्रस्थितेव या ॥ १० ॥
वीरशोभानृपात्तत्र दक्षिणे चारुलक्षणः ।
हासंहासं सृजन् गोष्ठीं रतिपालो रतिं दधौ ॥ ११ ॥
परीतो महिमासाहि स्त्रिभिरप्यनुजन्मभिः ।
व्यक्तामभजत्तत्र परमात्मा गुणैरिव ॥ १२ ॥
मार्दंगिका मृदंगानि वीणामपि च वैणिकाः ।
अपि वैणविका वेणुं यथातालमवीवदन् ॥ १३ ॥
रणद्वेणुझणत्कारा—नुकारिप्रसरत्स्वराः ।
गायना वीरहम्मीरकीर्तिस्फूर्तिंमगासिषुः ॥ १४ ॥
मिथोपि स्पर्धया वर्धमानत्वादिव संयते ।
दृढं चोलांतरीयाभ्यां स्तनश्रोणीप्रबिभ्रती ॥ १५ ॥
वपुर्वल्लिविलासेन मूर्छयंतीव कामिनः ।
कूणिताक्षप्रपातेनोज्जीवयंतीव मन्मथं ॥ १६ ॥ ❳ त्रिभिर्विशेषकं
प्रविश्य तत्र सभ्यानां मनसीव प्रमोदिनी ।
प्रवृत्ता नर्तितुं धारा देवी सोत्पश्य नर्तकी ॥ १७ ॥
तस्या लास्येन वेलंतो रेजिरे पाणिपल्लवाः ।
मोहनव्रततेः कामं स्फुरंतः पल्लवा इव ॥ १८ ॥
गोलकत्रितयोच्छाल—च्छलेन भुवनत्रयीं ।
सा जगादेव लोकानां कृतां स्वशयशायिनीं ॥ १९ ॥
अंगुल्यग्रभ्रमचक्र—दंभेन युवतीजने ।
रूपलावण्यसौंदर्यैः सा दधौ चकितामिव ॥ २० ॥
१३ ] नर्तकीगायनम् ११३
कर्णोपांतभ्रमच्चक्र—व्याजात्स्माहेव तां शशी ।
ममोपमा तवास्थस्य भ्रम एव विपश्चितां ॥ २१ ॥
कर्पूरपरमाणूनां व्याजाल्पमानि पादयोः ।
भ्रमिभिर्भ्रामयंतीव रेजे यूनां मनांसि सा ॥ २२ ॥
मयूरासनबंधेन नृत्यंती विलुलोप सा ।
वाच्यं विधेर्मयूरस्य दुःखमाधानसंभवं ॥ २३ ॥
अंगहारतयाहार—लता तस्यास्तनायतः ।
रराज बिसवल्लीव चक्रचंच्वग्रसंस्थिता ॥ २४ ॥
लास्येन धनुषीवास्याः पश्चाद्वपुषि संनते ।
पाष्णिंसंस्पार्शिनीवेणि जीवाभावमजीजिवत् ॥ २५ ॥
सभ्यानामसकृत्तस्यां दृष्टिरापादमस्तकं ।
चक्रेवरोहमरोहं वलत्यां वानरी यथा ॥ २६ ॥
तांडवं निर्मिमाणेति सा तालत्रुटनक्षणे ।
अधस्थाय शक्रेंद्राय पश्चाद्भागमदीदृशत् ॥ २७ ॥
शक्रेशस्तेन दूतात्मा सभाध्यक्षमदो वदत् ।
धनुर्धरः स कोप्यस्ति वेध्यमेनां तनोति यः ॥ २८ ॥
अवदत्सोदरो राजन् गुप्तौ स्थितोस्ति यः पुरा ।
उड्डानसिंहस्तं हित्वा नान्येनात्र प्रभूयते ॥ २९ ॥
सद्यः शक्रेशोथानाय्य भंक्त्वा निगडसंचयं ।
द्विधापि स्नेहदानेन तं सज्जांगमचीकरत् ॥ ३० ॥
ततः स सज्जीभूतांगो ऽनन्यसाधारणं धनुः ।
आदायान्हाय तां पापो विव्याध व्याधवन्मृगीं ॥ ३१ ॥
मूर्च्छामतुच्छामृच्छंती बाणघातेन तेन सा ।
उपत्यकायां न्यपत दिवो विद्युदिव द्युता ॥ ३२ ॥
नृपादयस्ततो लोकाः क्षण वैलक्ष्यलक्षिताः ।
धानुष्कतां स्तुवंतोस्य मूर्धानं दुधुवुर्मुहुः ॥ ३३ ॥
15 k
११४ श्रीहम्मीरमहाकाव्ये [ सर्गः
तन्मर्म महिमासाहि र्बिभ्रत् हृदि परेदिवि ।
शकेशं वेद्ध्यतां नीत्वा हम्मीरमिदमब्रवीत् ॥ ३४ ॥
यद्यादिशति भूनाथो मामिदानीं तदा रिपुं ।
शरसारत्तरसा कुर्वे धारामिव धनंजयः ॥ ३५ ॥
नृपोवमिहितेत्रामा रंस्येहं केन संगरे ।
हित्वा तं महिमासाहे जह्युड्डानं धनुर्धरं ॥ ३६ ॥
शकेशवेध्येनासाद्या देशं दूनमनास्ततः ।
हत्वा तं महिमासाहि र्धिगित्यौज्झद्धनुः करात् ॥ ३७ ॥
चकितस्तद्दिनाशेन सद्यः सोपि शकेश्वरः ।
त्यक्त्वा सरः पुरोभागं तत्पृष्ठे शिविरं न्यधात् ॥ ३८ ॥
ढौकनानि ततोभ्येत्य दायंदायमनेकधा ।
खिन्नोसौ दापयामास सुरंगां समयागिरिं ॥ ३९ ॥
उपलैर्मृत्तिकापूरै र्दलकैस्तृणपूलकैः ।
परिखां पूरयामास सोदरश्वान्यदेशतः ॥ ४० ॥
कियद्भिरप्यथो मासैः सिद्धेनौपयिकद्वये ।
शका दुढौकिरे योद्धुमादिष्टाः शकभूभुजा ॥ ४१ ॥
विज्ञाय चाहमानास्त त्परिखां वह्निगोलकैः ।
अदहन् जतुतैलं च सुरंगायां प्रचिक्षिपुः ॥ ४२ ॥
तेन तैलेन पूर्णायां सुरंगायां द्विषद्भटाः ।
उदच्छलन् यथा मीनाः सरस्यां ज्वलदंभसि ॥ ४३ ॥
चीत्कारान्मुमुचुः केपि कंठस्थैर्भापिता भटैः ।
यष्टिलोष्ठकरैर्डिंभै रिव श्वानोधुमध्यगाः ॥ ४४ ॥
तत्तैलदग्धसर्वांगा बभूवुर्द्विषतां भटाः ।
क्षणारुणक्रमश्याम-तप्तायोगोलसन्निभाः ॥ ४५ ॥
ज्वलदंगसमुद्भूतो-च्छलत्कीलावलिच्छलात् ।
तेजांस्यपि शकांगेभ्यो नेशुर्दाहभयादिव ॥ ४६ ॥
१३] वर्षाकालवर्णनम् ११५
शकाधीशः शकेरैतां सुरंगां यैरचीखनत् ।
अपूपुरन् द्राग्दोषमंत स्तेषामेव कलेबरैः ॥ ४७ ॥
इत्थं दुर्गजिघृक्षायै यान्यान्यत्नान् शकेश्वरः ।
असृजत्सततं तांस्ता नवकेश्यूकरोन्नृपः ॥ ४८ ॥
ततो दुर्गं शकेन्द्रोऽसौ हातुमादातुमक्षमः ।
दिने दिनेप्यवांसीद दुर्गो गिरिकामिव ॥ ४९ ॥
दिवानिशं स योगीवा—शेषसौख्यपराङ्मुखः ।
दृष्टिमेकां ददौ दुर्गे परां च क्षितिमंडले ॥ ५० ॥
दुर्गाग्रहणदुःखामिप्लुष्टमस्याय मानसं ।
प्रसेक्तुमिव पायोदः प्रोन्ननाम नभोगणे ॥ ५१ ॥
बर्हिणो व्यदधन्केका उन्नीयोन्नीय कंधरां ।
आव्हयंत इवांभोदं मिलितुं चिरमागतं ॥ ५२ ॥
वीक्ष्याभ्युन्नतमंभोदं केकाव्याजेन केकिनः ।
कदा गामीति पप्रच्छु हर्षार्दोक्तिभंगिभिः ॥ ५३ ॥
उद्गीते केकिभिर्गीते तूर्यते घनगर्जिते ।
ननर्त्त नर्त्तकीवोच्चै स्तडिद्रंगनमंडपे ॥ ५४ ॥
सांद्रोद्गमोलसन्नील—तृणश्रेणिच्छलात्क्षितिः ।
मेघप्रियागमप्रीता पर्यधादिव कंचुकं ॥ ५५ ॥
दधत्यंबुनिधेः स्पर्धां सरांसीह रराजिरे ।
त्रुटित्वा वारिभारेणा—भ्राणीव पतितान्यधः ॥ ५६ ॥
वियोगिनीनां नेत्राणि व्योम्यभ्रपटलानि च ।
मिथः स्पर्धां दधंतीव वर्षतिस्माधिकाधिकं ॥ ५७ ॥
किरत्सूचीसंचारा—धारावारिधरे भृशं ।
वियोगिनीनां लावण्यं जगालेति किमद्भुतं ॥ ५८ ॥
शंभोः परिभवात्त्यक्त—मधुचापोऽधुना स्मरः ।
वर्षासखस्तडिदंभा दसिभ्रममिवातनोत् ॥ ५९ ॥
११६ श्रीहम्मीरमहाकाव्ये [सर्गः
वारिदेन तदासिक्ता रराजे भूरि भूरियं ।
कांतक्रांतोपभुक्तायाः छायान्येव मृगीदृशः ॥ ६० ॥
अंभोधरस्य ग्रीष्मर्तुं निर्जित्य विशतः सतः ।
स्फूर्जद्गज्जिच्छलात्प्रादु—रासंस्तूर्यस्वना इव ॥ ६१ ॥
अंगानि कानि सिक्तानि कानि सेच्यानि वा भुवः ।
इति विद्युतप्रकाशेन ददर्शैव घनाघनः ॥ ६२ ॥
मालतीकुटजामोद—हारी सृष्टपयःकणः ।
लतालास्यकलाचार्यो ववौ वर्षासमीरणः ॥ ६३ ॥
क्षेत्प्रं च सरःप्रं च गात्रस्त्राणमपि क्वचित् ।
चेलत्कोपं तदा वर्ष न्नाहो वंध्यं व्यधाद्धनः ॥ ६४ ॥
यथा यथा जगर्जायं स्तनयित्नुस्तथा तथा ।
प्रियाः शकानां चक्रंदुर्बाहुजैर्विधवीकृताः ॥ ६५ ॥
इलामधःकर्दमीलां धारा उपरिपातिनीः ।
विलोक्य यवनाः सेवा-व्रते वैराग्यमासदन् ॥ ६६ ॥
अमुंचंस्तुरगारंग मगच्छन्कृशतां द्विपाः ।
अक्षुभ्यन् स्यंदना धात्र्यां जनान्दंशा उपाद्रवन् ॥ ६७ ॥
इत्यालोक्यांबुमुक्कालं साक्षात्कालमिवागतम् ।
यथाकथंचित्संधान मचिकीर्षच्छकाधिपः ॥ ६८ ॥
आजुहाव ततो दूतै रतिपालं शकाधिपः ।
शकेशः किंकिमाहेति हम्मीरोप्यन्वमन्यत ॥ ६९ ॥
रतिपाले गते जाते संधाने चलिते शके ।
वृथा नो दोषभृतेत्याप रणमल्लस्तदा रुषं ॥ ७० ॥
आयाते रतिपालेऽथ स मायावी शकेश्वरः ।
उपावीविशदेतं स्वा—सनेभ्युत्थानपूर्वकं ॥ ७१ ॥
अरंजयच्च कूटेन मानैर्दानैरनेकधा ।
कूटोपजीविनः किंवा कूटे मुह्यंति कुत्रचित् ॥ ७२ ॥
१३] रतिपालशकसंवादः ११७
अपवार्य सभास्तारान् भ्रातृमात्रद्वितीयकः ।
रतिपालं जगादैष विस्तार्याग्रे सिचाँचलं ॥ ७३ ॥
अल्लावदीनं इत्याख्यः सोहं शककुलाधिपः ।
दुर्गाण्यनेकशो येन दुर्ग्राह्याण्यपि जिग्यिरे ॥ ७४ ॥
इदानीमस्वसात्कृत्वा यदि दुर्गं व्रजाम्यदः ।
ज्वलदग्न्युत्सवलीव तन्मे कीर्तिः कियच्चिरं ॥ ७५ ॥
स्वसात्कर्तुं बलेनैतत्सहस्राक्षोपि न क्षमः ।
परं भाग्यात् त्वमायासीः सिद्धमस्मत्समीहितं ॥ ७६ ॥
तद्यतस्व तथा तूर्णं यथा स्यां सत्यसंगरः ।
एतद्राज्यं तवैवास्तु जयेच्छुः केवलं त्वहं ॥ ७७ ॥
दुराचारो यदाचारो माया यत्सहचारिणी ।
अनृतं यत्पदं न्यासः क्रोधो यत्पारिपार्श्वकः ॥ ७८ ॥
अत्रांतरे कलिर्नाम लोभं कृत्वा तमग्रतः ।
विविशे रतिपालस्य मनोदुर्गं सुदुर्ग्रहं ॥ ७९ ॥ युग्मं
रतिपालमनोदुर्गं बलाद्गृहंस्तदा कलिः ।
शकुन्यभूच्छकेशस्य रणस्तंभं जिघृक्षतः ॥ ८० ॥
अंतरंतःपुरं नीत्वा शकेशस्तमभोजयत् ।
अपीप्यत्तद्भगिन्या च प्रतीत्यै मदिरामपि ॥ ८१ ॥
प्रतिश्रुत्य शकेरोक्तं ततः सर्वं स दुर्मतिः ।
विरोधोद्बोधिनीर्वाचो गत्वा राज्ञे न्यरूपयत् ॥ ८२ ॥
देवाहंकारलंकेशो निजगाद शकेश्वरः ।
हम्मीरः किमयं मूढः पुत्रीं मे न प्रयच्छति ॥ ८३ ॥
यद्वा मापादसौ किं त्व—ल्लावदीनोस्मि नो तदा ।
पुत्रीमयच्छतोमुष्य नाददे यदि वल्लभाः ॥ ८४ ॥
किंवातं यद्यगुर्वीरा भूयांसोपि परासुतां ।
किं द्वित्रिपदभंगेपि खर्जूरो याति खंजतां ॥ ८५ ॥
११८ श्रीहम्मीरमहाकाव्ये [सर्गः
किं जातं नीयते कोशो यदि निःकोशतां व्ययैः ।
किं शुष्यति समुद्रोपि वारिभिर्वारिदाहृतैः ॥ ८६ ॥
खरे प्रयाहि यत्कर्त्ता कर्त्ता तद्भवित्ता ध्रुवं ।
भर्त्सनापरसेवं तं निर्भर्त्स्याहमपीयिवान् ॥ ८७ ॥
विशंके रणमल्लोसौ रुष्टः केनापि हेतुना ।
तेनाज्ञायि ध्रुवं येन दृढां प्रौढिं वहत्यसौ ॥ ८८ ॥
तत्पंचषैर्जनैर्युक्तो गत्वा सायं तदालयं ।
तं प्रसादय सद्योपि किमात्रोसौ शकेश्वरः ॥ ८९ ॥
खरायिलेति भूकांतं रणमल्लारुरंजने ।
वीरमं निकषाभूय रतिपालो विनिर्ययौ ॥ ९० ॥
तदा चास्य मुखाद्गन्धः प्रससार मदोद्भवः ।
अंगादन्यप्रियाश्लेषसंशील्यी इवानिलः ॥ ९१ ॥
दाक्ष्यात् विज्ञायते नैनं संगतं शत्रुभूफ्तेः ।
नृपं विज्ञापयामास वीरमो रहसि स्थितं ॥ ९२ ॥
निर्यतोस्य मुखाद्राजन् मदगंधस्तथा ययौ ।
जाने यथैष पापीयान्निश्चितं संगतो द्विषः ॥ ९३ ॥
कुलं शीलं मतिर्लज्जाऽभिमानः स्वामिभक्तता ।
सत्यं शौचं च न क्वापि जृंभते मद्यपायिनि ॥ ९४ ॥
अकृत्यकरणागम्य—गमनाभक्ष्यभक्षणात् ।
मद्यं विशिष्यते यस्मादस्मात्संपद्यते त्रयं ॥ ९५ ॥
तथा हि स ऋषिः पीत्वा मधु वेश्यामरीरमत् ।
असिस्वदच्च गोमांसं लिंगभंगमरीरचत् ॥ ९६ ॥
असिसात् क्रियते स्वामिंस्ततो यद्येवमेव तत् ।
स शकेशो निष्फलांभःसद्यस्तर्हि प्रयात्यसौ ॥ ९७ ॥
वाचमाचम्य तस्येत्थं विश्रम्य क्षणमायतौ ।
उपाददे नृपो वाचं वंचितामृतचंचुतां ॥ ९८ ॥
१३ ] रतिपालविज्ञप्तिः ११९
उदेति काले कस्मिंश्चित्प्रतीच्यामपि भास्करः ।
भज्यमानं परं दुर्गं न तिष्ठेदिति मे मतिः ॥ ९९ ॥
तदस्मिन्निहते जाते दुर्गभंगे च दैवतः ।
लोकानिति प्रजल्पाकान्निरोद्धुं कतमः क्षमः ॥ १०० ॥
ध्रुवं सपरिवारोपि दुर्मतिर्विभुरेष नः ।
यदेवमविमृश्यैव रतिपालं प्रजघ्निवान् ॥ १०१ ॥
जीवत्यत्र दुर्गेस्मिन् विलसंतीति किं शकाः ।
पारीन्द्रे सति किं तस्य गुहायां कोपि दीव्यति ॥ १०२ ॥
हनूमदयनं यद्व दभविष्यज्जितेऽमुना ।
हतेत्र भविता तद्व द्रतिपालायनं क्षितौ ॥ १०३ ॥
विरम्यतां तदेतस्मा द्भाव्यमस्ति यदस्तु तत् ।
रावणादिभिरप्युच्चै र्न भाव्यं रुरुधे यतः ॥ १०४ ॥
उक्तेति विरते राज्ञि प्रससार पुरांतरे ।
वार्ता नृपं शकाधीशो यत्पुत्रीमेव याचते ॥ १०५ ॥
इतश्च राजपत्नीभि रनुशास्य प्रणोदिता ।
पुत्री देवलदेवीति नत्वा भूपं व्यजिज्ञपत् ॥ १०६ ॥
हाहा तात मदर्थं किं राज्यं विप्लावयस्यदः ।
किं कीलिकार्थं प्रासादं प्रपातयति कश्चन ॥ १०७ ॥
प्रभूता अपि पुत्राः किं कुर्युः पूर्वे तमौगजाः ।
परार्थमेव वर्धेत या क्षुद्रश्रीरिवान्वहं ॥ १०८ ॥
मत्प्रदानेन साम्राज्यं चिरं यत्क्रियते स्थिरं ।
तत्काचखंडदानेन रक्षा चिंतामणेर्न किं ॥ १०९ ॥
परासोर्येत्र कुत्रापि जीवंति तनुजा वरं ।
दृष्टाहि पुनरावृत्तिर्जीवतां न गतायुषां ॥ ११० ॥
नीतिः स्वहितमालोच्य व्ययं कुर्याद्विचक्षणः ।
तत्तात् मयि दत्तायां किं किं भावि न ते हितं ॥ १११ ॥
१२० श्रीहम्मीरमहाकाव्ये [सर्गः
जामाता भूपतिस्तादृक्सुखं स्वक्षितिरक्षणं ।
खलूक्त्वा बहु सर्वेषां वयमेव किलोपरि ॥ ११२ ॥
त्यजेदेकं कुलस्यार्थे नीतिरित्याह वाक्पतिः ।
त्रातुमावर्धितं क्ष्मा मां ददतस्तव का क्षतिः ॥ ११३ ॥
तन्निधेहि धियं तत्त्वे विधेहि समयोचितं ।
पिधेहि मा च मद्वाक्यं शकेंद्राय प्रदेहि मां ॥ ११४ ॥
अयशःपटनिर्माणतुरीं तच्चातुरीमिति ।
श्रुत्वा भृशं स जज्वल नृपतिस्तर्पिताग्निवत् ॥ ११५ ॥
जगाद च सुते नैत त्ध्रुवं त्वन्मतिवल्गितं ।
अस्पृष्टपापपंकानां कुमारीणामधीरिरिति ॥ ११६ ॥
शिक्षयित्वेति पापिन्या त्वमिह प्रेषिता यया ।
छिनद्मि रसनां तस्या बिभेमि स्त्रीवधान्न चेत् ॥ ११७ ॥
त्वद्दानेन यदिष्येत प्राज्यराज्यसुखासिका ।
त त्किं न जीवितव्याशा पुत्रकालेयभक्षणैः ॥ ११८ ॥
त्यजेदेकं कुलस्यार्थे इति नीतिं यदभ्यधाः ।
शैशवात्तन्न तेद्यापि तत्परार्थे समर्थता ॥ ११९ ॥
त्याज्य एकः कुलस्यार्थे तस्माद्धीनतरः स चेत् ।
अहिटष्टो यथांगुष्ठः छेद्यो जिव्हापि किं तथा ॥ १२० ॥
सत्यामप्यासमुद्रोव्यां कुले सारं त्वमेव नः ।
न चेच्छकोपि तां हित्वा कथं त्वामेव याचते ॥ १२१ ॥
यदूचे मयि दत्तायां किंकिं भावि.न ते हितं ।
तदेतदपि ते बाल—लीलोन्मीलितमंगजे ॥ १२२ ॥
सर्वात्मना निकृष्टाय प्रकृष्टाय गवाशिने ।
शकाय त्वयि दत्तायां कुतो हंत हितार्जनं ॥ ॥ १२३ ॥
अयशःपटहो लोके परलोके च दुर्गतिः ।
स्वकुलाचारविध्वंसो धिक् नृणां जीवितं ततः ॥ १२४ ।
[१३] देवलदेवीकन्यासम्वादः १२१
दुर्लभं नृभवं प्राप्य द्वयमेवार्ज्जयेत्सुधीः ।
कीर्त्तिं धर्मं च तौ सम्य—कुलाचारप्रपालनात् ॥ १२५ ॥
पूर्वाचारं निहत्याच्चैः सुखं हंत चरंति ये ।
आज्ञालोपान्न किं पापै र्हतास्तैः पूर्वजा निजाः ॥ १२६ ॥
आचाहमानमप्यादौ यैर्न्नाकृत्यं कृतं पुरा ।
तत्कुर्वन्नधुनाऽहं तान् कथं वक्ता स्वपूर्वजान् ॥ १२७ ॥
[यतः]पितुर्युपरते यस्तु नोद्वहेत्पैतृकीं धुरं ।
तेन नैवोपदेष्टव्याः स्वस्य वंशस्य पूर्वजाः ॥ १२८ ॥
बद्धवाचं विधायेति प्रतीपोक्तितरंगितैः ।
स्वावासं प्रेषयामास सदस्यां क्षितिवासवः ॥ १२९ ॥
इतः स रतिपालोपि तूर्णं गत्वा तदालयं ।
कलयन्नाकुलीभावं रणमल्लमभाषत ॥ १३० ॥
भ्रातः किं सुखमासीन त्वरस्व प्रपलायितुं ।
सेवाहेवाकिनां शत्रुर्बद्धुमभ्येति यद्विभुः ॥ १३१ ॥
सुधांशौ विषवत्त्वस्मि न्नैतत्संभाव्यते कथं ।
इत्याक्षिप्तवचास्तेन रतिपालः पुनर्जगौ ॥ ॥ १३२ ॥
स पंचपैर्जनैर्युक्तो यदि सायं त्वदालयं ।
एति तन्मे वचः सत्य मित्युक्तासावगाद्गृहं ॥ १३३ ॥
अथ दृष्ट्वा यथादिष्ट मायांतं स क्षितीश्वरं ।
जातप्रतीतिरुत्तीर्य दुर्गाद्भीत्यामिलद्रिपोः ॥ १३४ ॥
उत्तीर्य रतिपालोपि दुर्गात् स्वर्गादिवोच्चकैः ।
शिश्राय निरयावासमिवावासं शकेशितुः ॥ १३५ ॥
तयोस्तच्चेष्टितं दृष्ट्वा कलिं धिकलयन्नयं ।
कोशेऽन्नं कियदस्तीति नृपः पप्रच्छ जाहडं ॥ १३६ ॥
वदामि यदि नास्तीति तदा संधिर्भवेद्ध्रुवं ।
भाव्यर्थभावाद्वचालेति जगौ न कियदित्यसौ ॥ १३७ ॥
16 k
१२२ श्रीहम्मीरमहाकाव्ये [ सर्गः
कुर्वन्नपि हितं मूर्खोऽहितायैव प्रगल्भते ।
अत्रोदाहरणं व्यक्तं किन्न पश्यत जाहडं ॥ १३८ ॥
तद्गिरा चिंतयाचांतो भूकांतोभ्येत्य मंदिरं ।
उच्चेंद्रे विगलत्तंद्र श्चेतसीति व्यचिंतयत् ॥ १३९ ॥
अमानैरपि सन्मानै र्दानैस्तैस्तैरनेकधा ।
पूजितौ सत्कृतौ शश्व द्वौ मया भ्रातराविव ॥ १४० ॥
यदि तावप्यहो स्वामिद्रोहमेवं प्रचक्रतुः ।
तदा स्वभावनीचानां परेषां गणनास्तु का ॥ १४१ ॥
साजात्यात्तस्य संगम्य रिपोश्चेन्मुद्गला अमी ।
परः प्रेममदुस्तस्य महद्भावि विडंबनं ॥ १४२ ॥
यथा कथंचिदर्हास्त द्विसृष्टुं स्वपुरादमी ।
परः प्रेमपरोऽप्युच्चैः परत्वं यन्न मुंचति ॥ १४३ ॥
एतस्मिन्नंतरे द्वास्थो विदग्धः कोपि मागधः ।
प्रत्यूषोन्मेषकं काव्य-द्वयमेतदपीपठीत् ॥ १४४ ॥
कोकीनिश्वासवातज्वलिततमतमौंगारवैभातरागा-
र्चिष्मत्स्वर्व्योममूषाजठरविनिहितेपास्तनिःशेषदोषे ।
क्षित्वा प्रत्यूषकल्कं शशभृति विशदे पारदे कालयोगी
भास्वंतं निर्मिमीते नवमिव कनकं भूषणार्थं दिनस्य ॥ १४५ ॥
आयातेन वितन्वता हृदि करस्पर्शं भृशं प्रेयसो-
न्निद्रत्वं गमितापि तिग्मरुचिना यांतीव निद्रालुतां ।
अप्रौढेव सरोजकोशविगलद्भृंगावलीझंकृतैः
सोत्कंपं वितनोति पश्य नलिनी प्रौढाप्यहो हुंकृतिं ॥ १४६ ॥
प्रीतस्तदर्थचारिणा नृपस्तत्पारितोषिकं ।
दत्वा क्षणमुपाक्रांस्त ब्राह्ममौहूर्तिकीं क्रियां ॥ १४७ ॥
अथ प्रातरधिश्रित्य सभां स क्षितिवल्लभः ।
स्वतत्सोदराध्यक्षं महिमासाहिमब्रवीत् ॥ १४८ ॥
१३] हम्मीरस्वर्गगमनवर्णनम् १२३
प्राणानपि मुमुक्षामो वयमात्मक्षितेः कृते ।
क्षत्रियाणामयं धर्मो न युगांतेपि नश्वरः ॥ १४९ ॥ -
स एव क्षत्रियः प्राणां-तेपि यो हुंकृतौ क्षमः ।
कि नोदाह्रियते व्यक्त मिह राजा सुयोधनः ॥ १५० ॥ -
यूयं वैदेशिकास्तद्वः स्थातुं युक्तं न सापदि ।
यियासा यत्र कुत्रापि ब्रूत तत्र नयामि यत् ॥ १५१ ॥
नृपस्य वचसा तेन प्रासेनेव हतो हृदि ।
मूर्छया प्रपतन्मुच्चै रवष्टब्ध इव क्रुधा ॥ १५२ ॥
एवमस्त्विति जल्पाको महिमाभ्येत्य मंदिरं ।
कुटुंबमसिसात्कृत्वा नृपं गत्वेदमब्रवीत् ॥ १५३ ॥
पाणिगृहीती त्वद्भातु र्गंतुमुत्कंठिताप्यसौ ।
इलाविलासिनी कांतं मामाहेति सगद्गदं ॥ १५४ ॥
कातैतावंति वर्षाणि तस्थिवांसो यदोकसि ।
अप्यात्मानुभवं नैवा स्माष्मं शत्रुपराभवं ॥ १५५ ॥
यस्य प्रसादैः संप्राप्त—सौख्यलक्षैर्निरंतरं ।
अबोधि नापि तिग्मांशुरुदितोस्तमितोपि वा ॥ १५६ ॥ -
तमिदानीमदृष्ट्वैव यद्येवं नाथ गम्यते ।
पश्चात्तापहृतं तर्हि मनः केनोपशाम्यति ॥ १५७ ॥
प्रसाद्यागत्य तत्सद्यो मंदिरं मेदिनीपते ।
स्वदर्शनामृतैः पश्चा तापतप्तां निर्षिंचतां ॥ १५८ ॥
एवमभ्यर्थितस्तेन महिमासाहिना विभुः ।
आलंब्य तद्भुजादंडं सादरं सानुजोचलत् ॥ १५९ ॥ -
आसाद्य तद्गृहं भूपो यावदंतर्विशत्यसौ ।
कुरुक्षेत्रमिवाद्राक्षी त्तावत्सर्वं तदंगणं ॥ १६० ॥ -
अस्रक्पूरे शिरांसीह शिशूनां योषितामपि ।
तरंत्यवेक्ष्य मूर्च्छालः क्ष्मापालः क्ष्मातलेऽपतत् ॥ १६१ ॥ -
१२४ श्रीहम्मीरमहाकाव्ये [सर्गः
बंधूनां वीरमादीनां विमूर्छोत्थाश्रुसेवनैः ।
लगित्वा महिमासाहेः कंठे व्यलपदित्यसौ ॥ १६२
हा कंबोजकुलाधार हा कीर्तिकुलमंदिर ।
हानन्यजन्यसौजन्य हा धन्यतमविक्रम ॥ १६३ ॥
हा क्षत्रैकव्रतागार हा विश्वजनवत्सल ।
कथंकारं भविष्यामि प्राणदोप्यनृणस्तव ॥ १६४ ॥
मत्तो नैवाधमः कोपि त्वत्तो नैवोत्तमः परः ।
अद्यायं मंदधी स्तादृग्दृग्प्रेम्ण्यपि यत्त्वयि ॥ १६५ ॥
प्रातिकूल्याद्विधेर्जाता ममेयं यदि दुर्मतिः ।
आश्चक्रियेतत्तत् किं त्वं यदा भाव्यं हि नान्यथा ॥ १६६ ॥
पुमानात्महितं कर्तुं धियं—त्यनेकधा ।
सा सतीव पतिं क्वापि भवितव्यं जहाति न ॥ १६७ ॥
अन्यथैव विचार्यंते पुरुषेण मनोरथाः ।
दैवादाहितसद्भावा कार्याणामन्यथा गतिः ॥ १६८ ॥
विनिवृत्तस्ततो मान मन्नमालोक्य कोष्ठगं ।
किमेतदिति पप्रच्छ जाहडं जगतीपतिः ॥ १६९ ॥
उक्तायामथ तेनात्म-बुद्धौ प्रोवाच पार्थिवः ।
खन्मतौ पतताद्वज्रं यया जज्ञे कुलक्षयः ॥ १७० ॥
ततः प्रदाय पौराणां मुक्तिद्वारं स युक्तिवित् ।
प्रवेष्टुं ज्वलने शिष्टमतिरादिष्टवान् प्रियाः ॥ १७१ ॥
स्वयं च कृतदानादि-धर्मोऽर्चितजनार्दनः ।
क्षणं पद्मसरस्तीरे निषसाद विषादमुक् ॥ १७२ ॥
आरंगदेविप्रमुखो अथ ता दिव्यभूषणाः ।
तत्र स्नात्वा नृपं नत्वा तस्थुरूर्ध्वदमाः पुरः ॥ १७३ ॥
कस्याश्चित् कर्णयोः स्वर्ण—कुंडले रेजतुस्तमां ।
चक्रे इव जगज्जैत्रे रतितत्प्राणनाथयोः ॥ १७४ ॥