सामग्री पर जाएँ
सर्वकोश
हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)

हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)

Hammira Mahakavya with Hindi Commentary

नयचन्द्र सूरि / डॉ. दशरथ शर्मा द्वारा

DevanagariSanskritpublished185 पृष्ठ

पृष्ठ 162, कुल 185 में से

संदर्भ में पढ़ें
पृष्ठ 162

११४ श्रीहम्मीरमहाकाव्ये [ सर्गः
तन्मर्म महिमासाहि र्बिभ्रत् हृदि परेदिवि ।
शकेशं वेद्ध्यतां नीत्वा हम्मीरमिदमब्रवीत् ॥ ३४ ॥
यद्यादिशति भूनाथो मामिदानीं तदा रिपुं ।
शरसारत्तरसा कुर्वे धारामिव धनंजयः ॥ ३५ ॥
नृपोवमिहितेत्रामा रंस्येहं केन संगरे ।
हित्वा तं महिमासाहे जह्युड्डानं धनुर्धरं ॥ ३६ ॥
शकेशवेध्येनासाद्या देशं दूनमनास्ततः ।
हत्वा तं महिमासाहि र्धिगित्यौज्झद्धनुः करात् ॥ ३७ ॥
चकितस्तद्दिनाशेन सद्यः सोपि शकेश्वरः ।
त्यक्त्वा सरः पुरोभागं तत्पृष्ठे शिविरं न्यधात् ॥ ३८ ॥
ढौकनानि ततोभ्येत्य दायंदायमनेकधा ।
खिन्नोसौ दापयामास सुरंगां समयागिरिं ॥ ३९ ॥
उपलैर्मृत्तिकापूरै र्दलकैस्तृणपूलकैः ।
परिखां पूरयामास सोदरश्वान्यदेशतः ॥ ४० ॥
कियद्भिरप्यथो मासैः सिद्धेनौपयिकद्वये ।
शका दुढौकिरे योद्धुमादिष्टाः शकभूभुजा ॥ ४१ ॥
विज्ञाय चाहमानास्त त्परिखां वह्निगोलकैः ।
अदहन् जतुतैलं च सुरंगायां प्रचिक्षिपुः ॥ ४२ ॥
तेन तैलेन पूर्णायां सुरंगायां द्विषद्भटाः ।
उदच्छलन् यथा मीनाः सरस्यां ज्वलदंभसि ॥ ४३ ॥
चीत्कारान्मुमुचुः केपि कंठस्थैर्भापिता भटैः ।
यष्टिलोष्ठकरैर्डिंभै रिव श्वानोधुमध्यगाः ॥ ४४ ॥
तत्तैलदग्धसर्वांगा बभूवुर्द्विषतां भटाः ।
क्षणारुणक्रमश्याम-तप्तायोगोलसन्निभाः ॥ ४५ ॥
ज्वलदंगसमुद्भूतो-च्छलत्कीलावलिच्छलात् ।
तेजांस्यपि शकांगेभ्यो नेशुर्दाहभयादिव ॥ ४६ ॥