सामग्री पर जाएँ
सर्वकोश
हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)

हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)

Hammira Mahakavya with Hindi Commentary

नयचन्द्र सूरि / डॉ. दशरथ शर्मा द्वारा

DevanagariSanskritpublished185 पृष्ठ

पृष्ठ 155, कुल 185 में से

संदर्भ में पढ़ें
पृष्ठ 155

१२ ] प्रथमदिनयुद्धवर्णनम् १०७
मत्पावनेऽद्य समरे तनुत्यजां भावी समागम इति प्रमोद्तः ।
भ्रष्टांतरभ्रमदिषुव्रजच्छला रोमांचितांगमिव दिद्युते नभः ॥ ३७ ॥
वीरैः प्रकाममभिमुक्तपत्तिणां नीरंध्रमंबरतले प्रसर्पतां ।
अंतः प्ररूढैर्नभवादिव क्षमः क्षेतुं न तीव्रकिरणोऽप्यभूत्करान् ॥ ३८ ॥
वीरव्रतस्य ददतौकपालिकां मास्मांतरायमिह कार्षुरेतके ।
सांद्रेऽपि बाणनिवहे निपेतुषि स्फारान् स्फुरानिति न केप्यलासिषुः ॥ ३९ ॥
वायुं विजित्य तरसा पतत्स्विह श्वासैः पुरैव चलितं विरोधिनां ।
भित्त्वा तदंगमनुवेक्ष्य तानि वै—तत्पृष्ठ एव चलितं शरैरपि ॥ ४० ॥
पार्श्वद्वयस्थकरिदंतभासुर स्तत्कुंभपीठविलुठत्करांबुजः ।
शौर्यश्रियो भुजलता स्तनद्वयी—संस्पर्शसौख्यमितरोऽन्वभूत्तमां ॥ ४१ ॥
प्रोतोऽरिणा सह शरेण वाजिनः पृष्ठे न शल्यभृशसंनिवेशनात् ।
संप्राप्तवानपि परासुतां परो नाश्वात्पपात युधि जीववानिव ॥ ४२ ॥
आरोढुमन्यसुभटे प्रलंबिते—त्स्कंधौ रदस्थितपरांधिभासुरे ।
क्रोधाद्भ्रमन् करिवरो रणांगणे शुंडाद्वयीं दधदिव व्यभाव्यत ॥ ४३ ॥
द्वैधीकृते शिरसि पाणिना धृते चोर्ध्वं निहंतुमहितस्य चिंतयन् ।
संधागतेन्यशरशल्यतः परो दृप्यन्नधावत नियोद्धुमुद्धतः ॥ ४४ ॥
ऊर्ध्वं विदारितमरातिना शिरो भ्रश्यन्नियोजितमपि द्विधाप्यधः ।
स्वेनैव भिन्नजठरादुपाद्द्रुतै रंत्रैर्निबध्य युयुधे पुनर्भरः ॥ ४५ ॥
विस्मेरमारचरितां विकंचुकां स्नेहाधिकां विशदकांतिधारिणीं ।
छित्वा करं प्रतिभटस्य कोप्यला—त्तद्दलभामिव कृपाणवल्लरी ॥ ४६ ॥
आक्रम्य पादमुरुणैकमंघ्रिणा धृत्वा करेण च परं महाप्रहात् ।
लोकद्वयीमयमसाधयद्युधी—त्याख्यान्निव द्विरकृतेतरं करी ॥ ४७ ॥
याभ्यामहारि मम वल्लभाम्तन—श्रीस्ताविमाविति परोत्यमर्षणः ।
कुंभौ गजस्य समरे विदारयन् आधोरणप्रहृतिमप्यजीगणत् ॥ ४८ ॥
अन्योन्यदत्तकरवालवल्लरी—प्रौढप्रहारपरिभिन्नहृत्तया ।
कौचित्क्रतौ युधि भटौ परासुता मालिंगिताविव मिथोपि रेजतुः ॥ ४९ ॥