हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)
Hammira Mahakavya with Hindi Commentary
नयचन्द्र सूरि / डॉ. दशरथ शर्मा द्वारा
पृष्ठ 158, कुल 185 में से
संदर्भ में पढ़ें११० श्रीहम्मीरमहाकाव्ये [सर्गः
कस्याप्यपाकृतगणोन्नमार्गगो लक्षाय धावति तदा स्म धावतु ।
कोटिद्वये सति ननाम यद्धनुः सद्वंशजस्य न तदस्य सांप्रतं ॥ ७४ ॥
ज्योतिर्मयीभिरिह मूर्त्तिभी रणे व्याप्तेभितोपि गगने समिस्कृतां ।
नालक्षि दैवतगणैरपि क्षणं व्यक्तं सहस्रकिरणस्य मंडलं ॥ ७५ ॥
क्रोधारुणेक्षणरुचीचयाचितं कस्यापि कृष्टमरुचत् धनूरणे ।
कुंडं हविर्भुज इव स्फुरज्जय-श्रीकृष्टयेऽरिपपुशून् जुहूपतः ॥ ७६ ॥
क्रोधप्रधावितरथांघ्रिमर्दनात् व्युत्थत्करंकसविकाशशब्दितैः ।
जीवत्यहो मयि कथं भ्रमंत्यमी इत्यन्वशोत पतितः किलेतरः ॥ ७७ ॥
कुर्वद्भिरन्विह रणे पलायितान् धावद्द्रयस्खलनतां पदेपदे ।
वीरैर्जहे न विरुदं पलायितप्राकार इत्यनुगतं मृतैरपि ॥ ७८ ॥
संग्रामसंगमविनोदिवारण-प्रोक्षिप्तवीरवृतिलोलचेतसां ।
स्वर्योषितामपि तदा परस्परा माविर्बभूव दिवि दारुणो रणः ॥ ७९ ॥
प्रागेव मास्म सुरवल्लभा अमुं वृण्वन्निति स्फुरितवेगविस्तराः ।
आलिंग्य वल्लभमपासुमप्युर स्तन्यश्वितां प्रविविशुर्भुजाभृतां ॥ ८० ॥
छत्रैः सितांबुजमयीव कुत्रचित् कुत्रापि पल्लवमयीव पाणिभिः ।
कुत्रापि शैवलमयीव कुंतलै भ्रष्टै र्बभौ रणभृतां रणावनिः ॥ ८१ ॥
शस्त्रप्रहारभृशजातमूर्च्छया स्वारोहकेषु पतितेषु भूतले ।
हेषारवैः समिति जातगौरवै दुःखाद्विलापमिव वाजिनो व्यधुः ॥ ८२ ॥
द्विट्कुंभिकुंभविनिपातिमौक्तिक-श्रेणिप्ररूढरुचिराजिभू रभात् ।
वीरश्रियं प्रपरिरभ्य दोषमतां शय्येव पुष्पखचिता सुषुप्सतां ॥ ८३ ॥
वीरैर्निहत्य विनिपातिता रण-क्षोणौ बभुः करिवराः पदेपदे ।
सेतोः कृते हनुमतैव चालिताः शैला इवार्धपथ उज्झिता भरात् ॥ ८४ ॥
जग्मुर्मृतिं दशशतानि भटा इहेति जल्पन्निवाञ्चत करद्वितीयांगुलीभिः ।
नृत्यक्रियामभजतैकतरः प्रवीरः काबंधिकी महितवीरविलूनमौलिः ॥ ८५ ॥
इति तिरस्कृतभारतसारते रणभरे स्फुरिते दिवसद्वयीं ।
दिनकरः प्रतिवक्तुमिवावधिं चरमभूमिधराग्रमसेवत ॥ ८६ ॥