सामग्री पर जाएँ
सर्वकोश
हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)

हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)

Hammira Mahakavya with Hindi Commentary

नयचन्द्र सूरि / डॉ. दशरथ शर्मा द्वारा

DevanagariSanskritpublished185 पृष्ठ

पृष्ठ 160, कुल 185 में से

संदर्भ में पढ़ें
पृष्ठ 160

११२ श्रीहम्मीरमहाकाव्ये [सर्गः
स्फारकर्पूरपारीकं चंदनक्षोदमेदुरं ।
मृगनाभिस्फुरन्नाभि यदंगणमराजत ॥ ८ ॥
नूपुरस्थेंद्रनीलाश्म—दाम यत्स्फाटिकाश्मसु ।
निरीक्ष्य विवितं सर्प—भ्रांत्या लोकाश्चकंपिरे ॥ ९ ॥
अधो निबद्धभूभाग—प्रतिबिंबिततामिषात् ।
भोगींद्राणामपि सभां विजेतुं प्रस्थितेव या ॥ १० ॥
वीरशोभानृपात्तत्र दक्षिणे चारुलक्षणः ।
हासंहासं सृजन् गोष्ठीं रतिपालो रतिं दधौ ॥ ११ ॥
परीतो महिमासाहि स्त्रिभिरप्यनुजन्मभिः ।
व्यक्तामभजत्तत्र परमात्मा गुणैरिव ॥ १२ ॥
मार्दंगिका मृदंगानि वीणामपि च वैणिकाः ।
अपि वैणविका वेणुं यथातालमवीवदन् ॥ १३ ॥
रणद्वेणुझणत्कारा—नुकारिप्रसरत्स्वराः ।
गायना वीरहम्मीरकीर्तिस्फूर्तिंमगासिषुः ॥ १४ ॥
मिथोपि स्पर्धया वर्धमानत्वादिव संयते ।
दृढं चोलांतरीयाभ्यां स्तनश्रोणीप्रबिभ्रती ॥ १५ ॥
वपुर्वल्लिविलासेन मूर्छयंतीव कामिनः ।
कूणिताक्षप्रपातेनोज्जीवयंतीव मन्मथं ॥ १६ ॥ ❳ त्रिभिर्विशेषकं
प्रविश्य तत्र सभ्यानां मनसीव प्रमोदिनी ।
प्रवृत्ता नर्तितुं धारा देवी सोत्पश्य नर्तकी ॥ १७ ॥
तस्या लास्येन वेलंतो रेजिरे पाणिपल्लवाः ।
मोहनव्रततेः कामं स्फुरंतः पल्लवा इव ॥ १८ ॥
गोलकत्रितयोच्छाल—च्छलेन भुवनत्रयीं ।
सा जगादेव लोकानां कृतां स्वशयशायिनीं ॥ १९ ॥
अंगुल्यग्रभ्रमचक्र—दंभेन युवतीजने ।
रूपलावण्यसौंदर्यैः सा दधौ चकितामिव ॥ २० ॥