हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)
Hammira Mahakavya with Hindi Commentary
नयचन्द्र सूरि / डॉ. दशरथ शर्मा द्वारा
पृष्ठ 167, कुल 185 में से
संदर्भ में पढ़ें१३ ] रतिपालविज्ञप्तिः ११९
उदेति काले कस्मिंश्चित्प्रतीच्यामपि भास्करः ।
भज्यमानं परं दुर्गं न तिष्ठेदिति मे मतिः ॥ ९९ ॥
तदस्मिन्निहते जाते दुर्गभंगे च दैवतः ।
लोकानिति प्रजल्पाकान्निरोद्धुं कतमः क्षमः ॥ १०० ॥
ध्रुवं सपरिवारोपि दुर्मतिर्विभुरेष नः ।
यदेवमविमृश्यैव रतिपालं प्रजघ्निवान् ॥ १०१ ॥
जीवत्यत्र दुर्गेस्मिन् विलसंतीति किं शकाः ।
पारीन्द्रे सति किं तस्य गुहायां कोपि दीव्यति ॥ १०२ ॥
हनूमदयनं यद्व दभविष्यज्जितेऽमुना ।
हतेत्र भविता तद्व द्रतिपालायनं क्षितौ ॥ १०३ ॥
विरम्यतां तदेतस्मा द्भाव्यमस्ति यदस्तु तत् ।
रावणादिभिरप्युच्चै र्न भाव्यं रुरुधे यतः ॥ १०४ ॥
उक्तेति विरते राज्ञि प्रससार पुरांतरे ।
वार्ता नृपं शकाधीशो यत्पुत्रीमेव याचते ॥ १०५ ॥
इतश्च राजपत्नीभि रनुशास्य प्रणोदिता ।
पुत्री देवलदेवीति नत्वा भूपं व्यजिज्ञपत् ॥ १०६ ॥
हाहा तात मदर्थं किं राज्यं विप्लावयस्यदः ।
किं कीलिकार्थं प्रासादं प्रपातयति कश्चन ॥ १०७ ॥
प्रभूता अपि पुत्राः किं कुर्युः पूर्वे तमौगजाः ।
परार्थमेव वर्धेत या क्षुद्रश्रीरिवान्वहं ॥ १०८ ॥
मत्प्रदानेन साम्राज्यं चिरं यत्क्रियते स्थिरं ।
तत्काचखंडदानेन रक्षा चिंतामणेर्न किं ॥ १०९ ॥
परासोर्येत्र कुत्रापि जीवंति तनुजा वरं ।
दृष्टाहि पुनरावृत्तिर्जीवतां न गतायुषां ॥ ११० ॥
नीतिः स्वहितमालोच्य व्ययं कुर्याद्विचक्षणः ।
तत्तात् मयि दत्तायां किं किं भावि न ते हितं ॥ १११ ॥