सामग्री पर जाएँ
सर्वकोश
हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)

हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)

Hammira Mahakavya with Hindi Commentary

नयचन्द्र सूरि / डॉ. दशरथ शर्मा द्वारा

DevanagariSanskritpublished185 पृष्ठ

पृष्ठ 159, कुल 185 में से

संदर्भ में पढ़ें
पृष्ठ 159

१२ द्वितीयदिनयुद्धम् १११
शौर्येण प्रतिपक्षपक्षहृदयं स्वस्वामिभक्तव्रतै-
श्वेतांसि स्वविभोरसिप्रहृतिभिर्द्विद्विभिकुंभानपि ।
अंगैरंगणमाहवस्य विलसत्कीर्त्या च लोकत्रयीं
वीरा व्यानशिरेऽत्र योद्धृविसरश्रेयस्करे संगरे ॥ ८७ ॥
एतस्मिन्समरे वीरा यवनानां महौजसः ।
पंचाशीतिसहस्राणि यमावासमयासिषुः ॥ ८८ ॥
म्लेच्छानामथ दोष्मतामधीशितालावात्तावधिकालपालनात्तचित्तौ ।
वीरेंद्रात्कथमप्यमूनिवार्य युद्धात् भेजाते शिविरं निजं निजं रयेण ॥ ८९ ॥
इति श्रीजयसिंह० वीराङ्के दिनद्वयसंग्रामवर्णनोनाम द्वादशः सर्गः ॥

अथ त्रयोदशः सर्गः
अन्यदाथ क्षमानाथः स्फारशृंगारभासुर ।
अलंचकार शृंगारचंचरीं चतुराशयः ॥ १ ॥
निरीक्ष्य सहसा यत्रं भोभ्रांत्या स्फाटिकीः शिलाः ।
उत्संभार वस्त्राणि प्रक्मयनभयानकः ॥ २ ॥
रंभा ग्रावोद्भवा यत्र वीक्ष्य साक्षाज्जनं स्मरन् ।
फलेभ्यः स्पृहयन्नुच्चै नैकशः करमक्षिपत् ॥ ३ ॥
यत्र स्तंभेषुराजंत विचित्राः शालभंजिकाः ।
देव्यो नृदेवमालोक्य तद्गुणैस्तंभिता इव ॥ ४ ॥
यत्रोत्कृत्तेषु पद्मेशु सिस्वादयिषवो मधु ।
भृंगा निपत्य व्यर्थत्वात् हियेव शितितामगुः ॥ ५ ॥
यत्र स्फाटिकपांचाल्या—स्पेष्ध्वज्याश्रितालिषु ।
चकोराः शशभृद्दीक्षा—श्रदामह्व्यपूपुरन् ॥ ६ ॥
यत्कुट्टिमे पदप्रांता—रुणिमप्रतिबिंबनात् ।
रक्तं क्षौममिवास्तीर्णे पदन्यासाय भूभृतः ॥ ७ ॥