सामग्री पर जाएँ
सर्वकोश
हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)

हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)

Hammira Mahakavya with Hindi Commentary

नयचन्द्र सूरि / डॉ. दशरथ शर्मा द्वारा

DevanagariSanskritpublished185 पृष्ठ

पृष्ठ 157, कुल 185 में से

संदर्भ में पढ़ें
पृष्ठ 157

१२] द्वितीयदिनयुद्धम् १०९
संनद्धयोरथ च सैन्ययोर्द्वयो रानद्धहेममयकंटकैर्भटैः ।
स्वस्मिंस्तदा समरभूरपि स्फुटं प्राचीव कांचनरूचं दधौतमां ॥ ६१ ॥
मूर्च्छामितोपि किल कोपि विद्विष—त्खड्गप्रहारवशतो रणांगणे ।
तं लातुमागतमरीकरामृत—स्पर्शाद्विबुध्य युयुधे भृशं पुनः ॥ ६२ ॥
उत्प्लुत्य वीरकलशेन कोपिना मुक्तेन हस्तिपककुंभभूमिदा ।
कुंतेन भिन्न इतरः करी बभा—वालानलंबित इवाहवांगणे ॥ ६३ ॥
लग्नप्रतीभदशनद्वयीतया संरूढसिंधुमितदंतभासुरः ।
स्तंबेरमो रणभुवींतरो भ्रम—न्नैरावणेन सुलभां दधौ विभां ॥ ६४ ॥
लग्नारिवाणगणसंभवव्रण—श्रेणिप्रमत्तकरिकुंभमंडलात् ।
धारा निपेतुरसृजो मदस्य च स्पर्धां दध्य इतरेतरामिव ॥ ६५ ॥
कस्याप्युदग्रतरवारिदारिता दंत्राणि रेजुरुदरात्पतंत्यधः ।
आदातुमेकपदमैव तं दिवः क्षित्ताः सुरीभिरिव पाशपंक्तयः ॥ ६६ ॥
क्रुद्धे प्रधावणाय सिंधुरे वाहानुपर्युपरि वीक्ष्य पातिनः ।
देवैरहासि यदहो तदेव त—न्मौलौ बभूव सुमवृष्टिरुत्कटा ॥ ६७ ॥
उत्पाट्य बाहुमभिसन्निवेशनात् कुंतव्रणोच्छलितशोणितच्छटाः ।
वीरश्रियेव नवकुंकुमच्छटा दत्ता भटोरुषु विरेजिरेतमां ॥ ६८ ॥
स्वारोढुरुन्नततरान्निषादिनो हंतुं सुखेन वितरन् प्रवीणतां ।
श्रीवृक्षकी हयवरो रणांगणे स्वामुन्नतिं प्रविदधौ फलेग्रहिं ॥ ६९ ॥
उत्प्लुत्य भूत इभकुंभमाश्रितः स्वोजोर्जिताद्रुतयशःसितद्युतिः ।
मेघात्ययोध्र इव तुंगभूभृतः शृंगायलीन इतरो व्यराजत ॥ ७० ॥
संग्रामभूपतितवीरमर्दनात् पादांतलग्नलसदस्रकैतवात् ।
क्रीडन्परः समरपल्वले करी सेवालजालमिव बिभ्रदाबभौ ॥ ७१ ॥
एकः करी समरसीम्नि सादिनं चिक्षेप कंदुकमिवाधिपुष्करं ।
धृत्वा करेण च कटौ परो हयं प्रास्कालयद्रजकवस्त्रवद्भुवि ॥ ७२ ॥
धाराप्रपातकृतलोककौतुक स्तेजोवितानविलसच्छतह्रदः ।
कस्याप्यसिर्युधि पयोधरायितो युक्तं द्विषामजनि हंसनाशकृत् ॥ ७३ ॥