हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)
Hammira Mahakavya with Hindi Commentary
नयचन्द्र सूरि / डॉ. दशरथ शर्मा द्वारा
पृष्ठ 165, कुल 185 में से
संदर्भ में पढ़ें१३] रतिपालशकसंवादः ११७
अपवार्य सभास्तारान् भ्रातृमात्रद्वितीयकः ।
रतिपालं जगादैष विस्तार्याग्रे सिचाँचलं ॥ ७३ ॥
अल्लावदीनं इत्याख्यः सोहं शककुलाधिपः ।
दुर्गाण्यनेकशो येन दुर्ग्राह्याण्यपि जिग्यिरे ॥ ७४ ॥
इदानीमस्वसात्कृत्वा यदि दुर्गं व्रजाम्यदः ।
ज्वलदग्न्युत्सवलीव तन्मे कीर्तिः कियच्चिरं ॥ ७५ ॥
स्वसात्कर्तुं बलेनैतत्सहस्राक्षोपि न क्षमः ।
परं भाग्यात् त्वमायासीः सिद्धमस्मत्समीहितं ॥ ७६ ॥
तद्यतस्व तथा तूर्णं यथा स्यां सत्यसंगरः ।
एतद्राज्यं तवैवास्तु जयेच्छुः केवलं त्वहं ॥ ७७ ॥
दुराचारो यदाचारो माया यत्सहचारिणी ।
अनृतं यत्पदं न्यासः क्रोधो यत्पारिपार्श्वकः ॥ ७८ ॥
अत्रांतरे कलिर्नाम लोभं कृत्वा तमग्रतः ।
विविशे रतिपालस्य मनोदुर्गं सुदुर्ग्रहं ॥ ७९ ॥ युग्मं
रतिपालमनोदुर्गं बलाद्गृहंस्तदा कलिः ।
शकुन्यभूच्छकेशस्य रणस्तंभं जिघृक्षतः ॥ ८० ॥
अंतरंतःपुरं नीत्वा शकेशस्तमभोजयत् ।
अपीप्यत्तद्भगिन्या च प्रतीत्यै मदिरामपि ॥ ८१ ॥
प्रतिश्रुत्य शकेरोक्तं ततः सर्वं स दुर्मतिः ।
विरोधोद्बोधिनीर्वाचो गत्वा राज्ञे न्यरूपयत् ॥ ८२ ॥
देवाहंकारलंकेशो निजगाद शकेश्वरः ।
हम्मीरः किमयं मूढः पुत्रीं मे न प्रयच्छति ॥ ८३ ॥
यद्वा मापादसौ किं त्व—ल्लावदीनोस्मि नो तदा ।
पुत्रीमयच्छतोमुष्य नाददे यदि वल्लभाः ॥ ८४ ॥
किंवातं यद्यगुर्वीरा भूयांसोपि परासुतां ।
किं द्वित्रिपदभंगेपि खर्जूरो याति खंजतां ॥ ८५ ॥