हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)
Hammira Mahakavya with Hindi Commentary
नयचन्द्र सूरि / डॉ. दशरथ शर्मा द्वारा
पृष्ठ 156, कुल 185 में से
संदर्भ में पढ़ें१०८ श्रीहम्मीरमहाकाव्ये [सर्गः
सदंशजोपनतकोटिभूषणा संलीनसायकसमुल्लसद्गुणा ।
दृष्टा परस्य समरे धनुलता वेश्येव कंपमतनिष्ट कस्य न ॥ ५० ॥
कस्याप्यसिर्दिरदकुंभमंडला त्पीत्वा भृशं समितिशोणितासवं ।
उन्मत्ततां गत इवाशु विद्विषां वक्षःस्थलीमभिनिपेतिवान्मुहुः ॥ ५१ ॥
लूनेऽग्रजन्मनि पदद्वयेऽरिणा दंतावलस्य पततः क्षितौ किल ।
उत्तंभनाय निजमेव दंतयो र्युग्मं बभूव किमिवान्यदीदृशं ॥ ५२ ॥
प्रत्यर्थिमुक्तशरभिन्नपुष्करो लेभे न घातसमयेपि तां किल ।
अग्रे स्फुरंतमपहर्तुमक्षमा लेभे त्रपां प्रतिभटं करी व्यथां ॥ ५३ ॥
दत्वा प्रहारमतिलाघवात्पुरः पृष्ठं श्रयत्यसकृदुद्धते भटे ।
क्रुद्धो भ्रमन् समिति तज्जिघृक्षया वात्या विनोदमभजत्परो गजः ॥ ५४ ॥
भित्वाखिलांगमपि भूजुषेषुणा हत्वा करेणुमितरोभिपांतुकं ।
वर्त्मेव हंसगमनाय तेनिवान् क्रौंचं पराशरसुतो गिरिं यथा ॥ ५५ ॥
कस्यापि कुंडलितचापमंडलां—तर्वर्त्तिवक्त्रकमलं बभौतमां ।
प्रत्यर्थिषु प्रबलबाणवृष्टये बिंबं स्फुरत्परिधिशीतगोरिव ॥ ५६ ॥
द्वेधीकृतस्य सुभटस्य कस्यचि—त्सव्येतरार्धमवलोक्य वर्ष्मणः ।
लब्धोद्य शंभुरुमयाविनेयधा—वंतामरेशदयितो दिशोदिशः ॥ ५७ ॥
जज्ञे तदा रणभृतां च रक्षसां यज्ञे महाहटरभरः परस्परां ।
एके प्रथीयसितरामसृन्मदीं चक्रुः पराणि पपुरेव तत्क्षणात् ॥ ५८ ॥
नःसंख्यसंख्यविवरातिथीभव—द्वीरातिथेयकरणैरवातुरे ।
द्वीपांतरं व्रजति तिग्मदीधितौ सैन्ये उभे अपि ततो विरेमतुः ॥ ५९ ॥
इति प्रथमदिनं
द्वितीयदिनयुद्धम्
स्वप्रसंगसमरैरनेकधा रात्रिं व्यतीत्य सुभटाः कथंचन ।
प्रातः पुनर्निजनिजाधिपाज्ञया संग्रामसीमनि मनो व्यनोदयन् ॥ ६०