सामग्री पर जाएँ
सर्वकोश
हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)

हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)

Hammira Mahakavya with Hindi Commentary

नयचन्द्र सूरि / डॉ. दशरथ शर्मा द्वारा

DevanagariSanskritpublished185 पृष्ठ

पृष्ठ 169, कुल 185 में से

संदर्भ में पढ़ें
पृष्ठ 169

[१३] देवलदेवीकन्यासम्वादः १२१

दुर्लभं नृभवं प्राप्य द्वयमेवार्ज्जयेत्सुधीः ।
कीर्त्तिं धर्मं च तौ सम्य—कुलाचारप्रपालनात् ॥ १२५ ॥
पूर्वाचारं निहत्याच्चैः सुखं हंत चरंति ये ।
आज्ञालोपान्न किं पापै र्हतास्तैः पूर्वजा निजाः ॥ १२६ ॥
आचाहमानमप्यादौ यैर्न्नाकृत्यं कृतं पुरा ।
तत्कुर्वन्नधुनाऽहं तान् कथं वक्ता स्वपूर्वजान् ॥ १२७ ॥
[यतः]पितुर्युपरते यस्तु नोद्वहेत्पैतृकीं धुरं ।
तेन नैवोपदेष्टव्याः स्वस्य वंशस्य पूर्वजाः ॥ १२८ ॥
बद्धवाचं विधायेति प्रतीपोक्तितरंगितैः ।
स्वावासं प्रेषयामास सदस्यां क्षितिवासवः ॥ १२९ ॥
इतः स रतिपालोपि तूर्णं गत्वा तदालयं ।
कलयन्नाकुलीभावं रणमल्लमभाषत ॥ १३० ॥
भ्रातः किं सुखमासीन त्वरस्व प्रपलायितुं ।
सेवाहेवाकिनां शत्रुर्बद्धुमभ्येति यद्विभुः ॥ १३१ ॥
सुधांशौ विषवत्त्वस्मि न्नैतत्संभाव्यते कथं ।
इत्याक्षिप्तवचास्तेन रतिपालः पुनर्जगौ ॥ ॥ १३२ ॥
स पंचपैर्जनैर्युक्तो यदि सायं त्वदालयं ।
एति तन्मे वचः सत्य मित्युक्तासावगाद्गृहं ॥ १३३ ॥
अथ दृष्ट्वा यथादिष्ट मायांतं स क्षितीश्वरं ।
जातप्रतीतिरुत्तीर्य दुर्गाद्भीत्यामिलद्रिपोः ॥ १३४ ॥
उत्तीर्य रतिपालोपि दुर्गात् स्वर्गादिवोच्चकैः ।
शिश्राय निरयावासमिवावासं शकेशितुः ॥ १३५ ॥
तयोस्तच्चेष्टितं दृष्ट्वा कलिं धिकलयन्नयं ।
कोशेऽन्नं कियदस्तीति नृपः पप्रच्छ जाहडं ॥ १३६ ॥
वदामि यदि नास्तीति तदा संधिर्भवेद्ध्रुवं ।
भाव्यर्थभावाद्वचालेति जगौ न कियदित्यसौ ॥ १३७ ॥
16 k