हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)
Hammira Mahakavya with Hindi Commentary
नयचन्द्र सूरि / डॉ. दशरथ शर्मा द्वारा
पृष्ठ 164, कुल 185 में से
संदर्भ में पढ़ें११६ श्रीहम्मीरमहाकाव्ये [सर्गः
वारिदेन तदासिक्ता रराजे भूरि भूरियं ।
कांतक्रांतोपभुक्तायाः छायान्येव मृगीदृशः ॥ ६० ॥
अंभोधरस्य ग्रीष्मर्तुं निर्जित्य विशतः सतः ।
स्फूर्जद्गज्जिच्छलात्प्रादु—रासंस्तूर्यस्वना इव ॥ ६१ ॥
अंगानि कानि सिक्तानि कानि सेच्यानि वा भुवः ।
इति विद्युतप्रकाशेन ददर्शैव घनाघनः ॥ ६२ ॥
मालतीकुटजामोद—हारी सृष्टपयःकणः ।
लतालास्यकलाचार्यो ववौ वर्षासमीरणः ॥ ६३ ॥
क्षेत्प्रं च सरःप्रं च गात्रस्त्राणमपि क्वचित् ।
चेलत्कोपं तदा वर्ष न्नाहो वंध्यं व्यधाद्धनः ॥ ६४ ॥
यथा यथा जगर्जायं स्तनयित्नुस्तथा तथा ।
प्रियाः शकानां चक्रंदुर्बाहुजैर्विधवीकृताः ॥ ६५ ॥
इलामधःकर्दमीलां धारा उपरिपातिनीः ।
विलोक्य यवनाः सेवा-व्रते वैराग्यमासदन् ॥ ६६ ॥
अमुंचंस्तुरगारंग मगच्छन्कृशतां द्विपाः ।
अक्षुभ्यन् स्यंदना धात्र्यां जनान्दंशा उपाद्रवन् ॥ ६७ ॥
इत्यालोक्यांबुमुक्कालं साक्षात्कालमिवागतम् ।
यथाकथंचित्संधान मचिकीर्षच्छकाधिपः ॥ ६८ ॥
आजुहाव ततो दूतै रतिपालं शकाधिपः ।
शकेशः किंकिमाहेति हम्मीरोप्यन्वमन्यत ॥ ६९ ॥
रतिपाले गते जाते संधाने चलिते शके ।
वृथा नो दोषभृतेत्याप रणमल्लस्तदा रुषं ॥ ७० ॥
आयाते रतिपालेऽथ स मायावी शकेश्वरः ।
उपावीविशदेतं स्वा—सनेभ्युत्थानपूर्वकं ॥ ७१ ॥
अरंजयच्च कूटेन मानैर्दानैरनेकधा ।
कूटोपजीविनः किंवा कूटे मुह्यंति कुत्रचित् ॥ ७२ ॥