सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)

Gadanigraha of Acharya Sodhala with Commentary

आचार्य सोढल द्वारा

DevanagariHindipublished286 पृष्ठ

१] गदनिग्रहः । २१
प्रदाय सर्पिषः प्रस्थं पचेत् क्षीरं चतुर्गुणम् ॥ २०९ ॥
सिद्धे शीते पलान्यष्टौ शर्करायाः प्रदापयेत् ।
एतद्राक्षाघृतं नाम क्षीणक्षुत्तृट्सुखावहम् ॥ २१० ॥
वातपित्तज्वरश्वासविस्फोटकहलीमकान् ।
प्रदरं रक्तपित्तं च हन्यान्मांसबलप्रदम् ॥ २११ ॥
विदेहात्सर्वनेत्ररोगे त्रिफलाद्यं घृतम् ।
त्रिफलाया रसप्रस्थं प्रस्थं भृङ्गरसस्य च ।
पीडयित्वा वृषं बालं रसप्रस्थं प्रदापयेत् ॥ २१२ ॥
अजाक्षीरस्य च प्रस्थं कार्षिकैः श्लक्ष्णपेषितैः ।
पिप्पली शर्करा द्राक्षा त्रिफला नीलमुत्पलम् ॥ २१३ ॥
मधुकं क्षीरकाकोली मधुपर्णी निदिग्धिका ।
मञ्जिष्ठापद्मकोशीरसारिवादारुचन्दनैः ॥ २१४ ॥
घृतं प्रस्थं पचेत् प्राज्ञः कल्कैरेभिः समन्वितम् ।
ऊर्ध्वपानमधः पानं मध्ये पानं विशिष्यते ॥ २१५ ॥
अति प्रदुष्टे रक्ते च रक्ते वातिस्रुते तथा ।
नक्तान्ध्ये तिमिरे काचे सर्वनेत्ररुजासु च ॥ २१६ ॥
बकविद्योतितं भ्रान्तं सूर्यतेजोद्विषं तथा ।
गृध्रदृष्टिकरं धन्यं बलवर्णाग्निवर्धनम् ॥
त्रिफलाया घृतं सिद्धं सर्वनेत्ररुजान्तकृत् ॥ २१७ ॥
पटोलाद्यं घृतम् ।
पटोलं मधुकं दार्बी निम्बं वासां फलत्रिकम् ।
दुरालभां पर्पटकं त्रायन्तीं च पलोन्मिताम् ॥ २१८ ॥
प्रस्थमामलकानां च क्वाथयेत्सलिलार्मणे ।
तेन पादावशेषेण घृतप्रस्थं विपाचयेत् ॥ २१९ ॥
कल्कैर्भूनिम्नकटुजमुस्तयष्ट्याह्वचन्दनैः ।
सपिप्पलीकैस्तत् सर्पिश्चक्षुष्यं श्रोत्रयोर्हितम् ॥ २२० ॥
घ्राणकर्णाक्षिवर्त्मत्वग्दन्तरोगव्रणापहम् ।

२२ आयुर्वेदीयग्रन्थमाला । [घृताधिकारः
रक्तपित्तहरं खेदक्लेदपूयोपशोषणम् ॥ २२१ ॥
कामलाज्वरवीसर्पगण्डमालाहरं परम् ।
कृष्णात्रेयाद्विन्दुघृतम् ।
त्रिवृता त्रिफला पाठा दन्ती कटुकरोहिणी ॥ २२२ ॥
चतुरङ्गुलमज्जा च तथा च कटुकत्रयम् ।
चित्रकं च बृहत्यौ च तथा च गजपिप्पली ॥ २२३ ॥
स्नुहीक्षीरपलं दद्यात् घृतस्याष्टौ प्रदापयेत् ।
यावन्तः स पिबेद्विन्दून् तावद्वेगान् विरिच्यते ॥ २२४ ॥
एतद्विन्दुघृतं सिद्धमृषिभिः परिकीर्तितम् ।
कृष्णात्रेयाद्गुल्मे महाबिन्दुघृतम् ।
स्नुहीक्षीरपले द्वे च प्रस्थार्धं चैव सर्पिषः ॥ २२५ ॥
कम्पिल्लकपलं चैव शाणार्धं सैन्धवस्य च ।
त्रिवृतायाः पलं चैव कुडवं धात्रिजाद्रसात् ॥ २२६ ॥
तोयप्रस्थेन संयुक्तं शनैर्मृद्वग्निना पचेत् ।
कर्षप्रमाणं दातव्यं जठरे प्लीहगुल्मयोः ॥ २२७ ॥
तथा कर्णोत्थरोगेषु युञ्जीत कुशलो भिषक् ।
एतद्गुल्मादिनिचयान्समूलान् सपरिग्रहान् ॥ २२८ ॥
निहन्त्येष प्रयोगो हि वायुर्जलधरानिव ।
पञ्चगुल्मवधार्थाय सर्पिरेतत् प्रकीर्तितम् ॥ २२९ ॥
सर्वासुरवधार्थाय यथा वज्रं बिडौजसा ।
महाबिन्दुघृतं सिद्धं सर्वोदरहरं परम् ॥ २३० ॥
गुल्मे बिन्दुघृतम् ।
श्यामात्रिवृद्वह्निपलत्रयं हि हरीतकीनां तु शतार्धमन्वक् ।
तोयाम्भसोऽर्धेन विपाचितेन प्रस्थं पचेद्द्रव्यघृतस्य चैव ॥२३१॥
कम्पिल्लकस्यापि पलप्रमाणं सनीलिनीबीजपलद्वयं च ।
चतुष्पलं स्नुक्पयसश्च दत्वा गुल्मापहं बिन्दुघृतं विरेकात्॥२३२

१.] गदनिग्रहः । २३
चिकित्साकलिकाया गुल्मे महाबिन्दुघृतम् ।
त्रिवृत्पलं स्नुक्पयसः पलं च कम्पिल्लकस्यापि पलं तृतीयम् ।
चतुष्पलं चामलकीरसस्य पलार्धमन्यल्लवणस्य चैव ॥ २३३ ॥
प्रस्थार्धमेभिर्हविषो विपक्वं जले महाबिन्दुघृतं प्रसिद्धम् ।
निहन्ति गुल्मं जठराणि चैव प्लीहामयानाशु विरेकयोगात्॥२३४
कुष्ठे बिन्दुघृतम् ।
अर्कक्षीरपले द्वे तु स्नुहीक्षीरं पलानि षट् ।
पथ्या कम्पिल्लकं श्यामा श्यामाकं गिरिकर्णिका ॥ २३५॥
नीलिनी त्रिवृता दन्ती शङ्खिनी चित्रकं तथा ।
एतेषां पलिकैर्भागैर्घृतप्रस्थं विपाचयेत् ॥ २३६ ॥
अथास्य मलिने कोष्ठे बिन्दुमात्रं प्रदापयेत् ।
यावन्तो ना पिवेद्बिन्दून् तावद्वारान्विरिच्यते ॥ २३७ ॥
कुष्ठं गुल्ममुदावर्तं श्वयथुं सभगन्दरम् ।
शमयत्युदराण्यष्टौ वृक्षमिन्द्राशनिर्यथा ॥ २३८ ॥
एतद्विन्दुघृतं नाम येनाभ्यक्तो विरिच्यते ।
कुष्ठे पञ्चतिक्तकं घृतम् ।
निम्बं पटोलं व्याघ्रीं च गडूचीं वासकं तथा ॥ २३९ ॥
कुर्यात्तुलां तु संचूर्ण्य काथयेत्तज्जले शुभे ।
पादावशेषेण ततो घृतप्रस्थं विपाचयेत् ॥ २४० ॥
त्रिफलागर्भसंयुक्तं पञ्चतिक्तकमुच्यते ।
अशीतिर्वातजान् रोगांश्चात्वारिंशच्च पैत्तिकान् ॥ २४१ ॥
विंशतिः श्लेष्मजांश्चैव पानादेवापकर्षति ।
खरनादाच्छूले लशुनघृतम् ।
प्रस्थं लशुनबीजानां कण्टकार्यास्तथैव च ॥ २४२ ॥
आटरूषकप्रस्थं च जलद्रोणे विपाचयेत् ।
द्राक्षाया गोस्तनायाश्च कुडवं चात्र मिश्रयेत् ॥ २४३ ॥
तत्र दद्याद्धृतप्रस्थं गोक्षीरप्रस्थमेव च ।
लशुनस्य तु पिष्टस्य पलं निष्पीड्य योजयेत् ॥ २४४ ॥

२४ आयुर्वेदियग्रन्थमाला । [घृताधिकारः]
आटरूषकपत्राणां पेषयित्वा पलं तथा ।
एतन्मृद्वग्निना सिद्धं सितं पूतमथापि वा ॥ २४५ ॥
द्विपलं शर्कराचूर्णं क्षीरार्धकुडवं तथा ।
त्वक्क्षीर्याश्च पलार्धं हि तत्सर्वं खजमूर्च्छितम् ॥ २४६ ॥
निदध्याद्भाजने शुद्धे काञ्चने राजतेऽपिवा ।
एतत्प्रायोगिकं सर्पिरिमान् व्याधीन् व्यपोहति ॥ २४७ ॥
कासं श्वासं ज्वरं गुल्मं कार्यं छर्दिमरोचकम् ।
हृद्रोगं पार्श्वशूलं च क्षतक्षीणं प्लीहोदरम् ॥ २४८ ॥
जीवनं बृंहणं वृष्यं पाण्डुश्वयथुनाशनम् ।
तन्त्रान्तराद्दाडिमाद्यं घृतम् ।
दाडिमात्कुडवो धान्यात्कुडवार्धं पलं पलम् ॥ २४९ ॥
चित्रकाच्छृङ्गवेराच्च पिप्पल्यष्टमिका तथा ।
कल्कैस्तैर्विंशतिपलं घृतस्य सलिलाढके ॥ २५० ॥
सिद्धं हृत्पाण्डुगुल्मार्शः प्लीहवातार्तिशूलनुत् ।
दीपनं श्वासकासघ्नं मूढवातानुलोमनम् ॥ २५१ ॥
दुःखप्रसविनीनां च वन्ध्यानां चैव पुत्रदम् ।
चित्रकाद्यं घृतम् ।
चित्रकस्य तुलाक्वाथे घृतप्रस्थं विपाचयेत् ॥ २५२ ॥
आरनालं च द्विगुणं दधिमण्डं चतुर्गुणम् ।
पञ्चकोलकतालीसक्षारैर्लवणसंयुतैः ॥ २५३ ॥
द्विजीरकनिशायुग्मैर्मरिचं तत्र दापयेत् ।
गुल्मप्लीहोदराध्मानपाण्डुरोगारुचिज्वरान् ॥ २५४ ॥
बस्तिहृत्पार्श्वकट्यूरुशूलोदावर्त्तजान् गदान् ।
निहन्यात् पीतमशोंघ्नं पाचनं वह्निदीपनम् ।
बलवर्णकरं चापि भसकं च नियच्छति ॥ २५५ ॥
१ प्रायोगिकमिति प्रयोगः स्वास्थस्य सततोपयोगः, तत्र साधु प्रायोगिकम् ।

गदनिग्रहः । २५
शोफे चित्रकाद्यं घृतम् ।
चित्रकं धान्ययवान्यजाजीसौवर्चलत्र्यूषणवेतसाम्लम् ।
ल्वोत्पलं दाडिमयावशूकं सपिप्पलीमूलमथापि चव्यम् २५६
ष्टाऽक्षमात्राणि जलाढकेन पक्त्वा घृतप्रस्थमथापि युञ्ज्यात् ।
र्शांसि गुल्मान् श्वयथुं सकृच्छ्रं निहन्ति वह्निं च करोति दीप्तम्॥
प्लीह्नि तृतीयं रोहीतकाद्यघृतम् ।
रोहीतकत्वचः श्रेष्ठात्पलानां पञ्चविंशतिः ।
कोलद्विप्रस्थसंयुक्तं कषायमुपकल्पयेत् ॥ २५८ ॥
पालिकैः पञ्चकोलैश्च तैः सर्वैश्चापि तुल्यया ।
रोहीतकत्वचा पिष्टैर्घृतप्रस्थं विपाचयेत् ॥ २५९ ॥
प्लीहाभिवृद्धिं शमयेदेतदाशु प्रयोजितम् ।
तथा गुल्मज्वरश्वासकृमिपाण्डुत्वकामलान् ॥ २६० ॥
कुष्ठे गुग्गुलुपञ्चतिक्तकं घृतम् ।
निम्बामृतावृषपटोलनिदिग्धिकानां
भागानिमान्दशपलान्विपचेद्वटेऽपाम् ।
अष्टांशशेषितशृतेन पुनश्च तेन
प्रस्थं घृतस्य विपचेद्धृतभागकल्कैः ॥ २६१ ॥
पाठाविडङ्गसुरदारुगजौपकुल्या-
द्विक्षारनागरनिशामिशिचव्यकुष्ठैः ।
तेजोवतीमरिचवत्सकदीप्यकाग्नि-
रोहिण्यरुष्करवचाकणमूलयुक्तैः ॥ २६२ ॥
मञ्जिष्ठयाऽतिविषया विषया यवान्या
संशुद्धगुग्गुलुपलैरपि पञ्चसंख्यैः ।
तत्सेवितं विधुवति प्रबलं समीरं
सन्ध्यस्थिमज्जगतमप्यथ कुष्ठमीदृक् ॥ २६३ ॥
नाडीव्रणार्बुदभगन्दरगण्डमाला-
जत्रूर्ध्वसर्वगदगुल्मगुदोत्थमेहान् ।
३

२६ आयुर्वेदीयग्रन्थमाला । [घृताधिकारः
यक्ष्मारुचिश्वसनपीनसशोफकास-
हृत्पाण्डुरोगमदविद्रधिवातरक्तान् ॥ २६४ ॥
शीतकल्याणकं घृतम् ।
कुमुदं पद्मकोशीरं गोधूमा रक्तशालयः ।
शृङ्गपर्णी पयस्या च काश्मरी मधुयष्टिका ॥ २६५ ॥
बलातिबलयोर्मूलमुत्पलं तालमस्तकम् ।
विदारी शतपत्री च शालपर्णी सजीवकम् ॥ २६६ ॥
फलं त्रपुसबीजानि प्रत्यग्रं कदलीफलम् ।
एषामर्धपलान् भागान् गव्यं क्षीरं चतुर्गुणम् ॥२६७॥
पानीयं द्विगुणं दत्वा घृतप्रस्थं विपाचयेत् ।
प्रदरे रक्तगुल्मे च रक्तपित्ते हलीमके ॥ २६८ ॥
बहुरूपं च यत्पित्तं कामलां च सशोणितम् ।
अरोचके ज्वरे जीर्णे पाण्डुरोगे मदे भ्रमे ॥ २६९ ॥
तरुणा चानपत्या ये या च गर्भं न विन्दति ।
अहन्यहनि च स्त्रीणां भवति प्रीतिवर्धनम् ॥ २७० ॥
शीतकल्याणकं नाम परमुक्तं रसायनम् ।
हिक्काश्वासे शम्याथं घृतम् ।
शठिर्वचाऽभया कुष्ठं पिप्पली बिल्वशुण्ठिका ॥२७१॥
पलांशं सैन्धवं चव्यं तेजोवत्यथ पुष्करम् ।
सौवर्चलं तामलकी भूतीकं चाक्षकसंमितम् ॥ २७२ ॥
हिङ्ग्वर्धकर्षकोपेतं घृतप्रस्थं विपाचयेत् ।
चतुर्गुणं जलं चात्र दत्वा मृद्वग्निना पचेत् ॥ २७३ ॥
ग्रहण्यर्शोहितं कासहिक्कोरःपार्श्वशूलनुत् ।
श्वासान् सन्धिगतांश्चान्यान् हन्याद्वातकफामयान्॥२७४॥
नारसिंहं घृतम् ।
वह्निंर्भल्लातकं चैव शिंशपा खदिरं तथा ।
हरीतकींविडङ्गानि बीजके च तथाऽक्षकम् ॥ २७५ ॥

गदनिग्रहः । २७
एषामाहृत्य भागांस्तु सम्यग्दशपलोन्मितान् ।
जलद्रोणे युतं कृत्वा लोहभाण्डे निधापयेत् ॥ २७६ ॥
लोहभाण्डे पचेत्तावद्यावत्पादावशेषितम् ।
क्वाथं लोहयुतं कृत्वा स्थापयेद्दिवसत्रयम् ॥ २७७ ॥
त्रिगुणं तु शतावर्या रसं धात्र्याश्च निःक्षिपेत् ।
निःक्षिपेत्त्रिगुणं चात्र भृङ्गराजरसं शुभम् ॥ २७८ ॥
छागक्षीरं च तत्रैव त्रिगुणं च नियोजयेत् ।
पक्त्वा घृताढकं तेन मधुना सितयाऽथवा ॥ २७९ ॥
गुडेन वा पिबेत्सार्धं केवलं वा पलोन्मितम् ।
न किंचित्परिहार्यं स्याद्वातातपनिषेवणम् ॥ २८० ॥
अजीर्णे पिवतश्चापि वनितासेविनस्तथा ।
नान्धता नामिहानिश्च न वलीपलितं भवेत् ॥ २८१ ॥
अनेन च भवत्याशु नरः सिंहपराक्रमः ।
भवत्यश्वजवश्चैव हेमवर्णश्च जायते ॥ २८२ ॥
कान्ताऽपि सेविता तेन गुणैरेतैश्च युज्यते ।
नारसिंहमिति ख्यातं घृतं बलविवर्धनम् ॥ २८३ ॥
विषेऽमृतं घृतम् ।
शिरीषस्य त्वचं व्योषं त्रिफलां चन्दनोत्पलम् ।
द्वे बले सारिवास्फोटासुरभीनिम्बपाटलाः ॥ २८४ ॥
बन्धुजीवातसीमूर्वावासासुरसवत्सकम् ।
पाठाङ्कोलाश्वगन्धार्कमूलं यष्ट्याह्वपद्मके ॥ २८५ ॥
विशालां बृहतीं द्राक्षां कोविदारं शतावरीम् ।
कटभीदन्त्यपामार्गपृश्निपर्णीरसाञ्जनम् ॥ २८६ ॥
शणश्वशुरकौ श्वेतौ कुष्ठं दारु प्रियङ्कुकम् ।
विदारी मधुकात्सारं करञ्जस्य फलं वचा ॥ २८७ ॥
राजन्यौ लोध्रमक्षांशान् पिष्ट्वा साध्यं घृताढकम् ।
तुल्याम्बुच्छागगोमूत्रे त्र्याढके तद्विषापहम् ॥ २८८ ॥

२८ आयुर्वेदयीयग्रन्थमाला । [घृताधिकारः
अपस्मारक्षयोन्मादभूतग्रहगलोदरान् ।
पाण्डुरोगान् क्रिमीन् मेहान् सप्लीहोदरकामलान् २८९
हनुस्तम्भग्रहादींश्च पानाभ्यञ्जननावनैः ।
हन्यात्संजीवयेच्चापि विषोदधिमृतान्ररान् ॥ २९० ॥
अमेघममृतं सर्वविषाणां स्याद्दृतोत्तमम् ।
ग्रहण्यामग्निघृतम् ।
चतुष्पलं चव्यकचित्रपाठतेजस्विनीपिप्पलीमूलमेदाः ।
दद्याच्च मुस्तात्रिफलं विशुद्धं मुष्टिं समग्रामथ पल्लवानाम्॥२९१॥
आस्फोटजाती अथ सप्तपर्णं पटोलशाखोटकनक्तमालम् ।
निम्बं प्रदद्यादथ कल्कमस्मिन्नधिश्रयेत्ताम्रमये कटाहे ॥२९२॥
सुक्वाथितं द्रोणजलेन पूर्णं पादावशिष्टं पुनरुद्धरेत्तत् ।
पलार्धतुल्याऽतिविषा सभद्रा कल्कीकृतानि द्विपलानि दद्यात् ॥
सयावशूकं विडसैन्धवं च पलानि चत्वारि च पिप्पलीनाम् ।
कल्कैः कषायेण च सिद्धमेतन्मृद्वग्निसिद्धं ह्यवतारयेच्च ॥२९४॥
पिबेच्च जीर्णे तु घृतस्य कर्षं विष्टम्भदोषे द्विगुणं पिबेच्च ।
अनेन सर्वे ग्रहणीविकाराः शाम्यन्ति गुल्माश्च बहुप्रकाराः २९५
विंशत्क्रिमीणामथ जातयश्च शाम्यन्ति सर्वा विविधप्रयोगात् ।
पाण्ड्वामयप्लीहशरोद्भवाश्च सोमा भविष्याश्च समं व्रजेयुः ॥२९६॥
सेवेत मद्यं पिशितानि चैव विवर्जकः स्यान्मधुतर्पणस्य ।
नाम्ना तदप्यग्निघृतं प्रसिद्धं वह्निं च संदीधयते प्रसह्य ॥२९७॥
ग्रहण्यां भल्लातकाद्यं घृतम् ।
भल्लातकानां द्विपलं पलांशं विदारिगन्धादिकपञ्चमूलम् ।
जलाढके जर्जरितं विपाच्य विस्राव्य पूतं विपचेद्धि कल्कैः२९८॥
रास्ना विडं सैन्धवयावशूकं विडङ्गकृष्णामधुकं वचा च ।
सविश्वकर्पूरहुताशहिङ्गु रास्नादिभिः पाणितलप्रमाणैः॥२९९॥
प्रस्थं विपक्वं पयसा समांशं घृतस्य योज्यं कफजे विकारे ।
प्लीहोदरे यक्ष्मणि वातरोगे श्वासे सकासे च हितं वदन्ति॥३००

व्यापन्नवह्नौ कफगुल्मिनां च कण्डूविकारेषु च शस्तमेतत् ।
भल्लातकाख्यं नियमेन पीतं जयेच्च सर्वान् ग्रहणीविकारान् ३०१
जीर्णज्वरे पिप्पल्याद्यं घृतम् ।
पिप्पलयतिविषाद्राक्षासारिवाबिल्वचन्दनैः ।
कटुकेन्द्रयवोशीरशठीतामलकीघनैः ॥ ३०२ ॥
त्रायमाणास्थिराधात्रीविश्वभेषजचित्रकैः ।
पक्वेनैतैर्घृतं पर्क विच्छिद्य विषमाश्रिताम् ॥ ३०३ ॥
जीर्णज्वरशिरःशूलगुल्मोदरहलीमकान् ।
क्षयकासान् ससंतापान् पार्श्वशूलान्यपास्यति ॥३०४॥
मायूरघृतम् ।
हेमन्तकाले शिशिरे च सेव्यं वसन्तकाले च मयूरसर्पिः ।
औष्ण्याद्धि बर्ही विषभक्षणाच्च वर्षाशरद्ग्रीष्ममुखे व्यपास्य ३०५
आहारजातं हि विहङ्गमस्य कीटाश्च सर्पाश्च सरीसृपाश्च ।
पिपीलिकामत्कुणमक्षिकाश्च तेनोष्र्णकालेष्वहितो मयूरः ३०६
तथैव काले जलदाभिरामे विसृज्य शुक्रं च मदं च बर्ही ।
कृशत्वमायाति हि हीनतां च शरन्मुखे तेन विवर्जनीयः३०७
अथाऽऽहरेत्स्वस्थमृतं वयस्थं निस्तुण्डपत्रात्रनखं मयूरम् ।
द्विद्रोणमात्रे पयसो निधाय विपाचयेन्द्रेषजसंप्रयुक्तम् ॥३०८॥
सश्रावणीमंशुमतीमनन्तां काकोलीमेदे वृषभे वयस्याम् ।
सविश्वदेवां सहदेवसाहां सप्तच्छदान्मूलफले बलां च ॥३०९॥
शतावरीजीवकसोमवल्कमेकैकशः स्युः पलसंमिताश्च ।
ततोऽर्धशिष्टे कथिते सुपूते घृताढकं तत्र पुनर्विपाच्य ॥३१०॥
कल्केरिमैः कर्षसमप्रमाणैर्द्रोणेन दुग्धस्य युतैः सुपिष्टैः ।
मुञ्जातकाक्षोडमथात्मगुप्ता वृद्धिस्तथा तामलकी सबीरा ३११
पियालमज्जा मधुकं तथैव सिद्धं प्रशान्तं गतफेनशब्दम् ।
पानेषु भोज्येषु च देयमेतद्भक्तेषु नानाप्रभवेषु चैव ॥ ३१२॥
मन्दाग्निरेतोविषपीडिताश्च क्षीणक्षताश्चापि कृषातिवृद्धाः ।

३० आयुर्वेदियम्रन्थमाला । [घृताधिकारः
कासार्दिताः शोणितपित्तिनश्च पिवेयुरेते शिखिसर्पिरग्र्यम् ३१३
वृष्यं च बल्यं च रसायनं च सर्वेन्द्रियाणां बलवर्धनं च ।
ओजःखरं प्रीणयते च मात्रं विषघ्नमेतद्दरनाशनं च ॥ ३१४॥
एतेन वृद्धाः कृशदुर्बलाश्च तथैव वाग्ध्वससङ्गाहताश्च ।
प्रक्षीणवीर्याश्च रतिप्रसक्ताः स्त्रियः समागम्य तृषीमवन्ति ३१५
हिमव्यपाये हिमदग्धपल्लवाः पुनः प्ररोहन्ति यथा महीरुहाः ।
पुनस्तथा यौवनपुष्टिमन्तो नरा भवन्तीह घृतप्रयोगात्॥३१६॥
तिमिरे जीवन्त्याद्यं घृतम् ।
तुलां पचेद्वि जीवन्त्या द्रोणेऽपां पादशेषिते ।
दत्वा चतुर्गुणं क्षीरं घृतप्रस्थं विपाचयेत् ॥ ३१७ ॥
प्रपौण्डरीककाकोलीपिप्पलीरोध्रसैन्धवैः ।
शताह्वामधुकद्राक्षासितादारुफलत्रयैः ॥ ३१८ ॥
कार्षिकैर्निशि तत्पीतं तिमिरापहरं परम् ।
अपस्मारे पञ्चगव्यं घृतम् ।
दशमूलेन्द्रवृक्षत्वङ्मूर्वाभार्गीफलत्रयैः ।
शम्याकश्रेयसीसप्तपर्णापामार्गफल्गुभिः ॥ ३१९ ॥
शृतैः कल्कैश्च भूनिम्बतृवृताव्योषचित्रकैः ।
त्रिवृत्पाठाविशालारुङ्मलारिविडङ्गपौष्करैः ॥ ३२० ॥
कटुकावासदन्त्युग्रानीलिनीक्रिमिशत्रुभिः ।
सर्पिरेभिश्च गोक्षीरदधिमूत्रशकृद्रसैः ॥ ३२१ ॥
साधितं पञ्चगव्याख्यं सर्वापस्मारभूतनुत् ।
चतुर्थकज्वरश्वासानुन्मादांश्च नियच्छति ॥ ३२२ ॥
ज्वरे महापञ्चगव्यं घृतम् ।
दशमूलमपामार्गं त्रिफलां कुटजत्वचम् ।
सप्तपर्णं हरिद्रे द्वे नीलिनीं कटुरोहिणीम् ॥ ३२३ ॥
आरग्वधं पुष्करं च फल्गुमूलं दुरालभाम् ।
द्विपलांशान् पचेद् द्रोणे साधयेत्पादशेषिते ॥ ३२४ ॥

गदनिग्रहः । ३१
त्रिवृतां निचुलं भार्गी श्रेयसीं मदयन्तिकाम् ।
पूतीकं रोहिसं पाठां दन्तीं चित्रकमाढकीम् ॥३२५॥
किराततिक्तकं मूर्वी व्योषं द्वे चापि सारिवे ।
सकषायं घृतप्रस्थमेभिः पेष्य विपाचयेत् ॥ ३२६ ॥
गव्यं शकृद्रसं क्षीरं तक्रं मूत्रं तथा दधि ।
तदैकध्यं पचेत्सर्पिः सिद्धं चैवावतारयेत् ॥ ३२७ ॥
एतन्महापञ्चगव्यं विख्यातदमृतं यथा ।
चातुर्थकान्मोचयति मन्त्रसिद्धो मुनिर्यथा ॥ ३२८ ॥
श्वयथुं पाण्डुरोगं च प्लीहार्शः सभगन्दरम् ।
उदराणि तथा गुल्मं कामलां चापकर्षति ॥ ३२९ ॥
तस्माद्भिष्क् प्रयुञ्जीत विधियुक्तेन योगवित् ।
बिन्दुसाराख्यं घृतम् ।
शतावरीबलारास्नादशमूलीत्रिकण्टकान् ।
अश्वगन्धासमायुक्तान् कुशकाससमन्वितान् ॥ ३३० ॥
दर्भेक्षुमूलसंयुक्तान् शरमूलविमिश्रितान् ।
मण्डूक्या च समायुक्तान् द्विपञ्चपलिकान् भिषक् ३३१
पुनर्नवायाः श्वेतायाः शिफां पलशतोन्मिताम् ।
जलद्रोणे प्रयत्नेन पचेत्सम्यक् चतुर्गुणे ॥ ३३२ ॥
पादावशेषे निःस्राव्य क्वाथमत्रावधिश्रयेत् ।
यवानीपिप्पलीद्राक्षाशुण्ठीयष्ट्याह्वसैन्धवान् ॥ ३३३ ॥
द्विपलिकान् विनिःक्षिप्य श्लक्ष्णं पिष्ट्वा विधानतः ।
घृतप्रस्थं पचेत्सम्यक् क्षीरप्रस्थद्वयान्वितम् ॥ ३३४ ॥
एरण्डतैलप्रस्थार्द्धं त्रिंशद्गुडपलैर्युतम् ।
एतदीश्वरपुत्राणां राज्ञां चैव विशेषतः ॥ ३३५ ॥
स्त्रीसंभोगरतानां च ग्राम्यभोजननिन्दितम् ।
ऊरुशूले कटिस्तम्भे योनिशूले च दारुणे ॥ ३३६ ॥
बस्तिवाते प्रवृद्धे च वातरोगे सुदुःसहे ।

३२ आयुर्वेदीयग्रन्थमाला । [तैलाधिकार
घृतमेतत्प्रशंसन्ति सुकुमारं रसायनम् ॥ ३३७ ॥
कासे दशमूलाद्यं घृतम् ।
दशमूल्याढके प्रस्थं घृतस्याक्षसमैः पचेत् ।
पुष्कराह्वशठीबिल्वसुरसान्व्योषहिङ्गुभिः ॥ ३३८ ॥
पेयानुपानं तत्पेयं कासे श्वासे कफात्मके ।
श्वासरोगेषु सर्वेषु कफवातात्मकेषु च ॥ ३३९ ॥
इति श्रीसोढलग्रथिते गदनिग्रहे घृताधिकारः प्रथमः ।
अथातो द्वितीयस्तैलाधिकारः प्रारभ्यते ।
कुष्ठे कटुकालाबुतैलम् ।
कटुकालाबुबीजं द्वे तुत्थे रोचना हरिद्रे द्वे ।
बृहतीफलमेरण्डः सविशालश्चित्रको मूर्वा ॥ १ ॥
कासीसहिङ्गुत्र्यूषणसुरदारुतुम्बरुविडङ्गम् ।
लाङ्गलकी कुटजत्वक् कटुकारूष्या रोहिणी चैव ॥ २ ॥
सर्षपतैलं कल्कैर्मूत्रेण चतुर्गुणेन गवां सात्म्यम् ।
कण्डूकुष्ठविनाशनमभ्यङ्गाद्वातकफहन्तृ ॥ ३ ॥
कुष्ठे भद्रार्यं तैलम् ।
भद्रश्रीदारुमरिचद्विहरिद्रात्रिवृद्धनैः ।
गोमूत्रपिष्टैः पलिकैर्विषस्यार्धपलेन तु ॥ ४ ॥
जाम्बीरसार्कजक्षीरगोशकृद्रससंयुतम् ।
प्रस्थं सर्षपतैलस्य सिद्धमाशु व्यपोहति ॥ ५ ॥
पानाद्यैः शीलितं कुष्ठदुष्टनाडीव्रणापचीन् ।
वातव्याधौ बलातैलम् ।
बलाया जातसारायास्तुलां कुर्यात्सुकुट्टिताम् ॥ ६ ॥
क्वाथयेच्चतुर्द्रोणे चतुर्भागावशेषिते ।
पलानि दश पिष्टानि बलायास्तत्र दापयेत् ॥ ७ ॥

गदनिग्रहः । ३३
लुश्वितानां तिलानां च दद्यात्तैलाढकद्वयम् ।
चतुर्गुणेन पयसा पाचयेन्मृदुनाऽग्निना ॥ ८ ॥
वातव्याधिषु सर्वेषु रक्तपित्ताश्रयाश्च ये ।
व्यापन्नासु च योनिषु शस्तं नष्टे च रेतसि ॥ ९ ॥
तालुशोषं तृषां दाहं पार्श्वशूलमसृग्दरम् ।
हन्ति शोषमपस्मारं विसर्पं सशिरोग्रहम् ॥ १० ॥
आयुर्वर्णकरं चैव बलातैलं प्रजाकरम् ।
वातव्याधौ बृहद्बलातैलम् ।
बृहद्वलायास्तु तुलां चतुर्द्रोणेऽम्भसः पचेत् ॥ ११ ॥
समुत्तार्य ततः सम्यग्दशभागस्थिते रसे ।
दधिमण्डेक्षुनिर्यासयुक्तैस्तैलाढकं समैः ॥ १२ ॥
पचेत्साजपयोर्धार्शैः कल्कैरेभिः पलोन्मितैः ।
शठीसरलदार्वेलामञ्जिष्ठागुरुचन्दनैः ॥ १३ ॥
पद्मकातिबलामुस्तासूर्यपर्णीहरेणुभिः ।
यष्ट्याह्वसुरसव्याघ्रनखर्षभकजीवकैः ॥ १४ ॥
पलाशरसकस्तूरीनलिकाजातिकोशकैः ।
स्पृक्काकुङ्कुमशैलेयमालतीकदफलाम्बुभिः ॥ १५ ॥
त्वचाकुन्दुरुकर्पूरतुरुष्कश्रीनिवासकैः ।
लवङ्गनखकङ्कोलकुष्ठमांसीप्रियङ्गुभिः ॥ १६ ॥
स्थौणेयतगरध्यामवचादमनचोरकैः ।
सनागकेशरैः सिद्धे दद्यात्पात्रावतारिते ॥ १७ ॥
तत्र कल्कं ततः पूतं विधिना च प्रयोजयेत् ।
कासं श्वासं ज्वरं छर्दिं शूलं हिक्कां क्षतक्षयम् ॥ १८ ॥
प्लीहं शोषमपस्मारमलक्ष्मीं च प्रणाशयेत् ।
बलातैलमिदं श्रेष्ठं वातव्याधिहरं परम् ॥ १९ ॥
वातव्याधौ तृतीयं बलातैलम् ।
बलाशतकषाये तु तैलस्यार्धाढकं पचेत् ।

३४ आयुर्वेदborder/ग्रन्थमाला । [ तैलाधिकार
कल्कैर्मधुकमञ्जिष्ठाचन्दनोत्पलपद्मकैः ॥ २० ॥
सूक्ष्मैलापिप्पलीकुष्ठत्वगेलागुरुकेसरैः ।
गन्धैश्च जीवनीयैश्च क्षीराढकसमायुतम् ॥ २१ ॥
हतन्मृद्वग्निना पक्वं स्थापयेद्भाजने शुभे ।
सर्ववातविकारांस्तु सर्वधात्वन्तराश्रयान् ॥ २२ ॥
तैलमेतत्प्रशमयेच्छिन्नाभ्रमिव मारुतः ।
बलातैलं नरेन्द्रार्हमेतद्वातविकारनुत् ॥ २३ ॥
मूढगर्भे चतुर्थं बलातैलम् ।
बलामूलकषायस्य दशमूलीकृतस्य च ।
यवकोलकुलत्थानां क्वाथस्य पयसस्तथा ॥ २४ ॥
अष्टावष्टौ शुभा भागास्तैलादेकस्तदैकतः ।
पचेदावाप्य मधुरं गणं सैन्धवसंयुतम् ॥ २५ ॥
तथागरुं सर्जरसं सबलं देवदारु च ।
मञ्जिष्ठां चन्दनं कुष्ठमेलां कालानुसारिवाम् ॥ २६ ॥
शतावरीं चाश्वगन्धां शतपुष्पां पुनर्नवाम् ।
तत्साधु सिद्धं सौवर्णे राजते मृन्मयेऽपि वा ॥ २७ ॥
प्रक्षिप्य कलशे सम्यक् खनुगुप्तं निधापयेत् ।
बलातैलमिदं ख्यातं सर्ववातविकारनुत् ॥ २८ ॥
यथाबलमतो मात्रां सूतिकायै प्रदापयेत् ।
या च गर्भार्थिनी नारी क्षीणशुक्रश्च यः पुमान् ॥ २९ ॥
धातुक्षीणे मर्महते मथितेऽभिहते तथा ।
मग्ने श्रमाखिपन्ने च सर्वथैव प्रयुज्यते ॥ ३० ॥
एतदाक्षेपकादींश्च वातव्याधीनपोहति ।
अलपघातुः पुरुषो भवेत्सुस्थिरयौवनः ॥ ३१ ॥
राज्ञामेतत्प्रकर्तव्यं राजमात्राश्च ये नराः ।
सुखिनः सुकुमाराश्च धनिनाश्चापि ये नराः ॥ ३२ ॥

गदनिग्रहः । ३५
वातव्याधौ प्रसारणीतैलम् ।
समूलपत्रामुत्पाट्य जातसारां प्रसारणीम् ।
कुट्टयित्वा पलशतं कटाहे समधिश्रयेत् ॥ ३३ ॥
वारिद्रोणसमायुक्तं चतुर्थांशावशेषितम् ।
कषायसममात्रं तु तैलमत्र प्रदापयेत् ॥ ३४ ॥
दध्नस्तथाऽऽढकं दत्वा द्विगुणैश्चाम्लकाञ्जिकैः ।
यवक्षारपले द्वे च सैन्धवस्य पलद्वयम् ॥ ३५ ॥
द्वे पले पिप्पलीमूलाच्चित्रकस्य पलद्वयम् ।
एतत्सर्वं समालोड्य शनैर्मृद्वग्निना पचेत् ॥ ३६ ॥
एतदभ्यञ्जनं श्रेष्ठं नस्यकर्मणि शस्यते ।
पाने बस्तौ च दातव्यं न क्वचित्प्रतिहन्यते ॥ ३७ ॥
अशीतिर्वातरोगाणां तैलमेतद्व्यपोहति ।
गृध्रसीं सास्थिभङ्गां च मन्दाग्नित्वं च नाशयेत् ॥ ३८ ॥
अपस्मारमथोन्मादं विद्रधिं मन्दगामिताम् ।
त्वग्गताश्चापि ये वाताः शिरासन्धिगताश्च ये ॥ ३९ ॥
जानुगुल्फगताश्चैव पादपृष्ठगतास्तथा ।
अश्वं वा वातसंभग्नं नरं वा जर्जरीकृतम् ॥ ४० ॥
सर्वान् प्रशमयत्येतत्तैलमात्रेयपूजितम् ।
इन्द्रियैश्वर्यजननं वन्ध्यानां च प्रजाकरम् ॥ ४१ ॥
एतेनान्धकवृष्णीनां बहुच्छत्रं कुलं कृतम् ।
प्रसारणीतैलमिदं बलमांसविवर्धनम् ॥ ४२ ॥
धन्यं प्रजाकरं श्रेष्ठं वृद्धकालेऽपि सेवितम् ।
पङ्गुः पीठसर्पी वा पीत्वैतत्सं प्रधावति ॥ ४३ ॥
द्वितीयं प्रसारणीतैलम् ।
प्रसारण्याः पलाशतं बलामूलार्धमाषिकम् ।
शतावर्यह्वगन्धा च शतपुष्पा पुनर्नवा ॥ ४४ ॥
भङ्गी दशमूलं च चित्रको मदनं शठी ।
CATALOGUED.

पलाशंकान् समापोथ्य जलद्रोणे विपाचयेत् ॥ ४५ ॥
चतुर्भागावशेषं तु कषायमवतारयेत् ।
रास्त्रां शताह्वां मधुकं पिप्पलीं नागरं वचां ॥ ४६ ॥
कुष्ठं हरेणुकां मांसीं प्रियङ्गि्वन्द्रयवान् बिडम् ।
सैन्धवं शृङ्गवेरं च यवक्षारं सचित्रकम् ॥ ४७ ॥
मधूलिकां व्याघ्रनखं पालिकान् श्लक्ष्णपेषितान् ।
पचेत्तैलाढकं पूतमारानालपयोयुतम् ॥ ४८ ॥
एतदभ्यञ्जनं श्रेष्ठं नस्यकर्मानुवासने ।
गृध्रसीमस्थिभङ्गं च ये च मन्दाग्नयो नराः ॥ ४९ ॥
अपस्मारं तथोन्मादं विद्रधिं मन्दगामिताम् ।
त्वग्गतांश्चापि ये वाताः शिरासन्धिंगताश्च ये ॥ ५० ॥
अश्वं वा वातसम्भग्नं नरं वा जर्जरीकृतम् ।
सर्वान् प्रशामयत्येतत्तैलमात्रेयपूजितम् ॥ ५१ ॥
स्थिरीकरणमेतद्धि वलीपलितनाशनम् ।
इन्द्रियाणां बलकरं वर्णौदार्यकरं तथा ॥ ५२ ॥
बल्यं प्रजाकरं श्रेष्ठं वृद्धकालेऽपि सेवितम् ।
पङ्गुर्वाऽप्यथवा खञ्जः पीत्वा तैलं प्रधावति ॥ ५३ ॥
वातरोगे तृतीयं प्रसारणीतैलम् ।
समूलपत्रामुत्पाट्य जातसारां प्रसारणीम् ।
कुट्टयित्वा पलशतं कटाहे समधिश्रयेत् ॥ ५४ ॥
दशमूली बला रास्ना तथा सहचरामृते ।
शतावरी श्वदंष्ट्रा च एरण्डः कपिकच्छुका ॥ ५५ ॥
पृथग्दशपलान् भागांस्तथैव समधिश्रयेत् ।
वारिद्रोणे समायुक्तं चतुर्भागावशेषितम् ॥ ५६ ॥
काञ्जिकसमभागं तु तैलमत्र प्रदापयेत् ।
प्रशस्ते ऽहनि दिने कार्ये नक्षत्रे चापि शोभने ॥ ५७ ॥

देवदारु वचा कुष्ठं शताह्वा मधुयष्टिका ।
पिप्पली मधुकं रास्त्रा ह्यष्टवर्गेण संयुता ॥ ५८ ॥
चित्रकं पद्मकोशीरे कुष्ठं व्याघ्रनखं शठी ।
शुण्ठीसैन्धवमञ्जिष्ठाः कल्कपेष्याणि कारयेत् ॥ ५९ ॥
दधिमस्त्वम्लशुक्तानां तथा मांलरसस्य च ।
आढकाढकमादाय शनैर्मृद्वग्निना पचेत् ॥ ६० ॥
एतदभ्यञ्जनं पानं नस्यकर्मानुवासनम् ।
पृष्ठपार्श्वग्रहे शूले सक्थिवङ्क्षणयोस्तथा ॥ ६१ ॥
एकाङ्गे पक्षवधे हनुमन्याशिरोग्रहे ।
बाधिर्ये कर्णशूले च कर्णनादे च दापयेत् ॥ ६२ ॥
अभ्यङ्गात्त्वग्गतं हन्ति पानान्मांसगतं तथा ।
पक्वाशयगते बस्तिर्निरूहः सार्वकार्मिकः ॥ ६३ ॥
अशीतिर्वातजान् रोगांश्चत्वारिंशच्च पैत्तिकान् ।
विंशतिः श्लेष्मजांश्चैव सर्वानेवापकर्षति ॥ ६४ ॥
गृध्रसीं वातभग्नं च ऋतुदोषं तथैव च ।
ये नरा नष्टशुक्राश्च ऋतुहीनाश्च याः स्त्रियः ॥ ६५ ॥
वन्ध्या च लभते गर्भमृतुस्नाता न संशयः ।
(यस्मात्प्रसारयत्येषा मेधाग्निजनता शुभा ॥ ६६ ॥
आयुर्वृद्धिकरा चैव तथा जनकपूजिता । ?)
वातव्याधौ चतुर्थं प्रसारणीतैलम् ।
प्रसारणीशतं क्षुण्णं पचेत्तोयार्मणे शुभे ॥ ६७ ॥
पादशेषे पचेत्तैलं दधिमस्त्वम्लकाञ्जिकम् ।
द्विगुणं श्लक्ष्णपिष्टानि द्रव्याणीमानि योजयेत् ॥ ६८ ॥
द्विपलाभ्यधिकंमधुककणामूलं पटुं वचाम् ।
मूलं तथा प्रसारण्याः क्षारं च यवशूकजम् ॥ ६९ ॥
त्रिंशद्बल्लातकास्थीनि नागरात्पलपञ्चकम् ।
४

३८ आयुर्वेदग्रन्थमाला । [तैलाधिकारः
सिद्धं मृद्वग्निना तैलं वातश्लेष्मामयाञ्जयेत् ॥ ७० ॥
अशीतिर्नरनारीणां वातरोगान्निषूदति ।
कुब्जवामनपङ्गुत्वं खञ्जत्वं गृध्रसीं खुडम् ॥ ७१ ॥
हन्यात्पृष्ठकटिग्रीवास्तम्भं चाशु व्यपोहति ।
पीठसर्पी विभग्नश्च पीत्वा तैलं सुखी भवेत् ॥ ७२ ॥
प्रसारणीतैलमिदं बलवर्णाग्निवर्धनम् ।
वातरक्ते शतावरीतैलम् ।
शतावरीरसप्रस्थं क्षीरप्रस्थं तथैव च ॥ ७३ ॥
शतपुष्पा देवदारु मांसी शैलेयकं बला ।
चन्दनं तगरं कुष्ठमेला सांशुमती तथा ॥ ७४ ॥
एतैः कर्षसमैर्भागैस्तैलप्रस्थं विपाचयेत् ।
कुष्ठवामनपङ्गनां बधिरव्यङ्गकुष्ठिनाम् ॥ ७५ ॥
वायुना भग्नदेहानां येऽवसीदन्ति मैथुने ।
जराजर्जरदेहानां घर्मार्तमुखशोषिणाम् ॥ ७६ ॥
त्वग्गताश्चापि ये वाताः सिरास्नायुगताश्च ये ।
सर्वांस्तान्नाशयत्याशु तैलं नास्त्यत्र संशयः ॥ ७७ ॥
नारायणमिदं नाम्ना विष्णुना समुदाहृतम् ।
दक्षाङ्गमिव विख्यातं न क्वचित्प्रतिहन्यते ॥ ७८ ॥
वातव्याधौ द्वितीयं शतावरीतैलम् ।
शतावर्यास्तु मूलानां रसप्रस्थं समाहरेत् ।
क्षीरद्विगुणसंयुक्तं तैलप्रस्थं विपाचयेत् ॥ ७९ ॥
शतपुष्पा देवदारु मांसी शैलेयकं वचा ।
मञ्जिष्ठा चन्दनं कुष्ठमेला चांशुमती बला ॥ ८० ॥
तुरङ्गन्धा काकोली मेदा रास्ना पुनर्नवा ।
एतैरर्धपलैर्द्रव्यैः शनैर्मृद्वग्निना पचेत् ॥ ८१ ॥
अस्य तैलस्य पक्वस्य शृणु वीर्यमतः परम् ।
कुब्जानां वामनानां च पङ्गनां पीठसर्पिणाम् ॥ ८२ ॥

आक्षेपके च भग्नानां तथा भग्नास्थिसन्धिषु ।
एकाङ्गं तुद्यते यस्य गतिर्यस्य विहन्यते ॥ ८३ ॥
रक्तपित्तहरं शस्तं वातघ्नं परमं स्मृतम् ।
वातव्याधौ रास्नातैलम् ।
रास्नामूलस्य कुर्वीत द्वेशते च बलाशतम् ॥ ८४ ॥
शतावरीगुडूचीभ्यां वरुणाच्च शतं शतम् ।
निर्गुण्डीशिग्रुकैरण्डशिरीषारग्वधादपि ॥ ८५ ॥
श्वदंष्ट्राभूतिकाभ्यां च पृथक् पञ्चपलं क्षिपेत् ।
तोयद्रोणेषु शतसु साधयेत्सूक्ष्मकुट्टितम् ॥ ८६ ॥
द्रोणावशेषे तैलस्य शुद्धस्यार्धार्मणं पचेत् ।
द्रोणा दश च दुग्धस्य घृतस्यार्धाढकं तथा ॥ ८७ ॥
तदैकध्यं विपक्तव्यं गर्भ चात्र समावपेत् ।
मधुकं मालतीपुष्पं मञ्जिष्ठां मदयन्तिकाम् ॥ ८८ ॥
काश्मर्याण्यजमोदां च लवलीं तालमस्तकम् ।
आत्मगुप्ताफलं मूर्वां वार्त्ताकानि मधूलिकाम् ॥ ८९ ॥
सहदेवामयैरण्डं रोहिषं नवमालिकाम् ।
कायस्थां च वयस्थां च मधुपर्णी च चित्रकम् ॥ ९० ॥
महापुरुषदान्तां च बलां सकदलीफलाम् ।
देवदार्वगुरुश्रेष्ठं चन्दनं परिपेलवम् ॥ ९१ ॥
नीलोत्पलमुशीराणि मृद्वीकां साम्लवेतसाम् ।
एभिः पलशतैः पिष्टैः सम्यक् तैलं विपाचयेत् ॥ ९२ ॥
भोजनाभ्यञ्जने पाने बस्तौ नस्ये च शस्यते ।
वातव्याधिषु सर्वेषु क्षतक्षीणे शिरोग्रहे ॥ ९३ ॥
अपस्मारे रक्तगुल्मे पुंसां नष्टे च रेतसि ।
रास्नातैलमिदं श्रेष्ठं बलमांसविवर्धनम् ॥ ९४ ॥
वातव्याधौ शताह्वातैलम् ।
जलद्रोणे शताह्वायाः पादशेषे तुलां पचेत् ।

४० आयुर्वेदीयग्रन्थमाला । [तैलाधिकारः
क्वाथं तैलाढकोन्मिश्रं पचेत्क्षीरे चतुर्गुणे ॥ ९५ ॥
हरेणुकुष्ठसूक्ष्मैलातगरामरुसैन्धवैः ।
पक्वं कल्कैः पलसमैः प्रयोज्यं वातशीघ्रनुत् ॥ ९६ ॥
योनिशुक्ररजोदोषनाशनं स्त्रीषु पुत्रदम् ।
शताह्वातैलमित्येतद्बृंहणं बलवर्धनम् ॥ ९७ ॥
वातव्याधौ मूलकतैलम् ।
बालमूलकनिर्यूहस्तैलदध्यम्लकाञ्जिकम् ।
क्षीरं गवाढकोन्मानं पचेत्कल्कैः पलोन्मितैः ॥ ९८ ॥
रास्ना भल्लातकं चैव सैन्धवं गजपिप्पली ।
बला सातिविषा शुण्ठी पिप्पलीचित्रकं वचा ॥ ९९ ॥
श्वदंष्ट्रा चेति तत्पक्वं श्लेष्मवातामयापहम् ।
वर्ध्मगृध्रसीपङ्गुत्वं कुण्डलं सापतन्त्रकम् ॥ १०० ॥
कट्यूरूतम्भशोषं च पर्वस्तम्भं सकम्पनम् ।
हन्याद्गुल्मं च वातोत्थं बलवर्णाग्निवर्धनम् ॥ १०१ ॥
वन्ध्यानां पुत्रदं चैव तैलं मूलकसाह्वयम् ।
वातव्याधौ सहचरतैलम् ।
समूलपत्रशाखस्य शतं सहचरस्य च ॥ १०२ ॥
चतुर्गुणे जलद्रोणे साधयेत्सूक्ष्मचूर्णितम् ।
द्रोणावशेषे पूते च पचेत्तैलाढकं शनैः ॥ १०३ ॥
सहचरस्य मूलानां पेष्यं दशपलं भवेत् ।
परिस्राव्य सुखोष्णे तु शर्करायाः प्रदापयेत् ॥ १०४॥
पलानि दश चाष्टौ च निर्मथ्य च निधापयेत् ।
बस्तौ पाने तथाऽभ्यङ्गे नस्ये चैव प्रशस्यते ॥ १०५ ॥
एकाङ्गिकं पक्षवधं हनुग्रहशिरोग्रहम् ।
अर्दितं वेपथून्मादं सर्वगात्रग्रहं ज्वरम् ॥ १०६ ॥
गृध्रसीं वातगुल्मं च भूतोपहतचेतसम् ।
अपस्मारं हनुस्तम्भमूरुस्तम्भं च नाशयेत् ॥ १०७ ॥