गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 51, कुल 286 में से
संदर्भ में पढ़ें३० आयुर्वेदियम्रन्थमाला । [घृताधिकारः
कासार्दिताः शोणितपित्तिनश्च पिवेयुरेते शिखिसर्पिरग्र्यम् ३१३
वृष्यं च बल्यं च रसायनं च सर्वेन्द्रियाणां बलवर्धनं च ।
ओजःखरं प्रीणयते च मात्रं विषघ्नमेतद्दरनाशनं च ॥ ३१४॥
एतेन वृद्धाः कृशदुर्बलाश्च तथैव वाग्ध्वससङ्गाहताश्च ।
प्रक्षीणवीर्याश्च रतिप्रसक्ताः स्त्रियः समागम्य तृषीमवन्ति ३१५
हिमव्यपाये हिमदग्धपल्लवाः पुनः प्ररोहन्ति यथा महीरुहाः ।
पुनस्तथा यौवनपुष्टिमन्तो नरा भवन्तीह घृतप्रयोगात्॥३१६॥
तिमिरे जीवन्त्याद्यं घृतम् ।
तुलां पचेद्वि जीवन्त्या द्रोणेऽपां पादशेषिते ।
दत्वा चतुर्गुणं क्षीरं घृतप्रस्थं विपाचयेत् ॥ ३१७ ॥
प्रपौण्डरीककाकोलीपिप्पलीरोध्रसैन्धवैः ।
शताह्वामधुकद्राक्षासितादारुफलत्रयैः ॥ ३१८ ॥
कार्षिकैर्निशि तत्पीतं तिमिरापहरं परम् ।
अपस्मारे पञ्चगव्यं घृतम् ।
दशमूलेन्द्रवृक्षत्वङ्मूर्वाभार्गीफलत्रयैः ।
शम्याकश्रेयसीसप्तपर्णापामार्गफल्गुभिः ॥ ३१९ ॥
शृतैः कल्कैश्च भूनिम्बतृवृताव्योषचित्रकैः ।
त्रिवृत्पाठाविशालारुङ्मलारिविडङ्गपौष्करैः ॥ ३२० ॥
कटुकावासदन्त्युग्रानीलिनीक्रिमिशत्रुभिः ।
सर्पिरेभिश्च गोक्षीरदधिमूत्रशकृद्रसैः ॥ ३२१ ॥
साधितं पञ्चगव्याख्यं सर्वापस्मारभूतनुत् ।
चतुर्थकज्वरश्वासानुन्मादांश्च नियच्छति ॥ ३२२ ॥
ज्वरे महापञ्चगव्यं घृतम् ।
दशमूलमपामार्गं त्रिफलां कुटजत्वचम् ।
सप्तपर्णं हरिद्रे द्वे नीलिनीं कटुरोहिणीम् ॥ ३२३ ॥
आरग्वधं पुष्करं च फल्गुमूलं दुरालभाम् ।
द्विपलांशान् पचेद् द्रोणे साधयेत्पादशेषिते ॥ ३२४ ॥