गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 45, कुल 286 में से
संदर्भ में पढ़ें२४ आयुर्वेदियग्रन्थमाला । [घृताधिकारः]
आटरूषकपत्राणां पेषयित्वा पलं तथा ।
एतन्मृद्वग्निना सिद्धं सितं पूतमथापि वा ॥ २४५ ॥
द्विपलं शर्कराचूर्णं क्षीरार्धकुडवं तथा ।
त्वक्क्षीर्याश्च पलार्धं हि तत्सर्वं खजमूर्च्छितम् ॥ २४६ ॥
निदध्याद्भाजने शुद्धे काञ्चने राजतेऽपिवा ।
एतत्प्रायोगिकं सर्पिरिमान् व्याधीन् व्यपोहति ॥ २४७ ॥
कासं श्वासं ज्वरं गुल्मं कार्यं छर्दिमरोचकम् ।
हृद्रोगं पार्श्वशूलं च क्षतक्षीणं प्लीहोदरम् ॥ २४८ ॥
जीवनं बृंहणं वृष्यं पाण्डुश्वयथुनाशनम् ।
तन्त्रान्तराद्दाडिमाद्यं घृतम् ।
दाडिमात्कुडवो धान्यात्कुडवार्धं पलं पलम् ॥ २४९ ॥
चित्रकाच्छृङ्गवेराच्च पिप्पल्यष्टमिका तथा ।
कल्कैस्तैर्विंशतिपलं घृतस्य सलिलाढके ॥ २५० ॥
सिद्धं हृत्पाण्डुगुल्मार्शः प्लीहवातार्तिशूलनुत् ।
दीपनं श्वासकासघ्नं मूढवातानुलोमनम् ॥ २५१ ॥
दुःखप्रसविनीनां च वन्ध्यानां चैव पुत्रदम् ।
चित्रकाद्यं घृतम् ।
चित्रकस्य तुलाक्वाथे घृतप्रस्थं विपाचयेत् ॥ २५२ ॥
आरनालं च द्विगुणं दधिमण्डं चतुर्गुणम् ।
पञ्चकोलकतालीसक्षारैर्लवणसंयुतैः ॥ २५३ ॥
द्विजीरकनिशायुग्मैर्मरिचं तत्र दापयेत् ।
गुल्मप्लीहोदराध्मानपाण्डुरोगारुचिज्वरान् ॥ २५४ ॥
बस्तिहृत्पार्श्वकट्यूरुशूलोदावर्त्तजान् गदान् ।
निहन्यात् पीतमशोंघ्नं पाचनं वह्निदीपनम् ।
बलवर्णकरं चापि भसकं च नियच्छति ॥ २५५ ॥
१ प्रायोगिकमिति प्रयोगः स्वास्थस्य सततोपयोगः, तत्र साधु प्रायोगिकम् ।