गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 50, कुल 286 में से
संदर्भ में पढ़ेंव्यापन्नवह्नौ कफगुल्मिनां च कण्डूविकारेषु च शस्तमेतत् ।
भल्लातकाख्यं नियमेन पीतं जयेच्च सर्वान् ग्रहणीविकारान् ३०१
जीर्णज्वरे पिप्पल्याद्यं घृतम् ।
पिप्पलयतिविषाद्राक्षासारिवाबिल्वचन्दनैः ।
कटुकेन्द्रयवोशीरशठीतामलकीघनैः ॥ ३०२ ॥
त्रायमाणास्थिराधात्रीविश्वभेषजचित्रकैः ।
पक्वेनैतैर्घृतं पर्क विच्छिद्य विषमाश्रिताम् ॥ ३०३ ॥
जीर्णज्वरशिरःशूलगुल्मोदरहलीमकान् ।
क्षयकासान् ससंतापान् पार्श्वशूलान्यपास्यति ॥३०४॥
मायूरघृतम् ।
हेमन्तकाले शिशिरे च सेव्यं वसन्तकाले च मयूरसर्पिः ।
औष्ण्याद्धि बर्ही विषभक्षणाच्च वर्षाशरद्ग्रीष्ममुखे व्यपास्य ३०५
आहारजातं हि विहङ्गमस्य कीटाश्च सर्पाश्च सरीसृपाश्च ।
पिपीलिकामत्कुणमक्षिकाश्च तेनोष्र्णकालेष्वहितो मयूरः ३०६
तथैव काले जलदाभिरामे विसृज्य शुक्रं च मदं च बर्ही ।
कृशत्वमायाति हि हीनतां च शरन्मुखे तेन विवर्जनीयः३०७
अथाऽऽहरेत्स्वस्थमृतं वयस्थं निस्तुण्डपत्रात्रनखं मयूरम् ।
द्विद्रोणमात्रे पयसो निधाय विपाचयेन्द्रेषजसंप्रयुक्तम् ॥३०८॥
सश्रावणीमंशुमतीमनन्तां काकोलीमेदे वृषभे वयस्याम् ।
सविश्वदेवां सहदेवसाहां सप्तच्छदान्मूलफले बलां च ॥३०९॥
शतावरीजीवकसोमवल्कमेकैकशः स्युः पलसंमिताश्च ।
ततोऽर्धशिष्टे कथिते सुपूते घृताढकं तत्र पुनर्विपाच्य ॥३१०॥
कल्केरिमैः कर्षसमप्रमाणैर्द्रोणेन दुग्धस्य युतैः सुपिष्टैः ।
मुञ्जातकाक्षोडमथात्मगुप्ता वृद्धिस्तथा तामलकी सबीरा ३११
पियालमज्जा मधुकं तथैव सिद्धं प्रशान्तं गतफेनशब्दम् ।
पानेषु भोज्येषु च देयमेतद्भक्तेषु नानाप्रभवेषु चैव ॥ ३१२॥
मन्दाग्निरेतोविषपीडिताश्च क्षीणक्षताश्चापि कृषातिवृद्धाः ।