गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 42, कुल 286 में से
संदर्भ में पढ़ें१] गदनिग्रहः । २१
प्रदाय सर्पिषः प्रस्थं पचेत् क्षीरं चतुर्गुणम् ॥ २०९ ॥
सिद्धे शीते पलान्यष्टौ शर्करायाः प्रदापयेत् ।
एतद्राक्षाघृतं नाम क्षीणक्षुत्तृट्सुखावहम् ॥ २१० ॥
वातपित्तज्वरश्वासविस्फोटकहलीमकान् ।
प्रदरं रक्तपित्तं च हन्यान्मांसबलप्रदम् ॥ २११ ॥
विदेहात्सर्वनेत्ररोगे त्रिफलाद्यं घृतम् ।
त्रिफलाया रसप्रस्थं प्रस्थं भृङ्गरसस्य च ।
पीडयित्वा वृषं बालं रसप्रस्थं प्रदापयेत् ॥ २१२ ॥
अजाक्षीरस्य च प्रस्थं कार्षिकैः श्लक्ष्णपेषितैः ।
पिप्पली शर्करा द्राक्षा त्रिफला नीलमुत्पलम् ॥ २१३ ॥
मधुकं क्षीरकाकोली मधुपर्णी निदिग्धिका ।
मञ्जिष्ठापद्मकोशीरसारिवादारुचन्दनैः ॥ २१४ ॥
घृतं प्रस्थं पचेत् प्राज्ञः कल्कैरेभिः समन्वितम् ।
ऊर्ध्वपानमधः पानं मध्ये पानं विशिष्यते ॥ २१५ ॥
अति प्रदुष्टे रक्ते च रक्ते वातिस्रुते तथा ।
नक्तान्ध्ये तिमिरे काचे सर्वनेत्ररुजासु च ॥ २१६ ॥
बकविद्योतितं भ्रान्तं सूर्यतेजोद्विषं तथा ।
गृध्रदृष्टिकरं धन्यं बलवर्णाग्निवर्धनम् ॥
त्रिफलाया घृतं सिद्धं सर्वनेत्ररुजान्तकृत् ॥ २१७ ॥
पटोलाद्यं घृतम् ।
पटोलं मधुकं दार्बी निम्बं वासां फलत्रिकम् ।
दुरालभां पर्पटकं त्रायन्तीं च पलोन्मिताम् ॥ २१८ ॥
प्रस्थमामलकानां च क्वाथयेत्सलिलार्मणे ।
तेन पादावशेषेण घृतप्रस्थं विपाचयेत् ॥ २१९ ॥
कल्कैर्भूनिम्नकटुजमुस्तयष्ट्याह्वचन्दनैः ।
सपिप्पलीकैस्तत् सर्पिश्चक्षुष्यं श्रोत्रयोर्हितम् ॥ २२० ॥
घ्राणकर्णाक्षिवर्त्मत्वग्दन्तरोगव्रणापहम् ।