सामग्री पर जाएँ
सर्वकोश
गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)

गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)

Gadanigraha of Acharya Sodhala with Commentary

आचार्य सोढल द्वारा

DevanagariHindipublished286 पृष्ठ

पृष्ठ 43, कुल 286 में से

संदर्भ में पढ़ें
पृष्ठ 43

२२ आयुर्वेदीयग्रन्थमाला । [घृताधिकारः
रक्तपित्तहरं खेदक्लेदपूयोपशोषणम् ॥ २२१ ॥
कामलाज्वरवीसर्पगण्डमालाहरं परम् ।
कृष्णात्रेयाद्विन्दुघृतम् ।
त्रिवृता त्रिफला पाठा दन्ती कटुकरोहिणी ॥ २२२ ॥
चतुरङ्गुलमज्जा च तथा च कटुकत्रयम् ।
चित्रकं च बृहत्यौ च तथा च गजपिप्पली ॥ २२३ ॥
स्नुहीक्षीरपलं दद्यात् घृतस्याष्टौ प्रदापयेत् ।
यावन्तः स पिबेद्विन्दून् तावद्वेगान् विरिच्यते ॥ २२४ ॥
एतद्विन्दुघृतं सिद्धमृषिभिः परिकीर्तितम् ।
कृष्णात्रेयाद्गुल्मे महाबिन्दुघृतम् ।
स्नुहीक्षीरपले द्वे च प्रस्थार्धं चैव सर्पिषः ॥ २२५ ॥
कम्पिल्लकपलं चैव शाणार्धं सैन्धवस्य च ।
त्रिवृतायाः पलं चैव कुडवं धात्रिजाद्रसात् ॥ २२६ ॥
तोयप्रस्थेन संयुक्तं शनैर्मृद्वग्निना पचेत् ।
कर्षप्रमाणं दातव्यं जठरे प्लीहगुल्मयोः ॥ २२७ ॥
तथा कर्णोत्थरोगेषु युञ्जीत कुशलो भिषक् ।
एतद्गुल्मादिनिचयान्समूलान् सपरिग्रहान् ॥ २२८ ॥
निहन्त्येष प्रयोगो हि वायुर्जलधरानिव ।
पञ्चगुल्मवधार्थाय सर्पिरेतत् प्रकीर्तितम् ॥ २२९ ॥
सर्वासुरवधार्थाय यथा वज्रं बिडौजसा ।
महाबिन्दुघृतं सिद्धं सर्वोदरहरं परम् ॥ २३० ॥
गुल्मे बिन्दुघृतम् ।
श्यामात्रिवृद्वह्निपलत्रयं हि हरीतकीनां तु शतार्धमन्वक् ।
तोयाम्भसोऽर्धेन विपाचितेन प्रस्थं पचेद्द्रव्यघृतस्य चैव ॥२३१॥
कम्पिल्लकस्यापि पलप्रमाणं सनीलिनीबीजपलद्वयं च ।
चतुष्पलं स्नुक्पयसश्च दत्वा गुल्मापहं बिन्दुघृतं विरेकात्॥२३२