गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 46, कुल 286 में से
संदर्भ में पढ़ेंगदनिग्रहः । २५
शोफे चित्रकाद्यं घृतम् ।
चित्रकं धान्ययवान्यजाजीसौवर्चलत्र्यूषणवेतसाम्लम् ।
ल्वोत्पलं दाडिमयावशूकं सपिप्पलीमूलमथापि चव्यम् २५६
ष्टाऽक्षमात्राणि जलाढकेन पक्त्वा घृतप्रस्थमथापि युञ्ज्यात् ।
र्शांसि गुल्मान् श्वयथुं सकृच्छ्रं निहन्ति वह्निं च करोति दीप्तम्॥
प्लीह्नि तृतीयं रोहीतकाद्यघृतम् ।
रोहीतकत्वचः श्रेष्ठात्पलानां पञ्चविंशतिः ।
कोलद्विप्रस्थसंयुक्तं कषायमुपकल्पयेत् ॥ २५८ ॥
पालिकैः पञ्चकोलैश्च तैः सर्वैश्चापि तुल्यया ।
रोहीतकत्वचा पिष्टैर्घृतप्रस्थं विपाचयेत् ॥ २५९ ॥
प्लीहाभिवृद्धिं शमयेदेतदाशु प्रयोजितम् ।
तथा गुल्मज्वरश्वासकृमिपाण्डुत्वकामलान् ॥ २६० ॥
कुष्ठे गुग्गुलुपञ्चतिक्तकं घृतम् ।
निम्बामृतावृषपटोलनिदिग्धिकानां
भागानिमान्दशपलान्विपचेद्वटेऽपाम् ।
अष्टांशशेषितशृतेन पुनश्च तेन
प्रस्थं घृतस्य विपचेद्धृतभागकल्कैः ॥ २६१ ॥
पाठाविडङ्गसुरदारुगजौपकुल्या-
द्विक्षारनागरनिशामिशिचव्यकुष्ठैः ।
तेजोवतीमरिचवत्सकदीप्यकाग्नि-
रोहिण्यरुष्करवचाकणमूलयुक्तैः ॥ २६२ ॥
मञ्जिष्ठयाऽतिविषया विषया यवान्या
संशुद्धगुग्गुलुपलैरपि पञ्चसंख्यैः ।
तत्सेवितं विधुवति प्रबलं समीरं
सन्ध्यस्थिमज्जगतमप्यथ कुष्ठमीदृक् ॥ २६३ ॥
नाडीव्रणार्बुदभगन्दरगण्डमाला-
जत्रूर्ध्वसर्वगदगुल्मगुदोत्थमेहान् ।
३