सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)

Gadanigraha of Acharya Sodhala with Commentary

आचार्य सोढल द्वारा

DevanagariHindipublished286 पृष्ठ

आयुर्वेदीयग्रन्थमाला ।

श्रीशोधलविरचितो

गदनिग्रहः।

मङ्गलाचरणम् ।

करकिसलयसङ्गी यस्य पीयूषकुम्भः
परममरवधूनां भूयसे मङ्गलाय ।
स खलु निखिलदुग्धाम्भोधिरत्नेषु रत्नं
हरतु दुरितराशीनाशु धन्वन्तरिर्वः ॥ १ ॥
त्रिभुवनजनरोगग्रामसंग्रामजेताऽ-
मृतभृतधृतकुम्भोदूर्णहस्तायुधश्रीः ।
अमरमथितदुग्धाम्भोभिल्लब्धोदयोऽसौ
दलयतु दुरितौघानाद्यवैद्याधिपो वः ॥ २ ॥
नानामुनिकृतैः श्लोकैः शोधलेनाल्पमेधसा ।
विबुधप्रतिबोधाय ग्रथ्यते गदनिग्रहः ॥ ३ ॥

ग्रन्थानुक्रमणिका ।

घृतं तैलं च चूर्णानि गुटिलेहौ तथासवाः ।
आदावेते ह्यनेकार्था ग्रन्थेऽस्मिन् गदनिग्रहे ॥ ४ ॥
ज्वरोऽतिसारो ग्रहणी चार्शोऽजीर्णे विषूचिका ।
अलसश्च विलम्बी च कृमिरुक् पाण्डुकामले ॥ ५ ॥
हलीमकं रक्तपित्तं राजयक्ष्मोरसः क्षतम् ।
कासो हिक्का सह श्वासैः स्वरभेदस्त्वरोचकः ॥ ६ ॥
छर्दिस्तृषा च मूर्च्छा च रोगाः पानानमदात्ययः ।
दाहो वातविकाराश्च वातरक्तोरुरुक् तथा ॥ ७ ॥

२ आयुर्वेदीयग्रन्थमाला ।
आमवातस्तथा शूलं शूलं च परिणामजम् ।
जरत्पित्तमथानाह उदावर्त्तोऽथ गुल्मरुक् ॥ ८ ॥
हृद्रोगो मूत्रकृच्छ्रं च मूत्राघातस्तथाऽश्मरी ।
प्रमेहो मधुमेहश्च पिटिकाश्च प्रमेहजाः ॥ ९ ॥
मेदोदोषोदरं शोफो विद्रधिर्वृद्धिरेव च ।
कुष्ठं श्वित्रं शीतपित्तमुदर्दः कोठ एव च ॥ १० ॥
अम्लपित्तं विसर्पश्च विस्फोटाऽथ मसूरिका ।
इति कायचिकित्सायां मया रोगाः प्रकीर्तिताः॥ ११॥
शालाक्ये शिरसो रोगाः कर्णनेत्रामयास्तथा ।
नासामुखामयांश्चैव द्वितीयेऽङ्गे चिकित्सिताः ॥ १२ ॥
गण्डमालाऽपची गण्डः पिटिकार्बुदग्रन्थयः ।
श्लीपदं व्रणशोफश्च सद्योव्रणचिकित्सितम् ॥ १३ ॥
भग्ननाडीव्रणौ चैव भगन्दरोपदंशकौ ।
शूकदोषः क्षुद्ररोगाः शल्ये चाङ्गे चिकित्सिताः ॥ १४ ॥
भूतोन्मादस्तथोन्मादस्तथाऽपस्मार एव च ।
भूततन्त्रे चतुर्थेऽङ्गे सनिदानाश्चिकित्सिताः ॥ १५ ॥
प्रदरो योनिव्यापच्च गर्भास्रावचिकित्सितम् ।
मूढगर्भोऽथ वन्ध्या च योनिशुक्रगदास्तथा ॥ १६ ॥
सूतिका स्तन्यदोषाश्च गाढनिर्लोमभेषजम् ।
बालरोगचिकित्सा च बालतन्त्रेऽथ पञ्चमे ॥ १७ ॥
सर्पलूताविषे चैव वृश्चिकोन्दुरुजं विषम् ।
नखदन्तविषं चैव स्थावरं कृत्रिमं विषम् ॥ १८ ॥
षष्ठे तन्त्रे विषारूख्ये च प्रोक्तं चैषां चिकित्सितम् ।
रसायनं सप्तमं च वाजीकरणमष्टमम् ॥ १९ ॥
पञ्चकर्माधिकारे च स्नेहस्वेदविधिस्तथा ।
वमनं च विरेकश्च नस्यकर्मेत्यनुक्रमः ॥ २० ॥

१.] गदनिग्रहः । ३
अथातो घृताधिकारः प्रारभ्यते ॥
ज्वरे मञ्जिष्ठाद्यं घृतम् ।
मञ्जिष्ठाऽतिविषा पथ्या वचा नागररोहिणी ॥ १ ॥
देवदारु हरिद्रा च द्रोणेऽपां पलिकान् पचेत् ।
क्वाथेऽस्मिन् साधयेत् पिष्टैर्घृतप्रस्थं पिचुन्मितैः ॥ २ ॥
शृङ्गवेरकणाहिङ्गुद्विक्षारपडुपञ्चकैः ।
तत्कफावृतसर्वोत्थज्वरिणाममृतोपमम् ॥ ३ ॥
वर्ध्मगुल्मानिलश्वासकासपाण्डुविकारिणाम् ।
गलग्रन्थिप्रमेहार्शःप्लीहापस्मारशोफिनाम् ॥ ४ ॥
उदावर्तपरीतानां मन्दाग्निकृमिकुष्ठिनाम् ।
द्वितीयं मञ्जिष्ठाद्यं घृतम् ।
मञ्जिष्ठा च हरिद्रा च देवदारु हरीतकी ॥ ५ ॥
शृङ्गवेरं ह्यतिविषा वचा कटुकरोहिणी ।
हिङ्गुतश्चाक्षमात्रेण तत्सिद्धमवतारयेत् ॥ ६ ॥
एतन्माञ्जिष्ठकं सर्पिर्बहून् रोगान्नियच्छति ।
हिक्कां श्वासं ज्वरं दुष्टं ग्रहणीं पाण्डुरोगताम् ॥ ७ ॥
प्रमेहान्मधुमेहांश्च कृमीन् कुष्ठमरोचकम् ।
कासं शोषमुदावर्तमपस्मारं तथैव च ॥ ८ ॥
अर्शांसि श्वयथुं चैव गण्डमालां प्लीहोदरम् ।
ज्वरे तिल्वकाद्यं घृतम् ।
तिल्वकस्य पलान्यष्टौ त्वचस्तु सुकृतादतः ॥ ९ ॥
अंशुमत्युरुबूकं च बिल्वाद्यं च पृथक् पलम् ।
यवकोलकुलत्थानां प्रस्थं प्रस्थं फलत्रिकात् ॥ १० ॥
तत्साधयेज्जलद्रोणे चाष्टभागावशेषितम् ।
घृतप्रस्थं पचेत्तेन दत्वा दम्नस्तथाढकम् ॥ ११ ॥
कर्षेण यावशूकस्य पर्कं तदवचूर्णयेत् ।
एतत्तु तैल्वकं नाम जीर्णज्वरविषापहम् ॥ १२ ॥

कृमिकुष्ठहरं चैव शोफपाण्ड्वामयापहम् ।
जीर्णज्वरे हारीताल्कटुकं घृतम् ।
त्रिफलां पञ्चमूल्यौ द्वे कुलत्थान् बदरान् यवान् ॥ १३ ॥
द्विपलिकान् जलद्रोणे त्वष्टभागावशेषितम् ।
निःस्राव्य विपचेत्कल्कं दत्वा प्रस्थं च सर्पिषः ॥ १४ ॥
पिप्पली पिप्पलीमूलं चव्यचित्रकनागरम् ।
पुष्करातिविषे भार्गी शठी सप्तच्छदं वचा ॥ १५ ॥
रजन्यौ नक्तमालं च पाठे द्वे शिग्रुतुम्बरु ।
सोमवल्कोऽर्कमूलानि मदनं कटुरोहिणी ॥ १६ ॥
तेजस्विनी सगोजिह्वा चन्दनं कण्टकारिका ।
किराततिक्तकं मुस्तं पटोलं सदुरालभम् ॥ १७ ॥
वयस्थां पिचुमन्दं च कटुकं हिङ्गुना सह ।
एतानक्षसमान् दत्वा क्षारौ द्वयर्धपलोन्मितौ ॥ १८ ॥
लवणानां च पञ्चानां कर्षं कर्षं प्रदापयेत् ।
सिद्धं तन्मात्रया पीतं सर्वजीर्णज्वरापहम् ॥ १९ ॥
हृत्प्लीहग्रहणीदोषश्वासकासार्शसां हितम् ।
गुल्मघ्नं कटुकं नाम कृष्णात्रेयेण पूजितम् ॥ २० ॥
दीर्घकालानुबद्धानां ज्वराणाममृतोपमम् ।
अग्निमान्द्ये अग्निघृतम् ।
मद्यातकान्पलशतं जलद्रोणे विपाचयेत् ॥ २१ ॥
चतुर्थांशावशेषं तु कषायमवतारयेत् ।
त्र्यूषणं पिप्पलीमूलं चित्रको हस्तिपिप्पली ॥ २२
हिङ्ग्वजमोदं च पञ्चैव लवणानि च ।
द्वौ क्षारौ दाडिमं चात्र दद्यादर्धपलोन्मितान् ॥ २३
मस्त्वम्लरसचुक्राणां प्रस्थं प्रस्थं प्रदापयेत् ।
आर्द्रकस्य रसप्रस्थं घृतप्रस्थं विपाचयेत् ॥ २४ ॥
एतदग्निघृतं नाम मन्दाग्नीनां प्रशस्यते ।

गदनिग्रहः । ५
अर्शांसि वातरोगं च प्लीहोदरजलोदरम् ॥ २५ ॥
ग्रन्थ्यर्बुदापचीशोफकुष्ठमेदोऽनिलांस्तथा ।
ये च कुक्षिगता रोगा ये च बस्तिसमाश्रिताः ॥ २६ ॥
तान् सर्वान्नाशयेदेतत्सूर्यस्तम इवोदितः ।
ग्रहण्यां चाङ्गेरीघृतम् ।
पिप्पली नागरं पाठा यवानी विश्वभेषजम् ॥ २७ ॥
भागांस्त्रिपलिकान् कृत्वा कषायमुपकल्पयेत् ।
भार्गी च पिप्पलीमूलं व्योषं चव्यं सचित्रकम् ॥ २८ ॥
श्वदंष्ट्रा पिप्पली धान्यं बिल्वं पाठा यवानिका ।
एतैः पलार्थकैर्द्रव्यैः कृत्वा कल्कं विपाचयेत् ॥ २९ ॥
पलानि सर्पिषस्तस्मिन् चत्वारिंशत्समावपेत् ।
मृद्वग्निना ततः साध्यं सिद्धं सर्पिर्निधापयेत् ॥ ३० ॥
ग्रहण्यर्शोविकारघ्नं गुल्महृद्रोगनाशनम् ।
शोफप्लीहोदरानाहमूत्रकृच्छ्रज्वरापहम् ॥ ३१ ॥
कासहिकारुचिश्वाससूदनं सर्वगुल्मनुत् ।
अग्निवेशात् गुदभ्रंसे द्वितीयं चाङ्गेरीघृतम् ।
नागरं पिप्पलीमूलं चित्रको हस्तिपिप्पली ॥ ३२ ॥
श्वदंष्ट्रा पिप्पली धान्यं बिल्वं पाठा यवानिका ।
चाङ्गेरीस्वरसे सर्पिः कल्कैरेभिर्विपाचयेत् ॥ ३३ ॥
चतुर्गुणेन दध्ना तु तद्धृतं कफवातनुत् ।
अर्शांसि ग्रहणीरोगं मूत्रकृच्छ्रं प्रवाहिकाम् ॥ ३४ ॥
गुदभ्रंशार्तिमानाहं घृतमेतद्व्यपोहति ।
गुल्मे दाधिकं घृतम् ।
विडदाडिमसिन्धूत्थहुतभुग्व्योषजीरकैः ॥ ३५ ॥
हिङ्गुसौवर्चलक्षाररुग्वृक्षाम्लाम्लवेतसैः ।
बीजपूररसोपेतं सर्पिर्दधि चतुर्गुणम् ॥ ३६ ॥
साधितं दाधिकं नाम गुल्महृत् प्लीहशूलनुत् ।

हपुषाव्योषमृद्वीकाचव्यचित्रकसैन्धवैः ॥ ३७ ॥
साजाजीपिप्पलीमूलदीप्यकैर्विपचेद्घृतम् ।
सकोलमूलकरसं सदधिक्षीरदाडिमम् ॥ ३८ ॥
तत् परं वातगुल्मघ्नं शूलानाहविनाशनम् ।
योन्यर्शोग्रहणीदोषश्वासकासारुचिज्वरान् ॥ ३९ ॥
बाहुहृत्पार्श्वशूलं च घृतमेतद्व्यपोहति ।
अग्निवेशाद्रक्तपित्ते वासाद्यं घृतम् ।
समूलपत्रशाखस्य तुलां कुर्यादृषस्य च ॥ ४० ॥
जलद्रोणे विपक्तव्यमष्टभागावशेषितम् ।
कल्केन वृषपुष्पाणामाढकं सर्पिषः पचेत् ॥ ४१ ॥
तत्सिद्धं पाययेद्युक्त्या मधुपादसमायुतम् ।
श्वासं कासं प्रतिश्यायं तृतीयकचतुर्थकम् ॥ ४२ ॥
रक्तपित्तं क्षयं चैव विषं सर्पिर्नियच्छति ।
हारीताद्रक्तपित्ते महावासाद्यं घृतम् ।
वासकस्वरसे सर्पिः पयसा सह पाचयेत् ॥ ४३ ॥
कल्कैर्भूनिम्बकुटजमुस्तयष्ट्याह्वचन्दनैः ।
उदीच्यमधुकैर्युक्तैस्तालिशोत्पलपद्मकैः ॥ ४४ ॥
त्रायन्त्युत्पलमूर्कामर्मर्दयन्त्याश्च पल्लवैः ।
सिताक्षौद्रयुतं हन्याद्रक्तपित्तं सुदारुणम् ॥ ४५ ॥
पित्तं कासं च गुल्मं च स्वरभेदं हलीमकम् ।
ये चान्ये कीर्तिता रोगा रक्तपित्तकफाश्रयाः ॥ ४६ ॥
तान् सर्वान्नाशयेत्तत्पीयमानं हिताशिनः ।
हारीताद्गुल्मे दशाङ्गं घृतम् ।
यावशूकं वचा व्योषं विडङ्गं कटुरोहिणीम् ॥ ४७
सौवर्चलं हरीतक्यश्चित्रकं चाक्षसंमितैः ।
एभिः पचेद्धृतप्रस्थं दत्वा क्षीरजलाढकम् ॥ ४८ ।

गदनिग्रहः । ७
तत्पक्वं वातगुल्मघ्नं कृमिप्लीहज्वरापहम् ।
कासहिकारुचिहरं दशाङ्गं नाम दीपनम् ॥ ४९ ॥
गुल्मे हारीतालशुनघृतम् ।
लशुनाण्डस्य शुद्धस्य तुलार्धं निस्तुषस्य च ।
तदर्धं पञ्चमूलस्य ब्याढकेऽपां विपाचयेत् ॥ ५० ॥
पादशेषे घृतप्रस्थं लशुनस्य रसं तथा ॥
दाडिमाम्लसुरामस्तुकाञ्जिकाम्लैस्तदर्धकैः ॥ ५१ ॥
साधयेत्त्रिफलादारुलवणव्योषदीप्यकैः ।
यवानीचव्यहिङ्ग्वम्लवेतसैश्च पलार्धकैः ॥ ५२ ॥
सिद्धमेतद्धविः कल्कैर्गुल्मार्शोजठरापहम् ।
वर्ध्मपाण्ड्वामयप्लीहयोनिदोषज्वरापहम् ॥ ५३ ॥
वातश्लेष्मामयांश्चान्यान् घृतमेतद्व्यपोहति ।
हारीताद्गुल्मे नाराचकं घृतम् ।
चित्रकं त्रिफला दन्ती त्रिवृता कण्टकारिका ॥ ५४ ॥
स्नुहीक्षीरं विडङ्गानि घृतं दशममुच्यते ।
एकैकस्य च कर्षेण घृतस्य कुडवं पचेत् ॥ ५५ ॥
चतुर्गुणेन तोयेन सम्यगेतत्सुखाग्निना ।
तस्य काले पिबेन्मात्रां पलार्धसंमितां नरः ॥ ५६ ॥
उष्णोदकं चानुपिबेदल्पत्वादस्य सर्पिषः ।
विरिक्ते च यवागूः स्यात्सर्पिषा परिवर्जिता ॥ ५७ ॥
रसेन वा जाङ्गलानां भोजयेन्मतिमान् भिषक् ।
वातगुल्ममुदावर्तं प्लीहार्शोवर्ध्मकुण्डलम् ॥ ५८ ॥
ग्रहणीं दीपयेन्मेहान् कुष्ठदोषांश्च नाशयेत् ।
नाराचमिति विख्यातं सर्पिर्नाराचसंज्ञितम् ॥ ५९ ॥
भैषज्यं संप्रयोक्तव्यं नाराचमिव शत्रवे ।
कुष्ठे नीलिनीघृतम् ।
नीलिनीं त्रिफलां रास्नां वचां कटुकरोहिणीम् ॥ ६० ॥

८ आयुर्वेदीयग्रन्थमाला । [घृताधिकार
पचेद्दण्डं व्याघ्रीं च पलिकानि जलाढके ।
रसेऽष्टभागशेषे तु घृतप्रस्थं विपाचयेत् ॥ ६१ ॥
दध्नः प्रस्थेन संयोज्यं सुधाक्षीरपलेन च ।
ततो घृतपलं दद्याद्यवागूमण्डमिश्रितम् ॥ ६२ ॥
जीर्णे सम्यग्विरिक्तं च भोजयेद्रसभोजनम् ।
कुष्ठगुल्मोदरव्यङ्गशोफपाण्ड्वामयज्वरान् ॥ ६३ ॥
श्वित्रं प्लीहानमुन्मादं हन्त्येतन्नीलिनीघृतम् ।
सिद्धसाराद्गुल्मे विश्वाद्यं घृतम् ।
पलांशैर्विश्वचव्याग्निपिप्पलीक्षारसैन्धवैः ॥ ६४ ॥
क्वाथेन चिरबिल्वस्य घृतप्रस्थं विपाचयेत् ।
गुल्मोदावर्त्तपाण्डुत्वग्रहणीश्वासकासजित् ॥ ६५ ॥
कुष्ठज्वरमतिश्वासप्लीहार्शःशमनं परम् ।
अग्निवेशाद्गुल्मे षट्पलं घृतम् ।
पिप्पलीपिप्पलीमूलचव्यचित्रकनागरैः ॥ ६६ ॥
पलिकैः सयवक्षारैर्घृतप्रस्थं विपाचयेत् ।
क्षीरप्रस्थेन संयुक्तं हन्ति गुल्मं कफात्मकम् ॥ ६७ ॥
ग्रहणीपाण्डुरोगघ्नं प्लीहकासज्वरापहम् ।
हारिताद्गुल्मे महाषट्पलं घृतम् ।
सौवर्चलं पञ्चकोलं सैन्धवं हपुषा विडम् ॥ ६८ ॥
अजमोदा यवक्षारहिङ्गुजीरकमौद्भिदम् ।
कृष्णामजाजीपूतिकं कल्कीकृत्य पलार्धतः ॥ ६९ ॥
शृङ्गवेररसं चुक्रं घृतप्रस्थं समीकृतम् ।
कृमिप्लीहोदराजीर्णज्वरगुल्मप्रमेहकम् ॥ ७० ॥
वातरोगं तथा शोफं दौर्बल्यं वह्निसंक्षयम् ।
महाषट्पलमातङ्कान् भिनत्त्यशनिवद्गिरिम् ॥ ७१ ॥
कुष्ठे भेदात्रीलं घृतम् ।
द्वौ प्रस्थौ लोहचूर्णस्य त्रिफला त्र्याढकं तथा ।

१.] गदनिग्रहः । ९
वायसीकाकमाचीभ्यां द्वे पले शङ्खिनीतुला ॥ ७२ ॥
त्रिद्रोणेऽपां विपक्तव्यं चतुर्थांशावशेषितम् ।
घृतप्रस्थं पचेत्तेन गर्भे चैनं समावपेत् ॥ ७३ ॥
वरुणं वत्सकफलं त्र्यूषणं देवदारु च ।
अवल्गुजफलं दन्तीफलान्यारग्वधस्य च ॥ ७४ ॥
निदिग्धिका भृङ्गरजः पारावतपदी तथा ।
नीलकं नाम विख्यातमित्येतत्कुष्ठनुद्भूतम् ॥ ७५ ॥
श्वित्राणि रञ्जयेच्चैव पानाभ्यङ्गे प्रयोजितम् ।
पामाविचर्चिकासिध्मकिटिमानि च नाशयेत् ॥ ७६ ॥
श्वेताकुष्ठे महानीलं घृतम् ।
आरग्वधं वायसीं च बीजकं मदयन्तिका ।
एकैकस्य तुला देया प्रत्येकं त्रिफलाढकम् ॥ ७७ ॥
दन्ती दार्बी हरिद्रा च वरुणं कुटजत्वचम् ।
चित्रकं चार्कमूलं च काकमाची निदिग्धिका ॥ ७८ ॥
एषां दशपलान् भागान् त्रिद्रोणेऽपां विपाचयेत् ।
अष्टभागावशिष्टं तु पुनरग्नावधिश्रयेत् ॥ ७९ ॥
धात्रीरसं वृषरसं जातीस्वरसमेव च ।
दधि सर्पिषश्च दुग्धं च गोमूत्रं गोशकृद्रसः ॥ ८० ॥
आढकाढकमेतेषां गर्भे चेमं समावपेत् ।
अवल्गुजं त्रिकटुकं नक्तमालफलानि च ॥ ८१ ॥
पिचुमर्दं च जात्याश्च पीलुतिल्वकपल्लवाः ।
किराततिक्तकं श्यामा नीलिकानीलपल्लवाः ॥ ८२ ॥
एतैः सिद्धं परिस्राव्य पाययेत्कुष्ठरोगिणम् ।
महानीलमिति प्रोक्तमेतत्कुष्ठापहं घृतम् ॥ ८३ ॥
भगन्दरमथांशांसि कृमींश्चापि विनाशयेत् ।
अष्टादशैव कुष्ठानि सर्पिरेतन्नियच्छति ॥ ८४ ॥
१ गर्भमिति कल्कमित्यर्थः ।

१० आयुर्वेदीयग्रन्थमाला । [घृताधिकार
अथर्वप्रहितो दीप्तो ब्राह्मयो दण्ड इवासुरान् ।
विशेषतस्तु श्वित्राणि रञ्जयेच्च भिनत्ति च ॥ ८५ ॥
प्रसङ्गतः सेव्यमानं पानेनाभ्यञ्जनेन च ।
कुष्ठे त्रिफलाद्यं घृतम् ।
त्रिफला मदनं कुष्ठं शार्ङ्गष्टा रजनीद्वयम् ॥ ८६ ॥
शुकनासा काकमाची हपुषाऽतिविषा वचा ।
पाठा कोषातकी मूर्वा तिक्ता काकादनी घृतम् ॥ ८७ ॥
एतत्कषायकल्काभ्यां सिद्धं पीतं घृतोत्तमम् ।
विशीर्यमाणं विध्वस्तस्नायुकेशनखं नरम् ।
कुष्ठातुरं तु जनयेन्मुमूर्षुमपि निर्गदम् ॥ ८८ ॥
हसीतात्कुष्ठे आवर्तकीघृतम् ।
आवर्तकीमूलशतं सुसिद्धं
क्वाथीकृतं कल्कपलाष्टयुक्तम् ।
प्रस्थं पुराणाद्धविषः सुगव्यात्
पक्कं शनैः साधु तदावतार्य ॥ ८९ ॥
मात्रां पिबेद्व्याधिबलानुरूपां
भुञ्जीत चान्नं सह काञ्जिकेन ।
दत्तोत्तरं क्रोष्टुकजं सुजीर्णे
कामं पुरस्तादपरेऽह्नि शुद्धात् ॥ ९० ॥
त्रिसप्तरात्रं विधिनैवमाशु
पीतं निहन्यादचिरेण कुष्ठम् ।
त्रैवद्रुषं मैथुनसाङ्गदेहं
मण्डानुपूर्व्या विधिनाऽथ चैतत् ॥ ९१ ॥
अग्निवेशादुदर्दंशे चव्याद्यं घृतम् ।
चव्यं त्रिकटुकं पाठां क्षारं कुस्तुम्बरूणि च ।
यवानी पिप्पलीमूलमुभे च विडसैन्धवे ॥ ९२
चित्रकं विल्वमध्यां पिष्ट्वा सर्पिर्विपाचयेत् ।

गदनिग्रहः । ११
शकृद्वातानुलोमार्थं जले दध्नश्चतुर्गुणे ॥ ९३ ॥
प्रवाहिकां गुदभ्रंशं मूत्रकृच्छ्रं परिस्रवम् ।
गुदवंक्षणशूलं च घृतमेतद्व्यपोहति ॥ ९४ ॥
⁠भेदात्प्रमेहे धान्वन्तरं घृतम् ।
दशमूलं करञ्जौ द्वौ देवदारु हरीतकी ।
वर्षाभूर्वरुणो दन्ती चित्रकः सपुनर्नवः ॥ ९५ ॥
कपित्थोऽर्कसुधाक्षीरं बिल्वं भल्लातकानि च ।
शठी पुष्करमूलं च पिप्पलीमूलमेव च ॥ ९६ ॥
पृथग्दशपलानेषां भागांस्तोयार्मणे पचेत् ।
यवकोलकुलत्थानां प्रस्थं प्रस्थं प्रदापयेत् ॥ ९७ ॥
तेन पादावशिष्टेन घृतप्रस्थं विपाचयेत् ।
निचुलं त्रिफला भार्गी रोहिषं गजपिप्पली ॥ ९८ ॥
शृङ्गवेरं विडङ्गानि वचा कम्पिल्लकं तथा ।
गणेनानेन तत्सिद्धं पाययेद्धि यथाबलम् ॥ ९९ ॥
एतद्धान्वन्तरं नाम विख्यातं सर्पिरुत्तमम् ।
कुष्ठं प्रमेहं गुल्मांश्च श्वयथुं वातशोणितम् ॥ १०० ॥
प्लीहानमुदराशांसि विद्रधिं पिडकांस्तथा ।
अपस्मारं तथोन्मादं सर्पिरेतन्नियच्छति ॥ १०१ ॥
खरनादात्कुमारकल्याणकं घृतम् ।
शङ्खपुष्पी वचा ब्राह्मी कुष्ठं त्रिफलया सह ।
द्राक्षा सशर्करा शुण्ठी जीवन्ती जीवको बला ॥ १०२ ॥
शठी दुरालभा बिल्वं दाडिमं सुरसा स्थिरा ।
मुस्तं पुष्करमूलं च सूक्ष्मैला पिप्पली जलम् ॥ १०३ ॥
पाठा श्वदंष्ट्राऽतिविषा विडङ्गं दारु मालती ।
मधूकपुष्पं खर्जूरं बदरं वंशरोचना ॥ १०४ ॥
कल्कैरेषां समांशानां घृतं क्षीरचतुर्गुणम् ।
कषाये कण्टकार्याश्च साधयेत्सौम्यदैवते ॥ १०५ ॥

१२ आयुर्वेदीयग्रन्थमाला । [घृताधिकारः
एतत्कुमारकल्याणं घृतरत्नं सुखप्रदम् ।
बलवर्णकरं धन्यं पुष्टयग्निरुचिकारकम् ॥ १०६ ॥
छायासर्वग्रहालक्ष्मीदन्तकर्णगदापहम् ।
सर्वबालामयहरं मेध्यमायुष्यमुत्तमम् ॥ १०७ ॥
रसायनमिदं सेव्यं विशेषाद्दन्तजन्मनि ।
वाग्भटाद्ब्राह्मीघृतम् ।
द्वौ प्रस्थौ स्वरसाद्ब्राह्मया घृतप्रस्थं च साधयेत् ॥ १०८ ॥
व्योषश्यामत्रिवृद्ब्राह्मीशङ्खपुष्पीनृपद्रुमैः ।
ससप्तलाकृमिहरैः कल्कितैरक्षसंमितैः ॥ १०९ ॥
पलवृद्ध्या प्रयुञ्जीत यावन्मात्रा चतुष्पलम् ।
उन्मादकुष्ठापस्मारहरं वन्ध्यासुतप्रदम् ॥ ११० ॥
वाक्स्मृतिस्वरमेधाकृद्धन्यं ब्राह्मीघृतं शुभम् ।
शूले बीजपूरकाद्यं घृतम् ।
घृताच्चतुर्गुणो देयो मातुलुङ्गरसो दधि ॥ १११ ॥
शुष्कमूलककोलाम्लकषायो दाडिमाद्रसः ।
बिडङ्गलवणक्षीरपञ्चकोलयवानिभिः ॥ ११२ ॥
पाठामूलककल्कैश्च सिद्धं पूरकसंज्ञितम् ।
हृत्पार्श्वशूलवैस्वर्यहिध्माश्वासशमन्दरात् ॥ ११३ ॥
वर्ध्मगुल्मप्रमेहार्शोवातव्याधीन् विनाशयेत् ।
कृष्णात्रेयाङ्गे महागौर्याद्यं घृतम् ।
गौरी हरिद्रा मञ्जिष्ठा मांसी कटुकरोहिणी ॥ ११४ ॥
प्रपौण्डरीकं मधुकं भद्रमुस्तं सचन्दनम् ।
जातीनिम्बपटोलं च कारञ्जं बीजमेव च ॥ ११५ ॥
कट्फलं समधूच्छिष्टं समभागानि कारयेत् ।
पञ्चवल्ककषायेण घृतप्रस्थं विपाचयेत् ॥ ११६ ॥
क्षीरद्विगुणसंयुक्तं शनैर्मृद्वग्निना पचेत् ।
एतद्गौरं महागौर्यं सर्वव्रणविशोधनम् ॥ ११७ ॥

२-] गदनिग्रहः । १३:
आगन्तुसहजांश्चैव शिरःश्लिष्टांश्च ये व्रणाः ।
विषममपि नाडीं च रोहयेच्छीघ्रमेव च ॥ ११८ ॥
रक्तपित्ते दूर्वाद्यं घृतम् ।
दूर्वामुत्पलकिञ्जल्कं मञ्जिष्ठा चैलवालुकम् ।
श्वेतदूर्वा तथोशीरं मुस्ता चन्दनपञ्चकम् ॥ ११९ ॥
द्राक्षा मधूकयष्ट्याह्वं काश्मरी सितचन्दनम् ।
पिष्टैस्तैः कार्षिकैर्द्रव्यैर्घृतप्रस्थं विपाचयेत् ॥ १२० ॥
अजाक्षीरं तण्डुलाम्बु पृथग्दद्याच्चतुर्गुणम् ।
तत्पानं वमतो रक्तं नावनं नासिकागते ॥ १२१ ॥
कर्णाभ्यां यस्य गच्छेत तस्य कर्णौ प्रपूरयेत् ।
चक्षुर्गते च रक्ते वै पूरयेत्तेन चक्षुषी ॥ १२२ ॥
मेढ्रपायुगते चापि बस्तिकर्म प्रयोजयेत् ।
प्रवृत्ते रोमकूपेभ्यस्त्वभ्यङ्गे योजयेद्धृतम् ॥ १२३ ॥
वैदेहनेत्ररोगे महात्रैफलं घृतम् ।
त्रिफलाया रसप्रस्थं प्रस्थं भृङ्गरसस्य च ।
पीडयित्वा वृषं बालं रसप्रस्थं च दापयेत् ॥ १२४ ॥
अजाक्षीरस्य च प्रस्थं, प्रस्थं तैः सर्पिषः पचेत् ।
त्रिफला चन्दनं द्राक्षा पिप्पली मधुकं बला ॥ १२५ ।
काकोलीक्षीरकाकोलीमेदामरिचसैन्धवैः ।
शर्करा पुण्डरीकं च हरिद्रोत्पलनागरैः ॥ १२६ ॥
कल्कैः सिद्धं भिषग्दद्यान्नेत्ररोगविनाशनम् ।
काचं शुक्नं नीलिकां च वर्त्मरोगांश्च नाशयेत् ॥ १२७
नक्तान्ध्यं नकुलान्ध्यं च कण्डुं पिल्लमथापि च ।
अजकां तिमिरांश्चैव नेत्रस्त्रावांश्च दारुणान् ॥ १२८ ॥
त्रिफलासर्पिरेतद्धि पाननावनतर्पणैः ।
विदेहराज्ञा निर्दिष्टं दृष्टिनैर्मल्यकारकम् ॥ १२९ ॥
२

१४ आयुर्वेदौयग्रन्थमाला । [घृताधिकारः
वातव्याधौ शतावरीघृतम् ।
शतावरीमूलशतं द्विद्रोणेऽपां विपाचयेत् ।
अष्टभागावशेषेण घृतप्रस्थं विपाचयेत् ॥ १३० ॥
जीवनीयानि सर्वाणि रास्ना गोक्षुरकं तथा ।
शतपुष्पा वचा कुष्ठं सरलं सपुनर्नवम् ॥ १३१ ॥
चन्दनं तगरं मांसी पद्मकं रक्तचन्दनम् ।
सुरसं नागरं कृष्णा विडं नागरमुत्पलम् ॥ १३२ ॥
एभिरक्षसमैर्भागैः क्षीरं दद्याच्चतुर्गुणम् ।
बृंहणं वातपित्तघ्नं क्षतशोषज्वरापहम् ॥ १३३ ॥
पङ्गनां पृष्ठसर्पिणामर्दितानां च शस्यते ॥
पुंस्त्वोपघातिनां नृणां वन्ध्यानां चैव योजितम् ॥१३४॥
बलवर्णकरं ह्येतदलक्ष्मीघ्नं प्रजाकरम् ।
शतावरीघृतमिदमश्विभ्यां परिकीर्तितम् ॥ १३५ ॥
सारस्वतं घृतम् ।
समूलपत्रामादाय ब्राह्मीं प्रक्षाल्य वारिणा ।
उलूखलेन संक्षुद्य रसं वस्त्रेण गालयेत् ॥ १३६ ॥
चतुर्गुणे रसे तस्मिन् घृतप्रस्थं विपाचयेत् ।
औषधानि च पुष्पाणि तत्रेमानि प्रदापयेत् ॥ १३७ ॥
हरिद्रा मालती चैव त्रिफला च हरीतकी ।
एतेषां पालिकान् भागान् शेषाणां कार्षिकाः स्मृताः१३८
पिप्पल्योऽथ विडङ्गानि सैन्धवं शर्करा वृषम् ।
एतानि तु समालोढ्य शनैर्मृद्वग्निना पचेत् ॥ १३९ ॥
ततः पक्वं विजानीय क्षिप्रं तदवतारयेत् ।
ततः प्राशितमात्रेण बधिरत्वं प्रणश्यति ॥ १४० ॥
सप्ताहोपयोगेन भवेत्कविरसंशयम् ।
घृतं सारस्वतं नाम सरस्वत्या विनिर्मितम् ॥ १४१ ॥

मञ्जिष्ठा मधुकं कुष्ठं त्रिफला शर्करा वचा ।
अजमोदा हरिद्रे द्वे हिङ्गु तिक्तकरोहिणी ॥ १४२ ॥
काकोली क्षीरकाकोली मूलं चैवाश्वगन्धजम् ।
जीवकर्षभकौ मेदे रेणुका बृहतीद्वयम् ॥ १४३ ॥
उत्पलं चन्दनं द्राक्षा पद्मकं देवदारु च ।
एभिरक्षसमैर्भागैर्घृतप्रस्थं विपाचयेत् ॥ १४४ ॥
चतुर्गुणेन पयसा विपचेन्मृदुनाऽग्निना ।
एतत्सर्पिर्नरः पीत्वा स्त्रीषु नित्यं वृषायते ॥ १४५ ॥
पुत्रं जनयते वीरं मेधाव्यं पुष्करेक्षणम् ।
वन्ध्या च लभते गर्भं श्यामा वेगात्प्रसूयते ॥ १४६ ॥
या चैव स्थिरगर्भास्यान्मृतापत्या तु या भवेत् ।
अल्पायुर्जननी चैव या च सूत्वा पुनः स्थिता ॥ १४७ ॥
एतदेव कुमाराणां सर्वाङ्ग्रहमोक्षणम् ।
धन्यं यशस्यमायुष्यं कान्तिलावण्यपुष्टिदम् ॥ १४८ ॥
ये च कल्याणके प्रोक्तास्ते चापीह गुणाः स्मृताः ।
एतत्फलघृतं नाम ह्यश्विभ्यां परिकीर्तितम् ॥ १४९ ॥
अग्निवेशात्क्षतक्षीणे श्वदंष्ट्राद्यं घृतम् ।
श्वदंष्ट्रोशीरमञ्जिष्ठाबलाकाश्मर्यकत्तृणम् ।
दर्भमूलं पृश्निपर्णी जीवकर्षभकौ स्थिरा ॥ १५० ॥
पालिकै साधयेत्तेषां रसे क्षीरचतुर्गुणे ।
कल्कैः स्वगुप्ताजीवन्तीमेदकर्षभजीवकैः ॥ १५१ ॥
शतावर्युर्द्धिमृद्वीकाशर्कराश्रावणीबिसैः ।
प्रस्थः सिद्धो घृताद्वातपित्तनुद्दाही शूलहृत् ॥ १५२ ॥
मूत्रकृच्छ्रप्रमेहार्शःकांसशोषक्षयापहः ।
धनुःस्त्रीमध्वभाराध्वखिन्नानां बलमांसदः ॥ १५३ ॥

३६ आयुर्वेदीयग्रन्थमाला । [घृताधिकारः
कामलायां हारीताद्राक्षाद्यं घृतम् ।
पिष्ट्वा गोस्तनिकायास्तु पलान्यष्टौ समावपेत् ।
पुराणसर्पिषः प्रस्थं पचेत्क्षीरे चतुर्गुणे ।
कामलापाण्डुरोगार्शोज्वरकासार्तिनाशनम् ॥ १५४ ॥
वाग्भटात्कुष्ठे महावज्रकं घृतम् ।
वासामृतानिम्बपटोलतिक्ताव्याघ्रीकरञ्जोदककल्कसिद्धम् ।
सर्पिर्विसर्पज्वरकामलार्तिकुष्ठापहं वज्रकमामनन्ति ॥ १५५ ॥
वाग्भटात्कुष्ठे महावज्रकं घृतम् ।
त्रिफलात्रिकटुद्विकण्टकारीकटुकाकुम्भनिकुम्भराजवृक्षैः ।
सवचातिविषाग्निकैः सपाठैः पिचुभागैर्नव वज्रदुग्धमुष्ट्याः१५६
पिष्टैः सिद्धं सर्पिषः प्रस्थमेभिः क्रूरे कोष्ठे स्नेहनं रेचनं च ।
कुष्ठश्वित्रप्लीहवध्र्माश्मगुल्मान् हन्यात्कृच्छ्रांस्तन्महावज्रकाख्यम्॥
अग्निवेशात्कुष्ठे तिक्तकं घृतम् ।
निम्बपटोलं दार्वीं दुरालभां तिक्तरोहिणीं त्रिफलाम् ।
कुर्यादर्धपलांशान् पर्पटकं त्रायमाणां च ॥ १५८ ॥
सलिलाढकसिद्धानां रसेऽष्टभागस्थिते क्षिपेत्पूते ।
चन्दनकिराततिक्तकमागधिकात्रायमाणाश्च ॥ १५९ ॥
मुस्तं वत्सकबीजं कल्कीकृत्यार्धकार्षिकान् भागान् ।
नवसर्पिषश्च षट्पलमेतत्सिद्धं घृतं पेयम् ॥ १६० ॥
कुष्ठज्वरगुल्मार्शोग्रहणीपाण्ड्वामयश्वयथुहारि ।
विसर्पपामापिडकाकण्डूमदगण्डनुत्तिक्तम् ॥ १६१ ॥
अग्निवेशात्कुष्ठे महातिक्तकं घृतम् ।
सप्तच्छदं प्रतिविषां शम्याकं तिक्तरोहिणीं पाठाम् ।
मुस्तमुशीरं त्रिफलां पटोलपिचुमर्दपर्पटकम् ॥ १६२
धन्वयवासं चन्दनमुपकुल्यां पद्मकं हरिद्रे द्वे ।
षड्ग्रन्थां सविशालां शतावरीं सारिवे चोभे ॥ १६३ ।

[Header] गदनिग्रहः । १७.
वत्सकबीजं वासां मूर्वाममृतां किराततिक्तं च ।
कल्कान्कुर्यान्मतिमान् यष्टयाह्वं त्रायमाणां च ॥ १६४ ॥
कल्कस्य चतुर्थभागो जलमष्टगुणं रसोऽमृतफलानाम् ।
द्विगुणो घृतात्प्रदेयस्तत्सिद्धं पाययेत्सर्पिः ॥ १६५ ॥
कुष्ठानि वातपित्तप्रबलान्यर्शांसि रक्तवाहीनि ।
वीसर्पमम्लपित्तं वातासृक् पाण्डुतां गुल्मम् ॥ १६६ ॥
विस्फोटकान् सपामामुन्मादं कामलां कृमीन् कण्डूम् ।
हृद्रोगं ज्वरपिडकामसृग्दरं गण्डमालां च ॥ १६७ ॥
हन्यादेतत् सद्यः पीतं काले यथाबलं सर्पिः ।
योगशतैरप्यजितान्महाविकारान्महातिक्तम् ॥ १६८ ॥
जतुकर्णोक्तकुष्ठे द्वितीयं महातिक्तकं घृतम् ।
करञ्जसप्तच्छदपिप्पलीनां मूलानि कृष्णा मधुकं विशाला ।
यवासकं चन्दनमुत्पलं च स्यात्रायमाणा कटुका वचा च ॥ १६९
उशीरपाठातिविषारजन्यः किराततिक्तं कुटजस्य बीजम् ।
निम्बासनारग्वधमालतीनां पत्राणि मूलानि च कण्टकार्याः १७०
शतावरीपद्मकदेवदारुमुस्तानि कालीयककेसराणि ।
वासागुडूचीनतसारिवाश्च बला पटोलं त्रिफला च मूर्वा ॥ १७१
नीपं कदम्बो धववेतसौ च कर्कोटं पर्पटकं पयस्या ।
वाराहकन्दं मदयन्तिका च ब्राह्मी समङ्गर्लभकं बला च ॥ १७२
एतैः समांशैरथ कार्षिकैश्च घृतस्य पात्रं विपचेन्नवं च ।
द्रोणं जलस्याकलुषस्य दद्यात् पात्रद्वयं चामलकीरसस्य ॥ १७३ ॥
पक्कं प्रशान्तं गतफेनशब्दं प्रयोजयेत् कुष्ठहरं प्रशस्तम् ।
तद्रक्तपित्तानिलसन्निपातविस्फोटपाल्यामयविद्रधीनाम् ॥ १७४
किलासकासज्वरगण्डमालाग्रन्थ्यर्बुदानि त्वथ वातरक्तम् ।
हृत्पाण्डुरोगान् सभगन्दरांश्च निषेव्यमाणं नियमेन काले ॥ १७५
घृतं महातिक्तमिदं प्रशस्तं निहन्ति सर्वान् श्वयथूपदिष्टान् ।

३८ आयुर्वेदौयग्रन्थमाला । [घृताधिकारः
कृष्णात्रेयात् प्लीहि रोहीतकं घृतम् ।
रोहीतकात् पलशतं संक्षुद्य बदराढके ।
पाचयित्वा जलद्रोणे चतुर्थांशावशेषिते ॥ १७६ ॥
घृतप्रस्थं समावाप्य छागं क्षीरं चतुर्गुणम् ।
तस्मिन् द्रव्याणिमांश्चैव सर्वान् कर्षसमन्वितान् ॥ १७७ ॥
व्योषं फलत्रयं हिङ्गु यवानीं तुम्बुरुं बिडम् ।
अजाजीकुष्ठलवणं दाडिमं देवदारु च ॥ १७८ ॥
पुनर्नवां विशालां च यवक्षारं सपुष्करम् ।
विडङ्गं चित्रकं चैव हपुषां चविकां वचाम् ॥ १७९ ॥
एभिर्द्रव्यैर्घृतप्रस्थं स्थापयेद्भाजने शुभे ।
पाययेच्च पलं मात्रां व्याधीन् शमयते हठात् ॥ १८० ॥
प्लीहं प्लीहोदरं चैव प्लीहशूलं तथैव च ।
हृच्छूलं पार्श्वशूलं च कुक्षिशूलमरोचकम् ॥ १८१ ॥
विबन्धशूलं शमयेत् पाण्डुरोगं सकामलम् ।
छर्द्यतीसारशूलघ्नं तन्द्राज्वरविनाशनम् ॥ १८२ ॥
रोहीतकघृतं ह्येतत् प्लीहानं शमयेद्द्रुतम् ।
क्षारपाणेः प्लीहनि बिल्वाद्यं घृतम् ।
बिल्वं पाठाऽभया धान्यं यवानी सैन्धवं विडम् ।
पञ्चकोलं समरिचं क्षारैश्चैभिर्घृतं पचेत् ॥ १८३ ॥
दध्ना चतुर्गुणेनैव शकृद्वातविवन्धनुत् ।
सर्वामप्लीहवातार्तिगुदभ्रंशरुजापहम् ॥ १८४ ॥
हारीतात् सर्वोदरे द्विपञ्चमूलाद्यं घृतम् ।
द्वे पञ्चमूल्यौ त्रिवृतानिकुम्भे सप्तपलं चित्रकशिग्रुमूलम् ।
कुष्टबीजं त्रिफलां गुडूचीमेरण्डमूलं मदयन्तिकां च ॥१८५॥
पाठोऽपमार्गी सुवनीं सनीलां सरोहिषां पापञ्चेलिकां च ।
पृथक् पृथक् पञ्चपलं जलस्य द्रोणे पचेत्तच्चतुर्थावशेषम्॥१८६॥
घृतं विपक्वं सकषायकल्कैर्निहन्ति प्लीहं सकलोदराणि ।

शिलाह्वयं नागरकालशाके काकादनीमूलनिदिग्धिके च ॥१८७
पञ्चैव दद्याल्लवणानि हिङ्गु कृष्णां च तै रक्षसमैः पृथक् च ।
प्रस्थं घृतस्याथ पचेद्गवस्य चतुर्गुणं मूत्रमथ प्रदाप्य ॥ १८८॥
पयश्च दद्याद्द्विगुणं विपक्वं तद्ब्रह्मसृष्टं प्रवदन्ति सर्पिः ।
प्लीहोदरं दूष्यमथाङ्गरोगं संसेव्यमानं जठरं निहन्यात् ॥१८९॥
कासे कण्टकारीघृतम् ।
पाठाविडव्योषविडङ्गसैन्धवत्रिकण्टरास्नाहुतभुग्बलाभिः ।
शृङ्गीवचाम्भोधरदेवदारुदुरालभाभार्ग्यभयाशठीभिः ॥ १९० ॥
सम्यग्विषक्वं द्विगुणेन सर्पिर्निदिग्धिकायाः स्वरसेन चैतत् ।
श्वासाग्निसारस्वरभेदभिन्नान्निहन्त्युदीर्णानपि पञ्चकासान् १९१
कासे द्वितीयं कण्टकारीघृतम् ।
निदिग्धिकायाः स्वरसं ग्राहयेद्यन्त्रपीडितम् ।
चतुर्गुणे रसे तस्मिन् घृतप्रस्थं विपाचयेत् ॥ १९२ ॥
गर्भे दद्यात्त्रिकटुकं रास्नां गोक्षुरकं बलाम् ।
पञ्चकासानिदं सर्पिः पीतं सद्यो व्यपोहति ॥ १९३ ॥
अग्निवेशात् कासे त्र्यूषणाद्यं घृतम् ।
त्र्यूषणं त्रिफलां द्राक्षां काश्मर्यं च परूषकम् ।
द्वे पाठे देवदार्हृद्धिः स्वगुप्तां चित्रकं शठीम् ॥ १९४ ॥
व्याघ्रीमामलकीं मेदां काकनासां शतावरीम् ।
त्रिकण्टकं गुडूचीं च पिष्ट्वा कर्षसमान् घृतात् ॥ १९५ ॥
प्रस्थं चतुर्गुणे क्षीरे सिद्धं कासहरं पिबेत् ।
ज्वरगुल्मारुचिप्लीहशिरोहृत्पार्श्वशूलनुत् ॥ १९६ ॥
कामलार्शोऽनिलार्त्तिघ्नं क्षतशोषक्षयापहम् ।
त्र्यूषणं नामविख्यातमेतद्भूतमत्नुत्तमम् ॥ १९७ ॥
कृष्णात्रेयाद्रणे गार्योद्यं घृतम् ।
गौर्यारिष्टपटोलरोध्रफलिनी यष्ट्याह्वनीलोत्पलै-
र्मञ्जिष्ठाकटुकेन्द्रवारुणिजपामूर्वानिशाचन्दनैः ।

२० आयुर्वेदीयग्रन्थमाला । [घृताधिकारः
जातीक्षीरकपत्रकेशरदलैः पूतीकघोटाफलै-
स्तुल्यैः सिक्थकसारिवाइययुतैर्गन्ध्यं घृतं पाचयेत् ॥१९८॥
यष्टिक्षीरसपञ्चकोलजलदक्वाथैश्च गौर्यादिभिः
सिद्धं सर्पिरिदं हितं त्रिषु भवेत्सद्यःक्षतेषु ध्रुवम् ।
ये गूढाश्चिरकालजातगतयः प्रोच्छिन्नमांसा व्रणाः
सस्रावाः सरुजः सदाहपिडिकाः शुष्यन्ति रोहन्ति च ॥१९९
भेडाङ्गुग्गुलुतिक्तकं घृतम् ।
निम्बामृतापटोलानां कण्टकार्या वृषस्य च ।
पृथग्दशपलान् भागान् जलद्रोणे विपाचयेत् ॥ २०० ॥
तेन पादावशेषेण घृतप्रस्थं विपाचयेत् ।
त्रिकटुत्रिफलामुस्तारजनीद्वयवत्सकम् ॥ २०१ ॥
शुण्ठी दारुहरिद्रा च पिप्पलीमूलचित्रकम् ।
भल्लातकं यवक्षारं कटुकाऽतिविषा वचा ॥ २०२ ॥
विडङ्गं खर्जिकाक्षारः शतपुष्पाऽजमोदकम् ।
एषामक्षसमैर्भागैर्गुग्गुलोः पञ्चभिः पलैः ॥ २०३ ॥
सुसिद्धं पीयमानं च एतद्गुग्गुलुतिक्तकम् ।
विद्रधिं हन्ति सद्यो हि त्वग्दोषानपि दारुणान् ॥ २०४ ॥
कुष्ठानि स्वापसङ्कोचवेगवन्ति स्थिराणि च ।
वातश्लेष्मसमुत्थानि मारुतासृग्प्रभेदि च ॥ २०५ ॥
गण्डमालाऽर्बुदग्रन्थिनाडीदुष्टभगन्दरान् ।
कासं श्वासं प्रतिश्यायं पाण्डुरोगं ज्वरं क्षयम् ॥ २०६ ॥
विषमज्वरहृद्रोगलिङ्गदोषविषक्रिमीन् ।
प्रमेहासृग्दरोन्मादशुक्रदोषगदान् जयेत् ॥ २०७ ॥
हारीताच्छोथे द्राक्षाद्यं घृतम् ।
द्राक्षायाः संमितं प्रस्थं मधुकस्य पलाष्टकम् ।
पचेत्तोयार्मणे शुद्धे पादशेषेण तेन च ॥ २०८ ॥
पलिके मधुकद्राक्षे पिष्टे कृष्णापलद्वयम् ।