सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)

Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs

पं. जीवनानन्द विद्यासागर द्वारा

DevanagariHindipublished176 पृष्ठ

द्रव्यगुणः। ५७
पिण्डालुकं कफहरं गुरु वातप्रकोपणम् ॥ ५ ॥
वज्राख्यकन्दः श्लेष्मघ्नः कटुपाकश्च पित्तकृत् ॥ ६॥
वेणोः करीराः कफला मधुरा रसपाकतः ।
विदाहिनो नातिबलाः सकषाया विरूक्षणाः ॥ ७॥
ऐन्दुकञ्च नदीमाषं विषदं गुरु शीतलम् ॥ ८ ॥
शूरणो दीपनो रुच्यः कफघ्नो विशदो लघुः ।
विशेषादर्शसां पथ्यो भूकन्दस्त्वतिदोषलः ॥६॥
माणकं स्वादु शीतञ्च गुरु चापि प्रकीर्त्तितम् । १०॥
कदल्या वलकृन्मूलं वातपित्तापहं गुरु ॥ ११ ॥
आमवातकरी कच्ची कफकृद्गुरुपिच्छला ॥१२॥
सामान्यादिहैव पठ्यते । कशेरुकं द्विविधं क्षुद्रं महच्च । तत्र
क्षुद्रं चिञ्चोटक इति ख्यातं महत्तु राजकशेरुकम् ॥ ४ ॥
कफं हरतीति कफहरम् ॥ ५ ॥
वज्राख्यकन्दः सुरेन्द्रकन्दः चामघाम इति लोके ॥ ६ ॥
अत्र केचिन्मधुररसपाकस्य विदाहित्वं नोपपद्यत इति कटु-
का रसपाकत इति पठन्ति । अन्ये तु मधुरस्यापि विदाहित्व-
प्रभावादेव समर्थयन्ति ॥ ७ ॥
ऐन्दुकं निच्चारम् । नदीमाषकम् उन्दोमान इति ख्यातम् । ८॥
शूरणो वनकन्दः । भूकन्द इति ग्राम्यकन्दः । अयमेव
सुश्रुते स्थलकन्दसंज्ञया पठ्यते । भूकन्दः प्रावृड्भवः प्रसिद्ध
एवेत्यरुणः ॥ ६ ॥
बलकृत् बलकरम् ॥ ११ ॥
कफकृत् कफकरी ॥ १२ ॥

५८ द्रव्यगुणः ।
वाराहकन्दः श्लेष्मघ्नः कटुको रसपाकतः ।
मेहकुष्ठक्रिमिहरो बल्यो वृष्यो रसायनः ॥ १३॥
तालस्य नारिकेलस्य खर्जूरस्य शिरांसि च ।
कषायस्निग्धमधुरबृंहणानि गुरूणि च ॥ १४ ॥
गुवाकस्य शिरस्तद्वद् भेदनं मदकारकम् ॥ १५॥
बालं ह्यनार्त्तवं जीर्णं व्याधितं क्रिमिभक्षितम् ।
कन्दं विवर्जयेत् सर्वं·यो वा सम्यक् न रोहति ॥ १६॥
शणस्य कोविदारस्य कर्बूदारस्य शाल्मलेः ।
पुष्पं संग्राहि शस्तञ्च रक्तपित्ते विशेषतः ॥ १७॥
वृषागस्त्यस्य पुष्पाणि क्षयकासापहानि च ॥ १८॥
आगस्त्यं नातिशीतोष्णं नक्तान्धानाञ्च शस्यते ॥ १९॥
राजवृक्षस्य निम्बस्य मुष्ककार्काशनस्य च ।
कफपित्तहरं पुष्पं कुष्ठघ्नं कुटजस्य च ॥ २० ॥
सतिक्तमधुरं शीतं पद्मं पित्तकफापहम् ॥ २१ ॥
वाराहकन्दो वकालुक इति ख्यातः ॥ १३ ॥
मूलप्रसङ्गेनाग्रगुणमपि केषाञ्चिदाह तालस्येति ॥ १४ ॥
हेयं कन्दमाह बालमिति । न रोहति न जायते ॥ १६ ॥
पुष्पशाकगुणमाह शणस्येति ॥ १७ ॥
आगस्त्यो वङ्गसेनः । तयोर्मध्ये आगस्त्यस्य विशेषगुणमाह
आगस्त्यमिति ॥ १८ ॥
राजवृक्षः स्वर्णालुः । निबन्धसंग्रहस्तु रक्तवृक्षस्येति पठि-
त्वा रक्तचन्दनस्येति व्याचष्टे । मुष्कको घण्टापारुलौ ॥ २० ॥

द्रव्यगुणः। ५८
मधुरं पिच्छिलं स्निग्धं कुमुदं ह्लादि शीतलम्॥२२
सिन्दुवारं जीवनीयं हिमं पित्तविनाशनम् ।
यथावृक्षं विजानीयात् कुसुमस्य गुणागुणान् ॥२३॥
छत्रकास्तु पलालिक्षुकरोषचितिरेणुजाः ।
सर्वे संस्वेदजाः शीताः कषायाः स्वादुपिच्छिलाः ॥
गुरवश्छर्द्यतीसारज्वरश्लेष्मामयप्रदाः ॥ २५ ॥
कर्कशं परिजीर्णञ्च क्रिमिजुष्टमदेशजम् ।
विवर्जयेत् पत्रशाकं यदकालविरोहि च ॥ २६ ॥
सतीलो वास्तूकश्चुचुश्चिल्लीमूलकपोतिका ।
मण्डूकपर्णी जीवन्ती शाकवर्गे प्रशस्यते ॥ २७ ॥
धान्येषु मांसेषु फलेषु चैव
शाकेषु चानुक्तमिहाप्रमेयात् ।
सिन्दुवारं निर्गुण्डीपुष्पमिति डल्लन उपसंहरति ॥ २३ ॥
यादृशं पत्रशाकं हेयं तदाह कर्कशमिति ॥ २५ ॥
उक्तेषु प्रधानतमं शाकमाह सतील इति । सतीलो वर्त्तुल-
कलायः । चुच्छु चेउ इति लोके । चिल्लो क्षेत्रवास्तुकः । मण्डू-
पर्णी मणिमणीतिलोके । ब्राह्मीति डल्लनः । जीवन्ती स्वर्णनाड
इति चक्रः । डल्लनस्तु जीवन्ती जीवा तण्डुलीयसहगीत्या-
चष्टे ॥ २७ ॥
द्रव्याणामानन्त्यादनुक्तद्रव्यगुणज्ञानोपायमाह धान्येष्विति ।
फलानि वक्ष्यमाणानि । चकाराद्द्रवद्रव्यकृतान्नादीनां समु-

६० द्रव्यगुणाः ।
आस्वादतो भूतगुणैर्ग्रहीत्वा
तदादिशेद्द्रव्यमनल्पबुद्धिः ॥ २८ ॥
शाकं हिनस्ति वपुरस्थि निहन्ति नेत्रम्
वर्णं विनाशयति शुक्रमथासृजञ्च ।
ओजःक्षयं प्रकुरुते पलितञ्चकाले
हन्ति स्मृतिं गतिमिति प्रवदन्ति तज्ज्ञाः॥२६॥
ख्यः। इहेति शास्त्रे । अप्रमेयादिति भावपरो निर्देशः। तेना-
नन्त्यादित्यर्थः । अयञ्चावचने हेतुः। अत्रैवार्थे चरकोऽप्याह।
अन्नपानैकदेशोऽयमुक्तः प्रायोपयोगिकः ।
द्रव्याणि न हि निर्दिष्टुं शक्यं कार्त्स्न्येन नामभिः ॥
इति । अप्रमोहादिति च क्वचित् पाठः । अन्ये तु
अनुक्तमपि प्रमादादिति पठन्ति । तन्न प्रमादोऽनवधानं
मिथ्याज्ञानमिति यावत् । तत्तु मुनीनां नास्त्येवेति । आस्वा-
दत इति रसतः। रसानां मधुरादीनां ये गुणाः शीतोष्ण-
त्वादयः । यानि वा कर्माणि वातादिहरणह्लादनादीनि तैस्तै-
र्गुणकर्मभिस्तत्तदनुक्तद्रव्यमादिशेत् ब्रूयादित्यर्थः । भूतगुणै-
श्चेति चकारात् पार्थिवादिद्रव्यारम्भकाणां भूतानां ये गुणाः
स्थूलसान्द्रत्वादयस्तैर्द्रव्यस्य पार्थिवादिकमवधार्य्य पार्थिवादि-
द्रव्यप्रतिबद्धैर्गुणकर्मभिरेव तत्तदनुक्तं द्रव्यमादिशेदित्यर्थः ।
तत्तद्भूतगुणग्रहणञ्च किञ्चित् प्रत्यक्षतः किञ्चिदुपयुक्तवचनतः ।
किञ्चिदुपयोगतश्चेति ज्ञेयम् ॥ २८ ॥
इति शाकवर्गः ।

द्रव्यगुणः । ५१
शाकेषु सर्वे निवसन्ति रोगा
रोगो हि देहस्य विनाशहेतुः ।
तस्माद्बुधैः शाकविवर्जनं हि
कार्य्यं तथाम्लेषु स एव दोषः ॥ ३० ॥
इति शाकवर्गः ।
सैन्धवं दीपनं हृद्यं चक्षुष्यं रोचनं लघु ।
स्निग्धं वृष्यञ्च मधुरं शीतं दोषघ्नमुत्तमम् ॥ १ ॥
सामुद्रं मधुरं पाके नात्युष्णमविदाहि च ।
भेदनं स्निग्धमीषच्च शूलघ्नं नातिपित्तलम् ॥ २॥
विडं सक्षारतीक्ष्णोष्णं सूक्ष्मं दीपनरोचनम् ।
शूलहृद्रोगशमनं रुचं वातानुलोमनम् ॥ ३ ॥
सौवर्चलन्तु वीर्य्योष्णं विशदं कटुकं लघु ।
गुल्मशूलविबन्धघ्नं हृद्यं सुरभि दीपनम् ॥ ४ ॥
सैन्धवादीनां व्यञ्जनसंस्कारकत्वात् शाकानन्तरं लवणादि-
वर्गमाह । अत्रापि लवणेषु सैन्धवस्य श्रेष्ठत्वात् प्रथमं तद्गुण-
माह सैन्धवमिति । अत्र मधुरमित्यनन्तरं चकारो योज्यः ।
तेनषण्मधुरत्वं बोध्यते चशब्दसमुचितत्वात् । दोषघ्नमिति
त्रिदोषहरम् । उत्तममिति लवणेषु श्रेष्ठम् । उक्तञ्च ।
त्रिदोषघ्नं समधुरं सैन्धवं लवणोत्तममिति ॥ १ ॥
दक्षिणसमुद्रे भवतीति सामुद्रं करकचलवणम् । २ ॥
विडं कृत्रिमं स्वनामख्यातम् । ३ ॥
६

६२ द्रव्यगुणः।
सौवर्चलगुणाः कृष्णलवणे गन्धवर्जिताः ॥ ५ ॥
सतिक्तं कटु सक्षारं तीक्ष्णमुत्क्लेदि चौद्भिदम् ॥ ६ ॥
रोमकं तीक्ष्णमुष्णञ्च व्यवायि कटुपाकि च ।
वातघ्नं लघु विष्यन्दि सूक्ष्मं विड्भेदि मूत्रलम् ॥ ७
दीपनं पाचनं भेदि लवणं गुड़िकाह्वयम् ।
कफवातक्रिमिघ्नञ्च लेखनं पित्तकोपनम् ॥ ८ ॥
क्षारास्तु दीपनाः सर्वे रक्तपित्तकराः सराः ।
गुल्मार्शोग्रहणीदोषशर्कराश्मविनाशनाः ॥ ९ ॥
ज्ञेयौ वह्निसमौ क्षारौ सर्जकायवशूकजौ ।
शुक्रश्लेष्माविवन्धार्शोगुल्मप्लीहविनाशनौ ॥ १० ॥
सौवर्चलं प्रसिद्धम् ॥ ४ ॥
भुवमुद्भिद्योत्पन्नस्य क्षारोदकस्य सूर्य्यरश्मिभिर्वर्द्धितापाद्वा
कयनाद्यल्लवणमुत्पद्यते तदौद्भिदमिति निवन्धसंग्रहः । चक्रस्तु
ऊषरदेशोद्भवमुत्चारिकालवणमौद्भिदलवणमित्याह । अन्ये तु
पाक्यलवणमौद्भिदमित्याहुः ॥ ६ ॥
रुमा नाम नदी तद्भवं रोमकन् । साम्भरिदेशोत्थं लवणं
गड़लवणमिति ख्यातमित्यन्ये । विष्यन्दीति कफस्रावकारक-
मिति डल्लनः । सूक्ष्मस्रोतोऽनुसारित्वात् सूक्ष्मम् ॥ ७ ॥
पाक्यलवणविशेषगुड़िकालवणगुणमाह दीपनमिति । पाका-
दतिकठिनीभावेन गुड़िकाकारं लवणं गुड़िकालवणम् ॥ ८ ॥
क्षाराणामपि लवणरसत्वात् क्षारगुणानप्यत्रैवाह क्षारा
इति ॥ ९ ॥
क्षारविशेषगुणमाह ज्ञेयाविति ॥ १० ॥

द्रव्यगुणः। ६३

अग्निदीप्तिकरस्तीक्ष्णस्तृष्णाघ्नश्चार उच्यते ॥ ११ ॥
आर्द्रकं रोचनं हृद्यं कटूष्णं वृष्यमेव च ।
कफानिलहरं स्वर्य्यं विबन्धानाहशूलनुत् ॥१२॥
शुण्ठी तु कफवातघ्नी सस्नेहा लघुदीपनी ।
वृष्योष्णा रोचनी हृद्या विपाके मधुरा कटुः ॥१३॥
पिप्पल्यार्द्रा स्वादुशीता गुर्वी श्लेष्मप्रकोपिणी ॥१४॥
सा शुष्का मधुरा पाके वृष्या पित्तप्रसादनी ।
स्निग्धोष्णा दीपनी वातश्लेष्मनुच्छ्वासनाशिनी॥१५॥
मरिचं लघु तीक्ष्णोष्णं रूक्षरोचनदीपनम् ।
रसे पाके च कटुकं कफघ्नं पित्तकोपनम् ॥१६॥
स्वादु पाक्यार्द्रमरिचं गुरु श्लेष्मप्रकोपि च ॥१७॥
आर्द्रकादीनामपि व्यञ्जनसंस्कारकत्वादत्रैव तद्गुणमाह
आर्द्रकमिति ॥ ११ ॥
श्लेष्मप्रकोपिणीति स्ववर्गापेक्षया । न श्लेष्मशमनीत्यर्थ इति
डल्लनः ॥ १४ ॥
मधुरपाकियतया पित्तं प्रसादयतीति चक्रः । अन्ये तु
पित्ताविरोधिनीति पठन्ति । ईषत्पित्तविरोधिनीति च व्याच-
क्षते । केचित्तु पित्तकोपिनीति पठन्ति व्याख्यानयन्ति च ।
सा पित्तशमनी पूर्वं दर्शिता वीर्य्यवादिना ।
शास्त्रकारेण निर्दिष्टा सा तु पित्तप्रकोपिणी ॥
तच्चार्द्रा पित्तशमनी शुष्का पित्तप्रकोपिणी इति ॥ १५ ॥
मरिचमिति शुष्कमरिचमित्यर्थः ॥ १६ ॥
श्लेष्मप्रकोपीति । श्लेष्मणोऽन्यतश्च तस्य प्रकोपणम् कटु-

६४ द्रव्यगुणः।
नात्युष्णं नातिशीतञ्च वीर्य्यतो मरिचं सितम् ।
गुणवन्मरिचेभ्यश्च चक्षुष्यञ्च विशेषतः ॥ १८ ॥
हिङ्गु तीक्ष्णं कटुरसं शूलाजीर्णविबन्धनुत् ।
लघूष्णं पाचनं स्निग्धं दीपनं कफवातजित् ॥ १९
जीरकं रुचिकृत्सर्वं गन्धाढ्यं कफवातजित् ।
तीक्ष्णोष्णं कटुकं पाके कटु पित्ताग्निवर्द्धनम् २०
यमानी कृष्णजीरश्च ज्ञेया जीरकवद्गुणैः ॥ २१ ॥
धन्याकं कासतृट्छर्द्दिशमनं चक्षुषोर्हितम् ।
कषायतिक्तं मधुरं हृद्यं रोचनदीपनम् ॥ २२ ॥
लसुनः क्षारमधुरः पत्रे मधुरपिच्छलः ।
मध्ये कन्दे तु तीक्ष्णोष्णः कटुपाकरसः सरः ॥
हृद्यः केश्यो गुरुर्वृष्यः स्निग्धो दीपनपाचनः ।
भग्नसन्धानकृद्वल्यो रक्तपित्तप्रकोपणः ॥
किलासकुष्ठगुल्मार्शोमेहकृमिकफानिलान् ।
सहिक्कापीनसश्वासकासान् हन्ति रसायनः ॥ २३ ॥
तीक्ष्णोष्णत्वात् करोतीति चक्रः। ये तु चयमपि श्लेष्मणो
वदन्ति तदनुभवविरुद्धम् । डल्लनस्तु श्लेष्मप्रसेकि चेति पठति ॥ १७ ॥
सितं मरिचं शोभाञ्जनबीजम् । अन्ये तु मरिचमेव शुक्लं
वदन्ति ॥ १८ ॥
सर्वमिति । शुक्लपीतभेदाज्जीरकद्वयमिति चक्रः ॥ २० ॥
कृष्णजीरः कारवी ॥ २१ ॥

द्रव्यगुणः। १६
पलाण्डुर्मधुरो वृष्यः कटुः स्निग्धोऽनिलापहः ।
बल्यः पित्ताविरोधी च कफकृद्रोचनो गुरुः ॥ २४॥
ग्राही गृञ्जनकस्तीक्ष्णो ग्रहयर्शोविकारनुत् ॥ २५॥
इति लवणादिवर्गः ।
कषायानुरसं नातिपित्तलं दाड़िमं स्मृतम् ।
दीपनोयं रुचिकरं हृद्यं वर्चोविबन्धनम् ॥ १ ॥
अनिलापहो वातप्रशमकः। कफकृदिति नात्यर्थं कफ-
करः। पित्ताविरोधीति किञ्चित्पित्तकर इत्यर्थः। यदाह।
नात्युष्णवीर्य्योऽनिलहा कटुश्च तीक्ष्णो गुरुर्नातिकफावहश्च।
बलावहः पित्तकरोऽथ किञ्चित् पलाण्डुरग्निं परिवर्द्धयेच्च ॥
पलाण्डु पेयाज इति ख्याते ॥ २४ ॥
गृञ्जनक गाजर इति नाम्ना मगधादौ ख्यातः ॥ २५ ॥
इति लवणादिवर्गः ।
यद्यपि शाकेषु फलपाठाच्छाकानन्तरमेव फलगुणाभिधानं
युक्तं तथापि शाकसंस्कारत्वेनान्तरङ्गत्वात् अल्पवक्तव्यत्वाच्च
सूचिकटाहन्यायेन प्रथमं लवणादिवर्गमभिधाय अनन्तरं फल-
गुणानाह कषायानुरसमिति। नातिपित्तलमिति। योग्यतया
अम्लदाड़िममेवैवंगुणं बोध्यम् ईषत्पित्तकरमित्यर्थः। चरकेऽपि
सर्वं पित्तलमम्लमन्यत्र दाड़िमामलकादिति इत्यत्र भट्टारहरि-
चन्द्रेण दाड़िमग्रहणं निरस्य ॰ अन्यदामलकादित्येव पाठः

६६ द्रव्यगुणः ।
द्विविधं तत्तु विज्ञेयं मधुरञ्चाम्लमेव च ।
त्रिदोषघ्नन्तु मधुरमम्लं वातकफापहम् ॥ २ ॥
प्राचीनामलकञ्चैव दोषघ्नं गरहारि च ॥ ३ ॥
कर्कन्धुकोलवदरमामं पित्तकफावहम् ।
पक्वं पित्तानिलहरं स्निग्धं समधुरं सरम् ॥ ४ ॥
तच्छुष्कं कफवातघ्नं न च पित्ते विरुध्यते ।
पुराणं तृट्प्रशमनं श्रमघ्नं लघु दीपनम् ॥ ५ ॥
सौवीरं वदरं स्निग्धं मधुरं वातपित्तजित् ॥ ६॥
पुरस्कृत इति । चन्द्रिकाकारेणाप्यनुमतमेतत् । चक्रेणापि
नातिपित्तलमित्येव पाठोऽनुमन्यते । किन्तु अस्मिन् पक्षे ।
अम्लं पित्तकरं प्रायो दाड़िमामलकादृते ।
इति वाग्भटविरोधो दुष्परिहर इत्यवधेयम् । अन्ये तु
नापि पित्तलमिति पठित्वा अम्लं दाड़िमं पित्तं न करोति
न च शमयतीति च व्याचक्षते । चरकेऽपि दाड़िमगुणे कफ-
पित्तविरोधीत्युक्तम् । तत्राम्लं दाड़िमं पित्ताविरोधि मधुरन्तु
कफाविरोधीत्याहुः ॥ १ ॥
प्राचीनामलकं प्रसिद्धम् ॥ ३ ॥
कर्कन्धुरल्पा शृगालकोलिः । कोलं मध्यप्रमाणवदरम् ।
वदरं महद्वदरम् । अम्लमिति पाठेऽप्यामेव आमावस्थायामेव
तेषामम्लत्वात् पित्तकफावहमिति पित्तकफजनकम् ॥ ४ ॥
पुराणमिति पक्ववदरचूर्णम् । तदीयशुण्ठकमिति चक्रः ॥ ५॥
सौवीराख्यं वदरं महत्तमं आमपक्वावस्थासु मधुरमिति
चन्द्रिकाकारः ॥ ६॥

द्रव्यगुणः। ६७
आम्रं बालं रक्तपित्तकरं मध्यन्तु पित्तलम् ।
पक्कं वर्णकरं रुच्यं मांसशुक्रबलप्रदम् ॥
पित्ताविरोधि वातघ्नं हृद्यं गुर्वनुलोमनम् ॥ ७ ॥
आम्रपेशी कषायाम्ला भेदनी कफवातजित् ॥८॥
आम्लातकं तर्पणञ्च वल्यं मधुरबृंहणम् ।
स्नेहनं श्लेष्मलं शीतं वृष्यं विष्टभ्य जीर्य्यति ॥६॥
लकुचं गुरु विष्टम्भि त्रिदोषं शुक्रदूषणम् ॥ १० ॥
करमर्दं तृषाहारि रुच्यमम्लपित्तकारकम् ॥ ११ ॥
वातपित्तहरं वृष्यं पियालं गुरु शीतलम् ॥ १२॥
आम्रस्यावस्थाभेदेन गुणभेदमाह आम्रमिति ।
भट्टारहरिचन्द्रेणापि चरके रक्तपित्तकरं बालमिति पाठं
निरस्य वातपित्तकरं बालमित्येव पाठः पुरस्कृतः । चक्रेणा-
प्यनुमतमेतत् । युक्तञ्चैतत् । सुश्रुतेऽपि पित्तमारुतकृद्वालमित्यु-
क्तत्वात् । किन्तु वाग्भटे वातपित्तास्रकृद्वालमिति दर्शनात्
रक्तपित्तकरत्वञ्चास्य न विरुध्यत इति ज्ञेयम् ॥ ७ ॥
आम्रपेशी शुष्काम्रम् ॥ ८ ॥
आम्लातकमाम्रफलसदृशमिति चन्द्रिका । आमडा इति
ख्यात इति चक्रः । तद्द्विविधं मधुरमम्लञ्च । तत्र मधुरस्यै-
वायं गुणश्चरकेषोक्तः । अम्लाम्लातकगुणस्य पश्चादुक्तत्वात् ॥६॥
लकुचो डहुः ॥ १० ॥
करमर्दं कण्टकीफलमिति चन्द्रिका । तद्द्विविधं मह-
दल्पञ्च । तत्र महत् प्रायशो ग्रामभवमम्लञ्च । अल्पा तु कर-
मर्दी वनजा मधुराम्लफला इति च व्याचष्टे ॥ ११ ॥

६८ द्रव्यगुणः।
भव्यं स्वादु कषायाम्लं हृद्यमास्यविशोधनम् ।
पित्तश्लेष्महरं ग्राहि गुरु विष्टम्भि शीतलम् ॥१३॥
अम्लवेतसमत्यम्लं तीक्ष्णं स्निग्धञ्च दीपनम् ॥१४॥
वातापहं तिन्तिडीकमामं पित्तबलाशकृत् ।
ग्राह्युष्णं दीपनं रुच्यं सम्पक्वं कफवातनुत् ॥१५॥
अम्लिकायाः फलं पक्वं तस्माच्चाल्पतरं गुणैः ॥१६
कषायविषदत्वाच्च सौगन्ध्याच्च रुचिप्रदम् ।
अवदंशक्षमं रुच्यं वातलं लवलीफलम् ॥ १७ ॥
जम्बीरं वातकफनुद् गुरु पित्तप्रकोपणम् ।
तृष्णाशूलकफोत्क्लेशच्छर्द्दिश्वासनिवारणम् ॥१८॥
नागरङ्गं दुर्जरञ्च गुरु वातविनाशनम् ॥ १९ ॥
पियालो मगधे स्वनामख्यातः ॥ १२ ॥
भव्यं तालफलोपमं केवलवल्कलसंहतिमात्रमिति चन्द्रिका
भानुमती च । अन्ये तु कर्मरङ्गफलं भव्यमाहुः ॥१३॥
अम्लवेतसं चैकलमिति उत्तरदेशे ख्यातम् ॥ १४ ॥
तिन्तिडीकं महार्द्रकम् न तु तिन्तिडीफलम् चरके सुश्रुते
च पृथगेवाम्लिकायाः फलमित्यादिना तद्गुणपाठात् । पुरुषोत्त-
मस्तु तिन्तिडीफलमम्लिकायाः फलमिति भ्रान्त्या महार्द्रक-
गुणं पृथगेव पठति । तत्पुनरविरोधाज्जृम्भितम् ॥ १५ ॥
अम्लिकायाः फलं तिन्तिडीफलम् ॥ १६ ॥
अवदंशक्षममिति लवलीफलं प्राश्य द्रव्यान्तरे रुचिर्भवति
इत्यर्थः ॥ १७ ॥

द्रव्यगुणाः। ६८
फलं वेत्रस्य वातघ्नमम्लपित्तविनाशकृत् ॥ २० ॥
मातुलुङ्गफलं हृद्यमम्लं लध्वग्निदीपनम् ।
श्वासकासारुचिहरं तृष्णाघ्नं कण्ठशोधनम् ॥ २१ ॥
बीजपूरस्य तिक्ता त्वग् दुर्जरा कफवातहृत् ॥ २२ ॥
तन्मांसं स्वादु शीतञ्च गुरु मारुतपित्तजित् ॥ २३ ॥
केशरन्तु लघु ग्राहि गुल्मार्शोघ्नं हि दीपनम् ।
मेध्यं शूलानिलच्छर्दिकफारोचकनाशनम् ॥ २४ ॥
एवम्प्रकारा विज्ञेया वृष्या च मधुकर्कटी ॥ २५ ॥
कपित्थमांसं कण्ठघ्नं विषघ्नं ग्राहि वातलम् ।
मधुराम्लकषायत्वात् सौगन्ध्याच्च रुचिप्रदम् ।
तदेव सिद्धं दोषघ्नं विषघ्नं ग्राहि गुर्व्वपि ॥ २६ ॥
जाम्बवं वातलं ग्राहि रूक्षं पित्तकफापहम् ॥ २७ ॥
मातुलुङ्गफलस्य प्रत्यवयवगुणं निर्द्दिशन्नाह बीजपूरस्येति ।
बीजपूरस्येति मातुलुङ्गस्य कफवातहृदिति कफवातनाशिनी
तिक्ता त्वग्दुर्जरा तस्य वातक्रिमिकफापहेत्युक्तेः ॥ २२ ॥
मांसमिति त्वक्केशरमध्यभागः ॥ २३ ॥
मेध्यं मेधाहितं प्रभावात् ॥ २४ ॥
मधुकर्कटी मधुर इति ख्याता । मातुलुङ्गापेक्षया महा-
प्रमाणा बहुमांसाल्पकेशरा ॥ २५ ॥
तदेवेति । कपित्थं सिद्धमिति कालवशात् पक्वम् ॥ २६ ॥
जम्बूस्त्रिविधा राजजम्बूर्महाफला । काकजम्बूर्व्वनजम्बू-

७० द्रव्यगुणाः ।
तिन्दुकं तुवरं स्वादु गुरु पित्तकफापहम् ॥२८॥
स्निग्धं स्वादु कषायञ्च राजादनफलं गुरु ॥२९॥
कषायमधुरं रूक्षं तोदनं कफवातजित् ।
रिति ख्याता। भूमिजम्बूरल्पफला। अत्र पुनरविशेषात् जाम्ब-
वशब्देन सर्वजम्बूफलमुच्यते ॥ २७ ॥
तिन्दुकं गाव इति ख्यातं केन्दुरिति केचित्। तुवरं
कषायरसं कषायरसत्वञ्चास्य आमावस्थायां स्वादुरसतास्य पक्वा-
वस्थायामेव विज्ञेयम्। पित्तकफापहत्वञ्चास्यामपक्वसाधारणो
गुणः। उक्तञ्च।
आमं कषायं संग्राहि तिन्दुकं वातकोपनम् ।
विपाके गुरु सम्यकं मधुरं कफपित्तजित् ॥
अत्रामस्य वातकोपित्वेन पित्तकफहन्तृत्वमर्थलभ्यमेव ॥२८॥
राजादनफलम् खर्जूरसदृशं क्षीरिकायाः फलमिति
चन्द्रिका ॥ २९ ॥
तोदनं वामप्रियं फलम् वारणाम्लिकेति दाक्षिणात्येषु
ख्यातम्। ननु पित्ताग्निवर्द्धनमित्युभयोपादानं न युज्यते।
सुश्रुते न खलु पित्तव्यतिरेकेणान्योऽग्निरुपलभ्यते इत्यादिना
पित्ताग्न्योरभेदस्योक्तत्वात्। अनुमानञ्च पित्ताग्न्योरभेदसाध-
कम् यथा अग्नित्वेन व्यवह्नियमाणं तेजः पित्तावयवरूपम् ।
पित्तवर्द्धनपित्तक्षपणकैर्वृद्धिह्रासयोगित्वात् प्रदेशान्तरस्थपित्ता-
वयववदिति। आगमा अपि अग्निपित्तयोरभेदसाधका यथा।
कनकं रजतं ताम्रं कृष्णायस्तपु सीसकम् ।
चिरस्थानाद्विलीयन्ते पित्ततेजःप्रतापनात् ॥
इति। तथा षष्ठी कला पित्तधरा इत्यादिना अग्न्याधा-
रतया ग्रहण्युक्ता। तथा भोजेऽपि।

द्रव्यगुणाः । ७१
अम्लोष्णं लघु संग्राहि स्निग्धं पित्ताग्निवर्द्धनम् ॥ ३० ॥
अनुपाकिफलं स्वादु वातपित्तविनाशनम् ॥ ३१ ॥
क्षीरिवृक्षफलं विद्याद्गुरु विष्टम्भि शीतलम् ।
कषायमधुरं साम्लं नातिमारुतकोपनम् ॥ ३२ ॥
तस्मात् तेजोमयं पित्तं पित्तोष्मा यः स पक्तिमान् ।
इति अत्रोच्यते वह्निपित्तयोः पारमार्थिके हि अभेदे तीक्ष्णः
पित्तेनाग्निरिति कार्यकारणभावो न स्यात् तथा कट्वजीर्ण-
विदाह्यम्लचाराद्यैः पित्तमुल्बणम् । आप्लावयन्त्यनलमिति
चरकवचनञ्च विरुध्यते । तथा पित्तशमकमपि घृतमग्निमेधे
करोतीत्युक्तमसङ्गतं स्यात् । तथा समदोषः समाग्निश्चेति
वचनेऽपि पौनरुक्त्यं दुष्परिहरं स्यात् । अभेदसाधकानुमाने
चासिद्धो हेतुः । घृतस्य पित्तशमकस्यापि अग्निवर्द्धकत्वात् ।
तथा कट्वजीर्णविदाह्यम्लस्य च पित्तजननावान्तरव्यापारस्या-
ग्न्युपघातकत्वात् । यदप्यभेदसाधकं पित्तं तेजःप्रतापनादिति
वचनं तथा पित्तोष्मा यः स पक्तिमानिति च तदपि पित्ता-
द्भिन्नस्य तदवयवस्य तेजसोऽग्नित्वं वदति । तस्मात् अवयवावय-
विरूपेणाग्निपित्तयोर्भेदो विद्यत एव । सुश्रुतेन तु अवयवा-
वयविनोरभेद एव विवक्षित इति न विरोधः । अभेदा-
श्रयञ्च पित्तवर्द्धनैः प्रायो वर्द्धनमग्नेस्तच्छमकैश्च प्रायः शम-
मग्नेरिति प्रतिपादनायैव । पित्ततेजोरूपतायाञ्च वह्ने-
स्तेजोविपरीतपित्तद्रवांशवर्द्धकाजीर्णविदाह्यम्लादिभिर्व्यङ्गीभूत-
द्रवपित्तजननादग्नेर्निर्वापणं युक्तमेवेति ॥ ३० ॥
अनुपाकीति । अनुया इति ख्यातम् ॥ ३१ ॥
क्षीरिवृक्षा न्यग्रोधोदुम्बराश्वत्थप्लक्षायः ॥ ३२ ॥

७२ द्रव्यगुणः ।
वाकुलं मधुरं स्निग्धं कषायं विषदञ्च तत् ।
स्थिरीकरञ्च दन्तानां संग्राहि फलमिष्यते ॥३३॥
परूषकं समधुरं कषायानुरसं लघु ।
वातघ्नं पित्तजननमत्यम्लं तदुदाहृतम् ॥ ३४ ॥
पक्वं समधुरं तच्च वातपित्तनिवर्हणम् ॥ ३५ ॥
कफानिलहरं तीक्ष्णं स्निग्धं संग्राहि दीपनम् ।
कटुतिक्तकषायोष्णं बालविल्वमुदाहृतम् ॥
तदेव विद्यात्सम्पक्वं मधुरानुरसं गुरु ।
विदाहि विष्टम्भकरं दोषकृत् पूतिमारुतम् ॥३६॥
आमपक्वभेदेन परूषकस्य गुणमाह परूषकमिति ।
अयञ्चामपरूषकगुणः । पक्वस्य वक्ष्यमाणत्वात् । परूषकं
स्वनामख्यातम् ॥ ३४ ॥
तदिति परूषकम् ॥ ३५ ॥
विल्वस्याप्यामकभेदेन गुणमाह कफानिलहरमिति ।
बालविल्वं विल्वशलाटु । अत्र कफानिलहरमित्यारभ्य
उदाहृतमित्यन्तञ्च प्रथमावस्थविल्वगुणः । तदेवेत्याद्यर्द्धश्लोकेन
मध्यावस्थविल्वगुणः । विदाहीत्यादिः पूतिमारुतमित्यन्तः स्वादु-
पक्वविल्वगुण इति । सम्पक्वमिति परिणतं मध्यावस्थमित्यर्थः ।
युक्तञ्चैतत् सुपक्वस्य हि मधुरानुरसता न युज्यते यतः पक्वस्य
मधुर एव रसो नत्वन्यो रस इति । पूतिमारुतमिति पूति-
शब्दोऽयं सुगन्धिवचनः । यथा पूतिः खट्वासः । यथा वनजा
मधुकुकुटी पूतिपुष्पा सुगन्धिपुष्प्येत्यर्थः । तेन पूतिः सुगन्धि-
मारुतो यस्य तत्तथा एतच्च विशेषणं सुपक्वावस्थाप्रदर्शनपरम् ।

द्रव्यगुणः। ७३
द्राक्षा तु मधुरा स्निग्धा शीता वृष्यानुलोमनी ।
रक्तपित्तज्वरश्वासतृष्णादाहक्षयापहा ॥ ३७ ॥
गोस्तनी या गुरुर्हृद्या द्राक्षा सा वातपित्तनुत्॥३८
केश्यं रसायनं मेध्यं काश्मर्य्याः फलमुच्यते ॥३६॥
खर्जूरं मधुरं वृष्यं स्निग्धं शोणितपित्तजित् ।
क्षतक्षयापहं हृद्यं शीतलं तर्पणं गुरु ॥ ४० ॥
मधूकस्य फलं पक्वं वातपित्तप्रणाशनम् ।
तस्य पुष्पं बृंहणीयमहृद्यं गुरु शीतलम् ॥४१॥
नारिकेलं गुरु स्निग्धं पित्तघ्नं स्वादु शीतलम् ।
यतः सुपक्वबिल्वसंसर्गी बाह्यपवनः सुगन्धिर्भवतीति । तदेव
दोषत्रयकरं प्रभावात् । अन्ये तु पूतिमारुतं दुर्गन्धिकुक्षिवात-
करमित्याचक्षते । तन्न सम्यक्प्रतीतेः मध्यबिल्वगुणनिर्देशा-
चेति । नहि य एव बालविल्वस्य गुणः स एव मध्यस्यापि युज्यते
इति चन्द्रिका । चक्रस्तु तदेव विद्यादित्यादिः पूतिमारुत-
मित्यन्तः पक्वबिल्वगुण इत्याह । यतश्चरकेऽपि दुर्ज्जरं विल्व-
सिद्धन्तु इत्यादिना द्विविधमेव वाग्भटेऽप्येवम् ॥ ३६ ॥
अनुलोमनी सरा मलभेदिनीति यावत् ॥ ३७ ॥
गोस्तनी बृहत्प्रमाणद्राक्षा ॥ ३८ ॥
काश्मरी गाम्भारी ॥ ३६ ॥
खर्जूरं द्विविधं महाप्रमाणं स्वल्पप्रमाणञ्च । तत्राद्यं पिण्ड-
खर्जूरं पारसीयदेशोद्भवम् । स्वल्पप्रमाणञ्च विट्खर्जूरम् ॥ ४०॥
मधूकस्य पुष्पाणां फलवदुपयोगात् तत्समानगुणत्वाच्चात्रा-
भिधानं बोध्यम् । अहृद्यमिति मदजनकत्वात् ॥ ४१ ॥
७

७४ द्रव्यगुणः ।
बलमांसकरं हृद्यं वृंहणं वस्तिशोधनम् ॥ ४२ ॥
तालं स्वादुरसं पक्वं गुरु पित्तविनाशनम् ।
तद्बीजं स्वादुपाकन्तु मूत्रलं वातपित्तजित् ॥४३॥
कदलं मधुरं हृद्यं कषायं नातिशीतलम् ।
वातपित्तहरं रुच्यं वृष्यं श्लेष्मकरं गुरु ॥ ४४ ॥
श्लेष्मलं मधुरं शीतं श्लेष्मातकफलं गुरु ॥४५॥
पनसं सकषायन्तु स्निग्धं स्वादुरसं गुरु ।
पथ्या पञ्चरसायुष्या चक्षुष्या लवणा सरा ।
मेध्योष्णा दीपनी दोषशोथकुष्ठज्वरापहा ॥ ४६ ॥
धात्री तद्वद्विशेषेण वृष्या शीतैव वीर्य्यतः ।
हन्ति वातं तदम्लत्वात् पित्तं माधुर्य्यशैत्यतः ।
कफं कटुकषायत्वात् फलेभ्योऽप्यधिकञ्च तत्॥४७
अक्षं भेदनरूक्षोष्णं वैस्वर्य्यं क्रिमिनुत् कटु ।
तद्बीजमिति तालबीजम् ॥ ४३ ॥
कदलं कदलीफलं तच्च नानाविधं ज्ञेयम् ॥ ४४ ॥
श्लेष्मातको बहुवारः ॥ ४५ ॥
अलवणा सती पञ्चरसा इत्यर्थः ॥ ४६ ॥
अत्र दोषोपशमने यत् कारणं वर्णितं तद्यद्यपि पित्ता-
दिसमानतया पित्तादिवर्द्धनमपि युज्यते तथाप्यामलक्याः शिव-
त्वप्रभावात् दोषशमनमेव परं करोति न प्रकोपमिति ज्ञेयम् ।
एतदेवाह फलेभ्योऽप्यधिकञ्च तत् । अधिकमिति श्रेष्ठं शिवत्व-
प्रभावयोगादिति भावः ॥ ४७ ॥

द्रव्यगुणाः । ७५
चक्षुष्यं स्वादुपाकञ्च कषायं कफपित्तनुत् ॥४८॥
पथ्या मज्जा तु चक्षुष्यो वातपित्तहरो गुरुः ॥४६॥
वैभीतको मदकरः कफमारुतनाशनः ॥ ५० ॥
कोलमज्जा तु मधुरः कषायः पित्तनाशनः ।
तृष्णाच्छर्द्यनिलघ्नश्च धात्रीमज्जापि तद्गुणः ॥५१॥
पियालमज्जा मधुरो वृष्यः पित्तानिलापहः ॥५२॥
यस्य यस्य फलस्येह वीर्य्यं भवति यादृशम् ।
तस्य तस्यैव वीर्य्येण मज्जानमपि निर्द्दिशेत् ॥५३॥
भल्लातकास्थ्याग्निसमं त्वङ्मांसं स्वादु शीतलम् ॥५४
करञ्जकिंशुकारिष्टफलं जन्तुप्रमेहनुत् ।
रूक्षोष्णं कटुकं पाके लघु वातकफापहम् ॥५५॥
तिक्तमीषद्विषहितं विडङ्गं क्रिमिनाशनम् ॥५६॥
फलेषु परिपक्कं यद् गुणवत् तदुदाहृतम् ।
प्रसङ्गान्मज्जगुणमाह पथ्येति ॥ ४६ ॥
वैभीतको विभीतकमज्जा ॥ ५० ॥
अनुक्तमज्जगुणातिदेशार्थमाह यस्येति । वीर्य्यं रसादि येन
कुर्व्वन्ति तद्वीर्य्यमित्युक्तेः ॥ ५३ ॥
अग्निसममिति स्फोटादिजनकत्वात् ॥ ५४ ॥
करञ्जो वृत्तकरञ्जः किंशुकः पलाशः अरिष्टो निम्बः जन्तुः
क्रिमिः ॥ ५५ ॥
ईषत्तिक्तमित्यन्वयः ॥ ५६ ॥
इदानीं यादृशावस्थं फलमुपादेयं तदाह फलेष्विति ।

७६ द्रव्यगुणः।
बिल्वादप्यत्र तज्ज्ञेयमामं तद्धि गुणोत्तरम् ॥५७॥
व्याधितं क्रिमिजुष्टञ्च पाकातीतमकालजम् ।
वर्जनीयं फलं सर्वमपर्य्यागतमेव च ॥ ५८ ॥
इति फलवर्गः ।
धारं कारन्तु तौषारं हैमं खाम्बु चतुर्विधम् ॥१॥
धारन्वच द्विधा प्रोक्तं गाङ्गं सामुद्रमेव च ॥ २ ॥
बिल्वादप्यत्रेति बिल्वमेव परमपक्वं श्रेष्ठम्। गुणोत्तरमिति
गुणतः श्रेष्ठम् ॥ ५७ ॥
यादृशं फलमनुपादेयं तदाह व्याधितमिति ॥ पाकातीत-
मिति अतीतपाककालम् अतिपाके क्लिन्नमित्यर्थः । अकालज-
मनुचितकालसम्भूतम् । अपर्य्यागतमपरिणतम् ॥ ५८ ॥
इति फलवर्गः ।
पूर्व्वमन्नमुक्तं तदुपकरणानि च मांसशाकफलान्युक्तानि
इदानीं पानं वक्तव्यम्। पानेषु पानीयस्य प्राधान्यात् प्रथमं
तद्गुणा वाच्याः । तत्रान्तरीक्षजलस्य सर्वजलश्रेष्ठत्वात् तद्भेदमाह
धारमिति । धाराभवं धारमैन्द्रमित्यर्थः । करकापर्य्यायः कर-
शब्दः तद्भवं कारम् । तौषारं शिशिरभवम् । हैमं संहतिभूत-
हिमभवम् । चरके तु हिमतुषारयोरभेदात् त्रिविधमेवोक्तम्
॥ १ ॥
तत्र धारभेदमाह धारमिति। ननु चरके धाराख्यमान्तरी-
क्षजलमेकविधमेवोक्तं यथा
जलमेकविधं सर्वं पतत्यैन्द्रं नभस्तलात् ।