द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)
Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs
पं. जीवनानन्द विद्यासागर द्वारा
पृष्ठ 68, कुल 176 में से
संदर्भ में पढ़ें६० द्रव्यगुणाः ।
आस्वादतो भूतगुणैर्ग्रहीत्वा
तदादिशेद्द्रव्यमनल्पबुद्धिः ॥ २८ ॥
शाकं हिनस्ति वपुरस्थि निहन्ति नेत्रम्
वर्णं विनाशयति शुक्रमथासृजञ्च ।
ओजःक्षयं प्रकुरुते पलितञ्चकाले
हन्ति स्मृतिं गतिमिति प्रवदन्ति तज्ज्ञाः॥२६॥
ख्यः। इहेति शास्त्रे । अप्रमेयादिति भावपरो निर्देशः। तेना-
नन्त्यादित्यर्थः । अयञ्चावचने हेतुः। अत्रैवार्थे चरकोऽप्याह।
अन्नपानैकदेशोऽयमुक्तः प्रायोपयोगिकः ।
द्रव्याणि न हि निर्दिष्टुं शक्यं कार्त्स्न्येन नामभिः ॥
इति । अप्रमोहादिति च क्वचित् पाठः । अन्ये तु
अनुक्तमपि प्रमादादिति पठन्ति । तन्न प्रमादोऽनवधानं
मिथ्याज्ञानमिति यावत् । तत्तु मुनीनां नास्त्येवेति । आस्वा-
दत इति रसतः। रसानां मधुरादीनां ये गुणाः शीतोष्ण-
त्वादयः । यानि वा कर्माणि वातादिहरणह्लादनादीनि तैस्तै-
र्गुणकर्मभिस्तत्तदनुक्तद्रव्यमादिशेत् ब्रूयादित्यर्थः । भूतगुणै-
श्चेति चकारात् पार्थिवादिद्रव्यारम्भकाणां भूतानां ये गुणाः
स्थूलसान्द्रत्वादयस्तैर्द्रव्यस्य पार्थिवादिकमवधार्य्य पार्थिवादि-
द्रव्यप्रतिबद्धैर्गुणकर्मभिरेव तत्तदनुक्तं द्रव्यमादिशेदित्यर्थः ।
तत्तद्भूतगुणग्रहणञ्च किञ्चित् प्रत्यक्षतः किञ्चिदुपयुक्तवचनतः ।
किञ्चिदुपयोगतश्चेति ज्ञेयम् ॥ २८ ॥
इति शाकवर्गः ।