सामग्री पर जाएँ
सर्वकोश
द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)

द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)

Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs

पं. जीवनानन्द विद्यासागर द्वारा

DevanagariHindipublished176 पृष्ठ

पृष्ठ 80, कुल 176 में से

संदर्भ में पढ़ें
पृष्ठ 80

७२ द्रव्यगुणः ।
वाकुलं मधुरं स्निग्धं कषायं विषदञ्च तत् ।
स्थिरीकरञ्च दन्तानां संग्राहि फलमिष्यते ॥३३॥
परूषकं समधुरं कषायानुरसं लघु ।
वातघ्नं पित्तजननमत्यम्लं तदुदाहृतम् ॥ ३४ ॥
पक्वं समधुरं तच्च वातपित्तनिवर्हणम् ॥ ३५ ॥
कफानिलहरं तीक्ष्णं स्निग्धं संग्राहि दीपनम् ।
कटुतिक्तकषायोष्णं बालविल्वमुदाहृतम् ॥
तदेव विद्यात्सम्पक्वं मधुरानुरसं गुरु ।
विदाहि विष्टम्भकरं दोषकृत् पूतिमारुतम् ॥३६॥
आमपक्वभेदेन परूषकस्य गुणमाह परूषकमिति ।
अयञ्चामपरूषकगुणः । पक्वस्य वक्ष्यमाणत्वात् । परूषकं
स्वनामख्यातम् ॥ ३४ ॥
तदिति परूषकम् ॥ ३५ ॥
विल्वस्याप्यामकभेदेन गुणमाह कफानिलहरमिति ।
बालविल्वं विल्वशलाटु । अत्र कफानिलहरमित्यारभ्य
उदाहृतमित्यन्तञ्च प्रथमावस्थविल्वगुणः । तदेवेत्याद्यर्द्धश्लोकेन
मध्यावस्थविल्वगुणः । विदाहीत्यादिः पूतिमारुतमित्यन्तः स्वादु-
पक्वविल्वगुण इति । सम्पक्वमिति परिणतं मध्यावस्थमित्यर्थः ।
युक्तञ्चैतत् सुपक्वस्य हि मधुरानुरसता न युज्यते यतः पक्वस्य
मधुर एव रसो नत्वन्यो रस इति । पूतिमारुतमिति पूति-
शब्दोऽयं सुगन्धिवचनः । यथा पूतिः खट्वासः । यथा वनजा
मधुकुकुटी पूतिपुष्पा सुगन्धिपुष्प्येत्यर्थः । तेन पूतिः सुगन्धि-
मारुतो यस्य तत्तथा एतच्च विशेषणं सुपक्वावस्थाप्रदर्शनपरम् ।