द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)
Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs
पं. जीवनानन्द विद्यासागर द्वारा
पृष्ठ 72, कुल 176 में से
संदर्भ में पढ़ें६४ द्रव्यगुणः।
नात्युष्णं नातिशीतञ्च वीर्य्यतो मरिचं सितम् ।
गुणवन्मरिचेभ्यश्च चक्षुष्यञ्च विशेषतः ॥ १८ ॥
हिङ्गु तीक्ष्णं कटुरसं शूलाजीर्णविबन्धनुत् ।
लघूष्णं पाचनं स्निग्धं दीपनं कफवातजित् ॥ १९
जीरकं रुचिकृत्सर्वं गन्धाढ्यं कफवातजित् ।
तीक्ष्णोष्णं कटुकं पाके कटु पित्ताग्निवर्द्धनम् २०
यमानी कृष्णजीरश्च ज्ञेया जीरकवद्गुणैः ॥ २१ ॥
धन्याकं कासतृट्छर्द्दिशमनं चक्षुषोर्हितम् ।
कषायतिक्तं मधुरं हृद्यं रोचनदीपनम् ॥ २२ ॥
लसुनः क्षारमधुरः पत्रे मधुरपिच्छलः ।
मध्ये कन्दे तु तीक्ष्णोष्णः कटुपाकरसः सरः ॥
हृद्यः केश्यो गुरुर्वृष्यः स्निग्धो दीपनपाचनः ।
भग्नसन्धानकृद्वल्यो रक्तपित्तप्रकोपणः ॥
किलासकुष्ठगुल्मार्शोमेहकृमिकफानिलान् ।
सहिक्कापीनसश्वासकासान् हन्ति रसायनः ॥ २३ ॥
तीक्ष्णोष्णत्वात् करोतीति चक्रः। ये तु चयमपि श्लेष्मणो
वदन्ति तदनुभवविरुद्धम् । डल्लनस्तु श्लेष्मप्रसेकि चेति पठति ॥ १७ ॥
सितं मरिचं शोभाञ्जनबीजम् । अन्ये तु मरिचमेव शुक्लं
वदन्ति ॥ १८ ॥
सर्वमिति । शुक्लपीतभेदाज्जीरकद्वयमिति चक्रः ॥ २० ॥
कृष्णजीरः कारवी ॥ २१ ॥